कौमारिकाखण्डः - अध्यायः ५५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच
इति बाभ्रव्यवचनमाकर्ण्य कुरुनन्दनः ॥
प्राणमन्नारदं भक्त्या विस्मितः पुलकान्वितः ॥१॥
प्रशस्य च चिरं कालं पुनर्नारदमब्रवीत् ॥२॥
गुप्तक्षेत्रस्य माहात्म्यं शृण्वानस्त्वन्मुखान्मुने ॥
तृप्तिं नैवाधिगच्छामि भूयस्तद्वक्तुमर्हसि ॥३॥
॥ नारद उवाच
महालिंगस्य वक्ष्यामि महिमानं कुरूद्वह ॥
गौतमेश्वर लिंगस्य सावधानः शृणुष्व तत् ॥४॥
अक्षपादो महायोगी गौतमाख्योऽभवन्मुनिः ॥
गोदावरीसमानेता अहल्यायाः पतिः प्रभुः ॥५॥
गुप्त क्षेत्रस्य माहात्म्यं स च ज्ञात्वा महोत्तमम् ॥
योगसंसाधनं कुर्वन्नत्र तेपे तपो महत् ॥६॥
योगसिद्धिं ततः प्राप्य गौतमेन महात्मना ॥
अत्र संस्थापितं लिंगं गौतमेश्वरसंज्ञया ॥७॥
संस्नाप्यैतन्महालिंगं चन्दनेन विलिप्य च ॥
संपूज्य पुष्पैर्विविधैर्गुग्गुलं दाहयेत्पुरः ॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥८॥
॥ अर्जुन उवाच
योगस्वरूपमिच्छामि श्रोतुं नारद तत्त्वतः ॥
योगं सर्वे प्रशंसंति यतः सर्वोत्तमोत्तमम् ॥९॥
॥ नारद उवाच
समासात्तव वक्ष्यामि योगतत्त्वं कुरूद्वह ॥
श्रवणादपि नैर्मल्यं यस्य स्यात्सेवनात्किमु ॥१०॥
चित्तवृत्तिनिरोधाख्यं योगतत्त्वं प्रकीर्त्यते ॥
तदष्टांगप्रकारेण साधयंतीह योगिनः ॥११॥
यमश्च नियमश्चैव प्राणायामस्तृतीयकः ॥
प्रत्याहारो धारणा च ध्येयं ध्यानं च सप्तमम् ॥१२॥
समाधिरिति चाष्टांगो योगः संपरिकीर्तितः ॥
प्रत्येकं लक्षणं तेषामष्टानां शृणु पांडव ॥१३॥
अनुक्रमान्नरो येषां साधनाद्योगमश्नुते ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥१४॥
एते पंच यमाः प्रोक्ताः शृण्वेषामपि लक्षणम् ॥
आत्मवत्सर्वभूतेषु यो हिताय प्रवर्तते ॥१५॥
अहिंसैषा समाख्याता वेदसंविहिता च या ॥
दृष्टं श्रुतं चानुमितं स्वानुभूतं यथार्थतः ॥१६॥
कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ॥
अनादानं परस्वानामापद्यपि कथंचन ॥१७॥
मनसा कर्मणा वाचा तदस्तेयं प्रकीर्तितम् ॥
अमैथुनं यतीनां च मनोवाक्कायकर्मभिः ॥१८॥
ऋतौ स्वदारगमनं गेहिनां ब्रह्मचर्यता ॥
यतीनां सर्वसंन्यासो मनोवाक्कायकर्मणा ॥१९॥
गृहस्थानां च मनसा स्मृत एषोऽपरिग्रहः ॥
एते यमास्तव प्रोक्ताः पंचैव नियमाञ्छृणु ॥२०॥
शौचं तुष्टिस्तपश्चैव जपो भक्तिर्गुरोस्तथा ॥
एतेषामपि पंचानां पृथक्संशृणु लक्षणम् ॥२१॥
बाह्यमाभ्यतरं चैव द्विविधं शौचमुच्यते ॥
बाह्यं तु मृज्जलैः प्रोक्तमांतरं शुद्धमानसम् ॥२२॥
न्यायेनागतया वृत्त्या भिक्षया वार्तयापि च ॥
संतोषो यस्य सततं सा तुष्टिरिति चोच्यते ॥२३॥
चांद्रायणादीनि पुनस्तपांसि विहितानि च ॥
आहारलाघवपरः कुर्यात्तत्तप उच्यते ॥२४॥
स्वाध्यायस्तु जपः प्रोक्तः प्रणवाभ्यसनादिकः ॥
शिवे ज्ञाने गुरौ भक्तिर्गुरुभक्तिरिति स्मृता ॥२५॥
एवं संसाध्य नियमान्संयमांश्च विचक्षणः ॥
प्राणायामाय संदध्यान्नान्यथा योगसाधकः ॥२६॥
यतोऽशुचिशरीरस्य वायुकोपो महान्भवेत् ॥
वायुकोपात्कुष्ठता च जडत्वादीनुपाश्नुते ॥२७॥
तस्माद्विचक्षणः शुद्धं कृत्वा देहं यतेत्परम् ॥
प्राणायामस्य वक्ष्यामि लक्षणं शृणु पांडव ॥२८॥
प्राणापाननिरोधश्च प्राणायामः प्रकीर्तितः ॥
लघुमध्योत्तरीयाख्यः स च धीरैस्त्रिधोदितः ॥२९॥
लघुर्द्वादशमात्रस्तु मात्रा निमिष उन्मिषः ॥
द्विगुणो मध्यमश्चोक्तस्त्रिगुणश्चोत्तमः स्मृतः ॥३०॥
प्रथमेन जयेत्स्वेदं मध्यमेन तु वेपथुम् ॥
विषादं च तृतीयेन जयेद्दोषाननुक्रमात् ॥३१॥
पद्माख्यमासनं कृत्वा रेचकं पूरकं तथा ॥
कुंभकं च सुखासीनः प्राणायामं त्रिधाऽभ्यसेत् ॥३२॥
प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः ॥
यथा पर्वतधातूनां ध्मातानां दह्यते मलः ॥३३॥
तथेंद्रियवृतो दोषः प्राणायामेन दह्यते ॥
गोशतं कापिलं दत्त्वा यत्फलं तत्फलं भवेत् ॥३४॥
प्राणायामेन योगज्ञस्तस्मात्प्राणं सदा यमेत् ॥
प्राणायामेन सिद्ध्यन्ति दिव्याः शान्त्यादयः क्रमात् ॥३५॥
शांतिः प्रशान्तिर्दीप्तिश्च प्रसादश्च यथाक्रमम् ॥स
हजागंतुकामानां पापानां च प्रवर्तताम् ॥३६॥
वासनाशांतिरित्याख्यः प्रथमो जायते गुणः ॥
लोभमोहात्मकान्दोषान्निराकृत्यैव कृत्स्नशः ॥३७॥
तपसां च यदा प्राप्तिः सा शांतिरिति चोच्यते ॥
सर्वेन्द्रियप्रसादश्च बुद्धेर्वै मरुतामपि ॥३८॥
प्रसाद इति स प्रोक्तः प्राप्यमेवं चतुष्टयम् ॥
एवंफलं सदा योगी प्राणायामं समभ्यसेत् ॥३९॥
मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुंजराः ॥
यथा यान्ति तथा प्राणो वश्यो भवति साधितः ॥४०॥
प्राणायामस्त्वयं प्रोक्तः प्रत्याहारं ततः शृणु ॥
विषयेषु प्रवृत्तस्य चेतसो विनिवर्तनम् ॥४१॥
प्रत्याहारं विनिर्दिष्टतस्य संयमनं हि यत् ॥
प्रत्याहारस्त्वयं प्रोक्तो धारणालक्षणं शृणु ॥४२॥
यथा तोयार्थिनस्तोयं पत्रनालादिभिः शनैः ॥
आपिबेयुस्तथा वायुं योगी नयति साधितम् ॥४३॥
प्राग्नाभ्यां हृदये वायुरथ तालौ भ्रुवोंऽतरे ॥
चतुर्दले षड्दशे च द्वादशे षोडशद्विके ॥४४॥
आकुंचनेनैव मूर्द्धमुन्नीय पवनं शनैः ॥
मूर्धनि ब्रह्मरंध्रे तं प्राणं संधारयेत्कृती ॥४५॥
प्राणायामा दश द्वौ च धारणैषा प्रकीर्त्यते ॥
दशैता धारणाः स्थाप्य प्राप्नोत्यक्षरसाम्यताम् ॥४६॥
धारणास्थस्य यद्ध्येयं तस्य त्वं शृणु लक्षणम् ॥
ध्येयं बहुविधं पार्थ यस्यांतो नोपलभ्यते ॥४७॥
केचिच्छिवं हरिं केचित्केचित्सूर्यं विधिं परे ॥
केचिद्देवीं महद्भूतामुत ध्यायन्ति केचन ॥४८॥
तत्र यो यच्च ध्यायेत स च तत्र प्रलीयते ॥
तस्मात्सदा शिवं देवं पंचवक्त्रं हरं स्मरेत् ॥४९॥
पद्मासनस्थं तं गौरं बीजपूरकरं स्थितम् ॥
दशहस्तं सुप्रसन्नवदनं ध्यानमास्थितम् ॥५०॥
ध्येयमेतत्तव प्रोक्तं तस्माद्ध्यानं समाचरेत् ॥
ध्यानस्य लक्षणं चैतन्निमेषार्धमपि स्फुटम् ॥५१॥
न पृथग्जायते ध्येयाद्धारणां यः समास्थितः ॥
एवमेतां दुरारोहां भूमिमास्थाय योगवित् ॥५२॥
न किंचिच्चिंतयेत्पश्चात्समाधिरिति कीर्त्यते ॥
समाधेर्लक्षणं सम्यग्ब्रुवतो मे निशामय ॥५३॥
शब्दस्पर्शरसैर्हीनं गंधरूपविवर्जितम् ॥
परं पुरुषं संप्राप्तः समाधिस्थः प्रकीर्तितः ॥५४॥
तां तु प्राप्य नरो विघ्नैर्नाभिभूयेत कर्हिचित् ॥
समाधिस्थश्च दुःखेन गुरुणापि न चाल्यते ॥५५॥
शंखाद्याः शतशस्तस्य वाद्यन्ते यदि कर्णयोः ॥
भेर्यश्च यदि हन्यंते शब्दं बाह्यं न विंदति ॥५६॥
कशाप्रहाराभिहतो वह्निदग्धतनुस्तथा ॥
शीताढ्येव स्थितो घोरे स्पर्शं बाह्यं न विन्दति ॥५७॥
रूपे गंधे रसे बाह्ये तादृशस्य तु का कथा ॥
दृष्ट्वा य आत्मनात्मानं समाधिं लभते पुनः ॥५८॥
तृष्णा वाथ बुभुक्षा वा बाधेते तं न कर्हिचित् ॥५९॥
न स्वर्गे न च पाताले मानुष्ये क्व च तत्सुखम् ॥
समाधिं निश्चलं प्राप्य यत्सुखं विंदते नरः ॥६०॥
एवमारूढयोगस्य तस्यापि कुरुनदन ॥
पंचोपसर्गाः कटुकाः प्रवर्तंते यथा शृणु ॥६१॥
प्रातिभः श्रावणो दैवो भ्रमावर्तोऽथ भीषणः ॥
प्रतिभा सर्वशास्त्राणां प्रातिभोऽयं च सात्त्विकः ॥६२॥
तेन यो मदमादद्याद्योगी शीघ्रं च चेतसः ॥
योजनानां सहस्रेभ्यः श्रवणं श्रावणस्तु सः ॥६३॥
द्वितीयः सात्विकश्चायमस्मान्मत्तो विनश्यति ।
अष्टौ पश्यति योनीश्च देवानां दैव इत्यसौ ॥६४॥
अयं च सात्त्विको दोषो मदादस्माद्विनश्यति ॥
आवर्त इव तोयस्य जनावर्ते यदाकुलः ॥६५॥
आवर्ताख्यस्त्वयं दोषो राजसः स महाभयः ॥
भ्राम्यते यन्निरालम्बं मनो दोषैश्च योगिनः ॥६६॥
समस्ताधारविभ्रंशाद्भ्रमाख्यस्तामसो गुणः ॥
एतैर्नाशितयोगाश्च सकला देवयोनयः ॥६७॥
उपसर्गैर्महाघोरैरावर्त्यंते पुनः पुनः ॥
प्रावृत्य कंबलं शुक्लं योगी तस्मान्मनोमयम् ॥६८॥
चिंतयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ॥
आहाराः सात्त्विकाश्चैव संसेव्याः सिद्धिमिच्छता ॥६९॥
राजसैस्तामसैश्चैव योगी सिद्धयेन्न कर्हिचित् ॥
श्रद्दधानेषु दांतेषु श्रोत्रियेषु महात्मसु ॥७०॥
स्वधर्मादनपेतेषु भिक्षा याच्या च योगिना ॥
भैक्षं यवान्नं तक्रं वा पयो यावकमेव वा ॥७१॥
फलमूलं विपक्वं वा कणपिण्याकसक्तवः ॥
श्रुता इत्येत आहारा योगिनां सिद्धिकारकाः ॥७२॥
मृत्युकालं विदित्वा च निमित्तैर्योगसाधकः ॥
योगं युञ्जीत कालस्य वंचनार्थं समाहितः ॥७३॥
निमित्तानि च वक्ष्यामि मृत्युं यो वेत्ति योगवित् ॥
रक्तकृष्णांबरधरा गायंतीह सती च यम् ॥७४॥
दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ॥
नग्नं क्षपणकं स्वप्ने हसमानं प्रदृश्य च ॥७५॥
एनं च वीक्ष्य वल्गन्तं तं विद्यान्मृत्युमागतम् ॥
ऋक्षवानरयुग्यस्थो गायन्यो दक्षिणां दिशम् ॥७६॥
याति मज्जेदधौ पंके गोमये वा न जीवति ॥
केशांगारैस्तथा भस्मभुजंगैर्निजलां नदीम् ॥७७॥
एषामन्यतमैः पूर्णां दृष्ट्वा स्वप्ने न जीवति ॥
करालैर्विकटै रूक्षैः पुरुषैरुद्यतायुधैः ॥७८॥
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं भजेन्नरः ॥
सूर्योदये यस्य शिवा क्रोशंती याति सम्मुखम् ॥७९॥
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥
दीपाधिगंधं नो वेत्ति वमत्यग्निं तथा निशि ॥८०॥
नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥
शक्रायुधं चार्धरात्रे दिवा वा ग्रहणं तथा ॥८१॥
दृष्ट्वा मन्येत स क्षीणमात्मजीवितमाप्तवान् ॥
नासिका वक्रतामेति कर्णयोर्न्नमनोन्नती ॥८२॥
नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥
आरक्ततामेति मुखं जिह्वा चाप्यसिता यदा ॥८३॥
तदा प्राज्ञो विजानीयादासन्नं मृत्युमात्मनः ॥
उष्ट्ररासभयानेन स्वप्ने यो याति दक्षिणाम् ॥८४॥
दिशं कर्णौ पिधायापि निर्घोषं शृणुयान्न च ॥
न स जीवेत्तथा स्वप्ने पति तस्य पिधीयते ॥८५॥
द्वारं न चोत्तिष्ठति च शुभ्रा दृष्टिश्च लोहिता ॥
स्वप्नेऽग्निं प्रविशेद्यश्च न च निष्क्रमते पुनः ॥८६॥
जलप्रवेशादपि वा तदंतं तस्य जीवितम् ॥
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ॥८७॥
प्रकृतैर्विकृतैर्वापि तस्यासन्नौ यमांतकौ ॥
देवतानां गुरूणां च पित्रोर्ज्ञानविदां तथा ॥८८॥
निन्दामवज्ञां कुरुते भक्तो भूत्वा न जीवति ॥
एवं दृष्ट्वा निमित्तानि विपरीतानि योगवित् ॥८९॥
धारणां सम्यगास्थाय समाधावचलो भवेत् ॥
यदि नेच्छति ते मृत्युं ततो नासौ प्रपद्यते ॥९०॥
विमुक्तिमथवा वांछेद्विसृजेद्ब्रह्ममूर्धनि ॥
संति देहे विमुक्ते च उपसर्गाश्च ये पुनः ॥९१॥
योगिनं समुपायांति शृणु तानपि पांडव ॥
ऐशान्ये राक्षसपुरे यक्षो गन्धर्व एव च ॥९२॥
ऐन्द्रे सौम्ये प्रजापत्ये ब्राह्मे चाष्टसु सिद्धयः ॥
भवंति चाष्टौ शृणु ताः पार्थिवी या च तैजसी ॥९३॥
वायवी व्योमात्मिका चैव मानसाहम्भवा मतिः ॥
प्रत्येकमष्टधा भिन्ना द्विगुणा द्विगुणा क्रमात।९४॥
पूर्वे चाष्टौ चतुःषष्टिरन्ते शृणुष्व तद्यथा ॥
स्थूलता ह्रस्वता बाल्यं वार्धक्यं योवनं तथा ॥९५॥
नानाजाति स्वरूपं च चतुर्भिर्देहधारणम् ॥
पार्थिवांशं विना नित्यमष्टौ पार्थिवसिद्धयः ॥९६॥
विजिते पृथिवीतत्त्वे यदैशान्ये भवन्ति च ॥
भूमाविव जले वासो नातुरोऽर्णवमापिबेत् ॥९७॥
सर्वत्र जलप्राप्तिश्च अपि शुष्कं द्रवं फलम् ॥
त्रिभिर्देहस्य धरणं नदीर्वा स्थापयेत्करे ॥९८॥
अव्रणत्वं शरीरस्य कांतिश्चाथाष्टकं स्मृतम् ॥
अष्टौ पूर्वा इमाश्चाष्टौ राक्षसानां पुरे स्मृताः ॥९९॥
देहादग्निविनिर्माणं तत्तापभयवर्जनम् ॥
शक्तिदत्वं च लोकानां जलमध्येग्निज्वालनम् ॥१००॥
अग्निग्रहश्च हस्तेन स्मृतिमात्रेण पावनम् ॥
भस्मीभूतस्य निर्माणं द्वाभ्यां देहस्य धारणम् ॥१०१॥
पूर्वाः षोडश चाप्यष्टौ तेजसो यक्षसद्मनि ॥
मनोगतित्वं भूतानामन्तर्निवेशनं तथा ॥१०२॥
पर्वतादिमहाभारवहनं लीलयैव च ॥
लघुत्वं गौरवत्वं च पाणिभ्यां वायुवारणम् ॥१०३॥
अंगुल्यग्रनिपातेन भूमेः सर्वत्र कम्पनम् ॥
एकेन देहनिष्पत्तिर्गांधर्वे वांति सिद्धयः ॥१०४॥
चतुर्विंशतिः पूर्वाश्चाप्यष्टावेताश्च सिद्धयः ॥
गन्धर्वलोके द्वात्रिंशदत ऊर्ध्वं निशामय ॥१०५॥
छायाविहीननिष्पत्तिरिंद्रियाणामदर्शनम् ॥
आकाशगमनं नित्यमिंद्रियादिशमः स्वयम् ॥१०६॥
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम् ॥
तन्मात्रलिंगग्रहणं सर्वप्राणिनिदर्शनम् ॥१०७॥
अष्टौ वातात्मिकाश्चैन्द्रे द्वात्रिंशदपि पूर्वकाः ॥
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥१०८॥
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम् ॥
संसारदर्शनं चापि मानस्योऽष्टौ च सिद्धयः ॥१०९॥
चत्वारिंशच्च पूर्वाश्च सोमलोके स्मृतास्त्विमाः ॥
छेदनं तापनं बन्धः संसारपरिवर्तनम् ॥११०॥
सर्वभूत प्रसादत्वं मृत्युकालजयस्तथा ॥
अहंकारोद्भवश्चाष्टौ प्राजापत्ये च पूर्विकाः ॥१११॥
आकारेण जगत्सष्टिस्तथानुग्रह एव च ॥
प्रलयस्याधिकारं च लोकचित्रप्रवर्तनम् ॥११२॥
असादृश्यमिदं व्यक्तं निर्वाणं च पृथक्पृथक् ॥
शुभेतरस्य कर्तृत्वमष्टौ बुद्धिभवास्त्वमी ॥११३॥
षट्पंचाशत्तथा पूर्वाश्चतुःषष्टिरिमे गुणाः ॥
ब्राह्मये पदे प्रवर्तंते गुह्यमेतत्तवेरितम् ॥११४॥
जीवतो देहभेदे वा सिद्ध्यश्चैतास्तु योगिनाम् ॥
संगो नैव विधातव्यो भयात्पतनसंभवात् ॥११५॥
एतान्गुणान्निराकृत्य युञ्जतो योगिनस्तदा ॥
सिद्धयोऽष्टौ प्रवर्तंते योगसंसिद्धिकारकाः ॥११६॥
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥
प्राकाम्यं च तथेशित्वं वशित्वं च तथापरे ॥११७॥
यत्र कामावसायित्वं माहेश्वरपदस्थिताः ॥
सूक्ष्मात्सूक्ष्मत्वमणिमा शीघ्रत्वाल्लघिमा स्मृता ॥११८॥
महिमा शेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य यत् ॥
प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः ॥११९॥
वशित्वाद्वशिता नाम सप्तमी सिद्धिरुत्तमा ॥
यत्रेच्छा तत्र च स्थानं तत्र कामावसायिता ॥१२०॥
ऐश्वरं पदमाप्तस्य भवंत्येताश्च सिद्धयः ॥
ततो न जायते नैव वर्धते न विनश्यति ॥१२१॥
एष मुक्त इति प्रोक्तो य एवं मुक्तिमाप्नुयात् ॥
यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति ॥१२२॥
तथैवं सात्म्यमभ्येति योगिनामात्मा परात्मना ॥
एवं ज्ञात्वा फलं योगी सदा योगं समभ्यसेत् ॥१२३॥
अत्रोपमां व्याहरंति योगार्थं योगिनोऽ मलाः ॥
शशांकरश्मिसंयोगादर्ककांतो हुताशनम् ॥१२४॥
समुत्सृजति नैकः सन्नुपमा सास्ति योगिनः ॥
कपिंजलाखुनकुला वसंति स्वामिव द्गृहे ॥१२५॥
ध्वस्ते यांत्यन्यतो दुःखं न तेषां सोपमा यतेः ॥
मृद्देहकल्पदेहोऽपि मुखाग्रेण कनीयसा ॥१२६॥
करोति मृद्भागचयमुपदेशः स योगिनः ॥
पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् ॥१२७॥
वृक्षं विलुप्यमानं च लब्ध्वा सिध्यंति योगिनः ॥
रुरुगात्रविषाणाग्रमालक्ष्य तिलकाकृतिम् ॥१२८॥
सह तेन विवर्धेत योगी सिद्धिमुपाश्नुते ॥
द्रव्यं पूर्णमुपादाय पात्रमारोहते भुवः ॥१२९॥
तुंगमार्गं विलोक्यैवं विज्ञातं कि न योगिनाम् ॥
तद्गेहं यत्र वसति तद्भोज्यं येन जीवति ॥१३०॥
येन निष्पाद्यते चार्थः स्वयं स्याद्योगसिद्धये ॥
तथा ज्ञानमुपासीत योगी यत्कार्यसाधकम् ॥१३१॥
ज्ञानानां बहुता येयं योगविघ्नकरी हि सा ॥
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ॥१३२॥
अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात् ॥
त्यक्तसंगो जितक्रोधो लब्धाहारो जितेंद्रियः ॥१३३॥
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥
आहारं सात्त्विकं सेवेन्न तं येन विचेतनः ॥१३४॥
स्यादयं तं च भुंजानो रौरवस्य प्रियातिथिः ॥
वाग्दण्डः कर्मदण्डश्च मनोदंडश्च ते त्रयः ॥१३५॥
यस्यैते नियता दंडाः स त्रिदंडी यतिः स्मृतः ॥
अनुरागं जनो याति परोक्षे गुणकीर्तनम् ॥१३६॥
न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुच्यते ॥१३७॥
अलौल्यमारोग्यमनिष्ठुरत्वं गंधः शुभो मूत्रपुरीषयोश्च ॥
कांतिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥१३८॥
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकांतरतिर्जितेन्द्रियः ॥
समाप्नुयाद्योगमिमं महामना विमुक्तिमाप्नोति ततश्च योगतः ॥१३९॥
कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती च तेन ॥
अवाह्यमार्गे सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चेतः ॥१४०॥
विशुद्धबुद्धिः समलोष्टकांचनः समस्तभूतेषु वसन्समो हि यः ॥
स्थानं परं शाश्वतमव्ययं च यतिर्हि गत्वा न पुनः प्रजायते ॥१४१॥
इदं मया योगरहस्यमुक्तमेवंविधं गौतमः प्राप योगम् ॥
तेनैतच्च स्थापितं पार्थ लिंगं संदर्शनादर्चनात्कल्मषघ्नम् ॥१४२॥
यश्चाश्विने कृष्णचतुर्दशीदिने रात्रौ समभ्यर्चति लिंगमेतन् ॥
स्नात्वा अहल्यासरसि प्रधाने श्रद्धाय सर्वं प्रविधाय भक्तितः ॥१४३॥
महोपकारेण विमुक्तपापः स याति यत्रास्ति स गौतमो मुनिः ॥१४४॥
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ॥
माहात्म्यमेतत्सकलं शृणोति यः स स्याद्विशुद्धः किमु वच्मि भूयः ॥१४५॥
य इदं शृणुयाद्भक्त्या गौतमाख्यानमुत्तमम् ॥
पुत्रपौत्रप्रियं प्राप्य स याति पदमव्ययम् ॥१४६
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे गौतमेश्वरमाहात्म्यसविस्तरयोगलक्षणवर्णनंनाम पञ्चपंचाशत्तमोऽध्यायः ॥५५॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP