संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः ०३ कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः ०३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ०३ Translation - भाषांतर ॥ सूत उवाच ॥एवं स्थानानि पुण्यानि यानियानीह वै भुवि ॥निरीक्षंस्तत्र तत्राहं नारदो वीरसत्तम ॥१॥विचरन्मेदिनीं सर्वां प्राप्तोऽहमाश्रमं भृगोः ॥यत्र रेवानदी पुण्या सप्तकल्पस्मरा वरा ॥२॥महापुण्या पवित्रा च सर्वतीर्थमयी शुभा ॥पुनानि कीर्तनेनैव दर्शनेन विशेषतः ॥३॥तत्रावगाहनात्पार्थ मुच्यते जंतुरंहसा ॥यथा सा पिङ्गला नाडी देहमध्ये व्यवस्थिता ॥४॥इयं ब्रह्मांडपिण्डस्य स्थाने तस्मिन्प्रकीर्तिता ॥तत्रास्ते शुक्लतीर्थाख्यं रेवायां पापनाशनम् ॥५॥यत्र वै स्नानमात्रेण ब्रह्महत्या प्रणश्यति ॥तस्यापि सन्निधौ पार्थ रेवाया उत्तरे तटे ॥६॥नानावृक्षसमाकीर्णं लतागुल्मोपशोभितम् ॥नानापुष्पफलो पेतं कदलीखंडमंडितम् ॥७॥अनेकाश्वापदाकीर्णं विहगैरनुनादितम् ॥सुगंधपुष्पशोभाढ्यं मयूररवनादितम् ॥८॥भ्रमरैः सर्वमुत्सृज्य निलीनं रावसंयुतम् ॥यथा संसारमुत्सृज्य भक्तेन हरपादयोः ॥९॥कोकिला मधुरैः स्वानैर्नादयंति तथा मुनीन् ॥यथा कथामृताख्यानैर्ब्राह्मणा भवभीरुकान् ॥१०॥यत्र वृक्षा ह्लादयंति फलैः पुष्पैश्च पत्रकैः ॥छायाभिरपि काष्ठैश्च लोकानिव हरव्रताः ॥११॥पुत्रपुत्रेति वाशंते यत्र पुत्रप्रियाः खगाः ॥यथा शिवप्रियाः शैवा नित्यं शिवशिवेति च ॥१२॥एवंविधं मुनेस्तस्य भृगोराश्रममंडलम् ॥विप्रैस्त्रैविद्यसंयुक्तैः सर्वतः समलंकृतम् ॥१३॥ऋग्यजुः सामनिर्घोपैरारूरितदिगन्तरम् ॥रुद्रभक्तेन धीरेण यथैव भुवनत्रयम् ॥१४॥तत्राहं पार्थ संप्राप्तो यत्रास्ते मुनिसत्तमः ॥भृगुः परमधर्मात्मातपसा द्योतितप्रभः ॥१५॥आगच्छंतं तु मां दृष्ट्वा दीनं च मुदितं तथा ॥अभ्युत्थानं कृतं सर्वैर्विप्रैर्भृगुपुरोगमैः ॥१६॥कृत्वा सुस्वागतं दत्त्वा अर्घाद्यं भृगुणा सह ॥आसनेषूपविष्टास्ते मुनींद्रा ग्राहिता मया ॥१७॥विश्रांतं तु ततो ज्ञात्वा भृगुर्मामप्युवाचह ॥क्व गंतव्यं मुनिश्रेष्ठ कस्मादिह समागतः ॥१८॥आगमनकारणं सर्वं समाचक्ष्व परिस्फुटम् ॥ततस्तं चिंतयाविष्टो भृगुं पार्थाहमब्रुवम् ॥१९॥श्रूयतामभिधास्यामि यदर्थमहामागतः ॥मया पर्यटिता सर्वा समुद्रांता च मेदिनी ॥२०॥द्विजानां भूमिदानार्थं मार्गमाणः पदेपदे ॥निर्दोषां च पवित्रां च तीर्थेष्वपि समन्विताम् ॥२१॥रम्यां मनोरमां भूमिं न पश्यामि कथंचन ॥ ॥भृगुरुवाच ॥विप्राणां स्थापनार्थाय मयापि भ्रमता पुरा ॥२२॥पृथ्वी सागरपर्यंता दृष्टा सर्वा तदानघ ॥महीनाम नदी पुण्या सर्वतीर्थमयी शुभा ॥२३॥दिव्या मनोरमा सौम्या महापापप्रणाशिनी ॥नदीरूपेण तत्रैव पृथ्वी सा नात्र संशयः ॥२४॥पृथिव्यां यानि तीर्थानि दृष्टादृष्टानि नारद ॥तानि सर्वाणि तत्रैव निवसंति महीजले ॥२५॥सा समुद्रेण संप्राप्ता पुण्यतोया महानदी ॥संजातस्तत्र देवर्षे महीसागरसंगमः ॥२६॥स्तंभाख्यं तत्र तीर्थं तु त्रिषु लोकेषु विश्रुतम् ॥तत्र ये मनुजाः स्नानं प्रकुर्वंति विपश्चितः ॥२७॥सर्वपापविनिर्मुक्ता नोपसर्पंति वै यमम् ॥तत्राद्भुतं हि दृष्टं मे पुरा स्नातुं गतेन वै ॥२८॥तदहं कीर्तयिष्यामि मुने श्रृणु महाद्भुतम् ॥यावत्स्नातुं व्रजाम्यस्मिन्महीसागरसंगमे ॥२९॥तीरे स्थितं प्रपश्यामि मुनींद्रं पावकोपमम् ॥प्रांशुं वृद्धं चास्थिशेषं तपोलक्ष्म्या विभूषितम् ॥३०॥भुजावूर्ध्वौ ततः कृत्वा प्ररुदंतं मुहुर्मुहुः ॥तं तथा दुःखितं दृष्ट्वा दुःखितोऽहमथाभवम् ॥३१॥सतां लक्षणमेतद्धि यद्दृष्ट्वा दुःखितं जनम् ॥शतसंख्य तस्य भवेत्तथाहं विललाप ह ॥३२॥अहिंसा सत्यमस्तेयं मानुष्ये सति दुर्लभम् ॥ततस्तमुपसंगम्य पर्यपृच्छमहं तदा ॥३३॥किमर्थं रोदिशि मुने शोके किं कारणं तव ॥सुगुह्यमपि चेद्बूहि जिज्ञासा महती हि मे ॥३४॥मुनिस्ततो मामवदद्भृगो निर्भाग्यवानहम् ॥तेन रोदिमि मा पृच्छ दुर्भाग्यं चालपेद्धि कः ॥३५॥तमहं विस्मयाविष्टः पुनरेवेदमब्रुवम् ॥दुर्लभं भारते जन्म तत्रापि च मनुष्यता ॥३६॥मनुष्यत्वे ब्राह्मणत्वं मुनित्वं तत्र दुर्लभम् ॥तत्रापि च तपःसिद्धिः प्राप्यैतत्पंचकं परम् ॥३७॥किमर्थं रोदिषि मुने विस्मयोऽत्र महान्मम ॥एवं संपृच्छते मह्यमेतस्मिन्नेव चांतरे ॥३८॥सुभद्रोनाम नाम्ना च मुनिस्तत्राभ्युपाययौ ॥स हि मेरुं परित्यज्य ज्ञात्वा तीर्थस्य सारताम् ॥३९॥कृताश्रमः पूजयति सदा स्तंभेश्वरं मुनिः ॥सोऽप्येवं मामि वापृच्छन्मुनिं रोदनकारणम् ॥४०॥अथाहाचम्य स मुनिः श्रूयतां कारणं मुनी ॥अहं हि देवशर्माख्यो मुनिः संयतवाङ्मनाः ॥४१॥निवसामि कृतस्थानो गंगासागरसंगमे ॥तत्र दर्शेतर्पयामि सदैव च पितॄनहम् ॥४२॥श्राद्धांते ते च प्रत्यक्षा ह्याशिषो मे वदंति च ॥ततः कदाचित्पितरः प्रहृष्टा मामथाब्रवन् ॥४३॥वयं सदात्र चायामो देवशर्मंस्तवांतिके ॥स्थानेऽस्माकं कदाचित्त्वं न चायासि कुतः सुतः ॥४४॥स्थानं दिदृक्षुस्तच्चाहं न शक्तोऽस्मि निवोदितुम् ॥ततः परममित्युक्त्वा गतवान्पितृभिः सह ॥४५॥पितॄणां मंदिरं पुण्यं भौमलोकसमास्थितम् ॥तत्रतत्र स्थितश्चाहं तेजोमण्डलदुर्दृशान् ॥४६॥दृष्ट्वाग्रतः पूजयाढ्यानपृच्छं स्वान्पितॄनिति ॥के ह्यमी समुपायांति भृशं तृप्ता भृशार्चिताः ॥भृशंप्रमुदिता नैव तथा यूयं यथा ह्यमी ॥४७॥ ॥पितर ऊचुः ॥भद्रं ते पितरः पुण्याः सुभद्रस्य महामुनेः ॥तर्पितास्तेन मुनिना महीसागरसंगमे ॥४८॥सर्वतीर्थमयी यत्र निलीना ह्युदधौ मही ॥तत्र दर्शे तर्पयति सुभद्रस्तानमून्सुत ॥४९॥इत्याकर्ण्य वचस्तेषां लज्जितोऽहं भृशंतदा ॥विस्मितश्च प्रणम्यैतान्पितॄन्स्वं स्थानमागतः ॥५०॥यथा तथा चिंतितं च तत्र यास्याम्यहं श्फुटम् ॥पुण्यो यत्रापि विख्यातो महीसागरसंगमः ॥५१॥कृताश्रमश्च तत्रैव तर्पयिष्ये निजान्पितॄन् ॥दर्शेदर्शे यथा चासौ स्तुत्यनामा सुभद्रकः ॥५२॥किं तेन ननु जातेन कुलांगारेण पापिना ॥यस्मिञ्जीवत्यवि निजाः पितरोऽन्यस्पृहाकराः ॥५३॥इति संचिंत्य मुदितो रुचिं भार्यामथाब्रवुम् ॥रुचे त्वया समायुक्तो महीसागगरसंगमम् ॥५४॥गत्वा स्थास्यामि तत्रैव शीघ्रं त्वं सम्मुखीभव ॥पतिव्रतासि शुद्धासिकुलीनासि यशस्विनि ॥तस्मादेतन्मम शुभे कर्तुमर्हसि चिंतितम् ॥५५॥ ॥रुचिरुवाच ॥हता तस्य जनिर्नाभूत्कथं पाप दुरात्मना ॥५६॥श्मशानस्तंभ येनाहं दत्ता तुभ्यं कृतंत्वाय ॥इह कंदफलाहारैर्यत्किं तेन न पूर्यते ॥५७॥नेतुमिच्छसि मां तत्र यत्र क्षारोदकं सदा ॥त्वमेव तत्र संयाहि नंदंतु तव पूर्वजाः ॥५८॥गच्छ वा तिष्ठ वा वृद्ध वस वा काकवच्चिरम् ॥तथा ब्रुवन्त्यां तस्यां तु कर्णावस्मि पिधाय च ॥५९॥विपुलं शिष्यमादिश्य गृह एकोऽत्र आगतः ॥सोऽहं स्नात्वात्र संतर्प्य पितॄञ्छ्रद्धापरायणः ॥६०॥चिंतां सुविपुलां प्राप्तो नरके दुष्कृती यथा ॥यदि तिष्ठामि चात्रैव अर्धदेहधरो ह्यहम् ॥६१॥नरो हि गृहिणीहीनो अर्धदेह इति स्मृतः ॥यथात्मना विना देहे कार्यं किंचिन्न सिध्यति ॥६२॥अनयोर्हि फलं ग्राह्यं सारता नात्र काचन ॥अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः ॥६३॥अनयोर्हिफलं ग्राह्यं सारता नात्र काचन ॥अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः ॥६४॥औत्तानपादिरस्पृश्य उत्तमो हि सुरैः कृतः ॥अथ चेत्तत्र संयामि न महीसागरस्ततः ॥६५॥यामि वा तत्कथं पादौ चलतो मे कथंचन ॥एतस्मिन्मे मनो विद्धं खिद्यतेऽज्ञानसंकटे ॥६६॥अतोऽहमतिमुह्यामि भृशं शोचामि रोदिमि ॥इतिश्रुत्वा वचस्तस्य भृशं रोमांचपूरितम् ॥६७॥साधुसाध्वित्यथोवाच तं सुभद्रोऽप्यहं तथा ॥दण्डवच्च प्रणमितो महीसागरसङ्गमम् ॥६८॥चिन्तयावश्च मनसि प्रतीकारं मुनेरुभौ ॥यो हि मानुष्यमासाद्य जलबुद्बुदभंगुरम् ॥६९॥परार्थाय भवत्येष पुरुषोऽन्ये पुरीषकाः ॥ततः संचिंत्य प्राहेदं सुभद्रो मुनिसत्तमम् ॥७०॥मा मुने परिखिद्यस्व देवशर्मन्स्थिरो भव ॥अहं ते नाशयिष्यामि शोकं सूर्यस्तमो यथा।.७१॥गमिष्याम्याश्रमं त्वं च नात्रापि परिहास्यते ॥श्रृणु तत्कारणं तुभ्यं तर्पयिष्ये पितॄनहम् ॥७२॥ ॥देवशर्मोवाच ॥एवं ते वदमानस्य आयुरस्तु शतं समाः ॥यदशक्यं महत्कर्म कर्तुमिच्छसि मत्कृते ॥७३॥हर्षस्थाने विषादश्च पुनर्मां बाधते श्रृणु ॥अपि वाक्यं शुभं सन्तो न गृह्णन्ति मुधा मुने ॥७४॥कथमेतन्महत्कर्म कारयामि मुधावद ॥पुनः किंचित्प्रवक्ष्यामि यथा मे निष्कृतिर्भवेत् ॥७५॥शापितोऽसि मया प्राणैर्यथा वच्मि तथा कुरु ॥अहं सदा करिष्यामि दर्शे चोद्दिश्यते पितॄन् ॥७६॥श्राद्धं गंगार्णवे चात्र मत्पितॄणां त्वमाचर ॥अहं चैवापि तपसः संचितस्यापि जन्मना ॥चतुर्भागं प्रदास्यामि एवमेवैतदाचर ॥७७॥ ॥सुभद्र उवाच ॥यद्येवं तव संतोषस्त्वेवमस्तु मुनीश्वर ॥साधूनां च यथा हर्षस्तथा कार्यं विजानता ॥७८॥ ॥भृगुरुवाच ॥देवशर्मा ततो हृष्टो दत्त्वा पुण्यं त्रिवाचिकम् ॥चतुर्थाशं ययौ धाम स्वं सुभद्रोऽपि च स्थितः ॥७९॥एवंविधो नारदासौ मही सागरसंगमः ॥यमनुस्मरतो मह्यं रोमांचोऽद्यापि वर्तते ॥८०॥॥ नारद उवाच ॥इति श्रुत्वा फाल्गुनाहं हर्षगद्गदया गिरा ॥मृतोमृत इवा वोचं साधुसाध्विति तंभृगुम् ॥८१॥यूयं वयं गमिष्यामो महीतीरं सुशोभनम् ॥आवामीक्षावहे सर्वं स्थानकं तदनुत्तमम् ॥८२॥मम चैवं वचः श्रुत्वा भृगुः सह मयययौ ॥समस्तं तु महापुण्यं महीकूलं निरीक्षितम् ॥८३॥तद्दृष्ट्वा चातिहृष्टोहमासं रोमांचकंचुकः ॥अब्रवं मुनिशार्दूलं हर्षगद्गदया गिरा ॥८४॥त्वत्प्रसादात्करिष्यामि भृगो स्थानमनुत्तमम् ॥स्वस्थानं गम्यतां ब्रह्मन्नतः कृत्यं विचिंतये ॥८५॥एवं भृगुं चास्मिविसर्जयित्वा कल्लोलकोलाहलकौतुकीतटे ॥अथोपविश्येदमचिंतयं तदा किं कृत्यमात्मानमिवैकयोगी ॥८६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखंडे नारदार्जुनसंवादे महीसागरसंगमतीर्थमाहात्म्ये तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : July 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP