कौमारिकाखण्डः - अध्यायः २७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
ततो निरुपमं दिव्यं सर्वरत्नमयं शुभम् ॥
ईशाननिर्मितं साक्षात्सह देव्याविशद्गृहम् ॥१॥
तत्रासौ मंदरगिरौ सह देव्या भगाक्षहा ॥
प्रासादे तत्र चोद्याने रेमे संहृष्टमानसः ॥२॥
एतस्मिन्नंतरे देवास्तारकेणातिपीडिताः ॥
प्रोत्साहितेन चात्यर्थं मया कलिचिकीर्षुणा ॥३॥
आसाद्य ते भवं देवं तुष्टुबुर्बहुधा स्तवैः ॥
एतस्मिन्नंतरे देवी प्रोद्वर्तयत गात्रकम् ॥४॥
उद्वर्तनमलेनाथ नरं चक्रे गजाननम् ॥
देवानां संस्तवैः पुण्यैः कृपयाभिपरिप्लुता ॥५॥
पुत्रेत्युवाच तं देवी ततः संहृष्टमानसा ॥
एतस्मिन्नंतरे शर्वस्तत्रागत्य वचोऽब्रवीत् ॥६॥
पुत्रस्तवायं गिरिजे श्रृणु यादृग्भविष्यति ॥
विक्रमेण च वीर्येण कृपया सदृशो मया ॥७॥
यथाहं तादृशश्चासौ पुत्रस्ते भविता गुणैः ॥
ये च पापा दुराचारा वेदान्धर्मं द्विषंति च ॥८॥
तेषामामरणांतानि विघ्नान्येष करिष्यति ॥
ये च मां नैव मन्यंते विष्णुं वापि जगद्गुरुम् ॥९॥
विघ्निता विघ्नराजेन ते यास्यंति महत्तमः ॥
तेषां गृहेषु कलहः सदा नैवोपसाम्यति ॥१०॥
पुत्रस्य तव विघ्नेन समूलं तस्य नश्यति ॥
येषां न पूज्याः पूज्यंते क्रोधासत्यपराश्च ये ॥११॥
रौद्रसाहसिका ये च तेषां विघ्नं करिष्यति ॥
श्रुतिधर्माञ्ज्ञातिधर्मान्पालयंति गुरूंश्च ये ॥१२॥
कृपालवो गतक्रोधास्तेषां विघ्नं हरिष्यति ॥
सर्वे धर्माश्च कर्माणि तथा नानाविधानि च ॥१३॥
सविघ्नानि भिवष्यंति पूजयास्य विना शुभे ॥
एवं श्रुत्वा उमा प्राह एवमस्त्विति शंकरम् ॥१४॥
ततो बृहत्तनुः सोऽभूत्तेजसा द्योतयन्दिशः ॥
ततो गणैः समं शर्वः सुराणां प्रददौ च तम् ॥
यावत्तार कहंता वो भवेत्तावदयं प्रभुः ॥१५॥
ततो विघ्नपतिर्देवैः संस्तुतः प्रमतार्तिहा ॥
चकार तेषां कृत्यानि विघ्नानि दितिजन्मनाम् ॥१६॥
पार्वती च पुनर्देवी पुत्रत्वे परिकल्प्य च ॥
अशोकस्यांकुरं वार्भिरवर्द्धयत स्वादृतैः ॥१७॥
सप्तर्षीनथ चाहूय संस्कारमंगलं तरोः ॥
कारयामास तन्वंगी ततस्तां मुनयोऽब्रुवन् ॥१८॥
त्वयैव दर्शिते मार्गे मर्यादां कर्तुमर्हसि ॥
किं फलं भविता देवि कल्पितैस्तरुपुत्रकैः ॥१९॥
॥देव्युवाच ॥
यो वै निरुदके ग्रामे कूपं कारयते बुधः ॥
यावत्तोयं भवेत्कूपे तावत्स्वर्गे स मोदते ॥२०॥
दशकूपसमावापी दशवापी समं सरः ॥
दशसरःसमा कन्या दशकन्यासमः क्रतुः ॥२१॥
दशक्रतुसमः पुत्रो दशपुत्रसमो द्रुमः ॥२२॥
एषैव मम मर्यादा नियता लोकभाविनी ॥
जीर्णोद्धारे कृते वापि फलं तद्द्विगुणं मतम् ॥२३॥
॥इति गणेशोत्पत्तिः ॥
ततः कदाचिद्भगवानुमया सह मंदरे ॥
मंदिरे हर्षजनने कलधौतमये शुभे ॥२४॥
प्रकीर्णकुसुमामोदमहालिकुलकूजिते ॥
किंनरोद्गीतसंगीत प्रतिशब्दितमध्यके ॥२५॥
क्रीडामयूरैर्हसैश्च श्रुतैश्चैवाभिनादिते ॥
मौक्तिकैर्विविध रत्नैर्विनिर्मितगवाक्षके ॥२६॥
तत्र पुण्यकथाभिश्च क्रीडतो रुभयोस्तयोः ॥
प्रादुरभून्महाञ्छब्दः पूरितांबरगोचरः ॥२७॥
तं श्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम् ॥
पर्यपृच्छच्छुभतनूर्हरं विस्मयपूर्वकम् ॥२८॥
तामाह देवीं गिरिशो दृष्टपूर्वास्तु ते त्वया ॥
एते गणा मे क्रीडंति शैलेऽस्मिंस्त्वत्प्रियाः शुभे ॥२९॥
तपसा ब्रह्मचर्येण क्लेशेन क्षेत्रसाधनैः ॥
यैरहं तोषितः पृथ्व्यां त एते मनुजोत्तमाः ॥३०॥
मत्समीपमनुप्राप्ता मम लोकं वरानने ॥
चराचरस्य जगतः सृष्टिसंहारणक्षमाः ॥३१॥
विनैतान्नैव मे प्रीतिर्नैभिर्विरहितो रमे ॥
एते अहमहं चैते तानेतान्पस्य पार्वति ॥३२॥
इत्युक्ता विस्मिता देवी ददृशे तान्गवाक्षके ॥
स्थिता पद्मपलाशाक्षी महादेवेन भाषिता ॥३३॥
केचित्कृशा ह्रस्वदीर्घाः केचित्स्थूलमहोदराः ॥
व्याघ्रेभमेषाजमुखा नानाप्राणिमहामुखाः ॥३४॥
व्याघ्रचर्मपरीधाना नग्ना ज्वालामुखाः परे ॥
गोकर्णा गजकर्णाश्च बहुपादमुखेक्षणाः ॥३५॥
विचित्रवाहनाश्चैव नानायुधधरास्तथा ॥
गीतवादित्रतत्त्वज्ञाः सत्त्वगीतरसप्रियाः ॥३६॥
तान्दृष्ट्वा पार्वती प्राह कतिसंख्याभिधास्त्वमी ॥३७॥
॥श्रीशंकर उवाच ॥
असंख्ये यास्त्वमी देवी असंख्येयाभिधास्तथा ॥
जगदापूरितं सर्वमेतैर्भीमैर्महाबलैः ॥३८॥
सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु ॥
दानवानां शरीरेषु बालेषून्मत्तकेषु च ॥३९॥
एते विशति मुदिता नानाहारविहारिणः ॥
ऊष्मपाः फेनपाश्चैव धूम्रपा मधुपायिनः ॥
मदाहाराः सर्वभक्ष्यास्तथान्ये चाप्यभोजनाः ॥४०॥
गीतनृत्योपहाराश्च नानावाद्यरवप्रियाः ॥
अनंतत्वादमीषां च वक्तुं शक्या न वै गुणाः ॥४१॥
॥श्रीदेव्युवाच ॥
मनःशिलेन कल्केन य एष च्छुरिताननः ॥
तेजसा भास्कराकारो रूपेण सदृशस्तव ॥४२॥
आकर्ण्याकर्ण्य ते देव गणैर्गीतान्महागुणान् ॥
मुहुर्नृत्यति हास्यं च विदधाति मुहुर्मुहुः ॥४३॥
सदाशिवशिवेत्येवं विह्वलो वक्ति यो मुहुः ॥
धन्योऽमीदृशी यस्य भक्तिस्त्वयि महेश्वरे ॥४४॥
एनं विज्ञातुमिच्छामि किंनामासौ गणस्तव ॥
॥श्रीशंकर उवाच ॥
स एष वीरक देवी सदा मेद्रिसुते प्रियः ॥४५॥
नानाश्चर्यगुणाधारः प्रतीहारो मतोंऽबिके ॥
॥देव्युवाच ॥
ईदृशस्य सुतस्यापि ममोऽकंठा पुरांतक ॥४६॥
कदाहमीदृशं पुत्रं लप्स्याम्यानंददायकम् ॥
॥शर्व उवाच ॥
एष एव सुतस्तेस्तु यावदीदृक्परो भवेत् ॥४७॥
इत्युक्ता विजयां प्राह शीघ्रमानय वीरकम् ॥
विजया च ततो गत्वा वीरकं वाक्यमब्रवीत् ॥४८॥
एहि वीरक ते देवी गिरिजा तोषिता शुभा ॥
त्वममाह्वयति सा देवी भवस्यानुमते स्वयम् ॥४९॥
इत्युक्तः संभ्रमयुतो मुखं संमार्ज्य पाणिना ॥
देव्याः समीपमागच्छज्जययाऽनुगतः शनैः ॥५०॥
तं दृष्ट्वा गिरिजा प्राह गिरामधुरवर्णया ॥
एह्येहि पुत्र दत्तस्त्वं भवेन मम पुत्रकः ॥५१॥
इत्युक्तो दंडवद्देवीं प्रणम्यावस्थितः पुरः ॥
माता ततस्तमालिंग्य कृत्वोत्संगे च वीरकम् ॥५२॥
चुचुंब च कपोले तं गात्राणि च प्रमार्जयत् ॥
भूषयामास दिव्यैस्तं स्वयं नानाविभूषणैः ॥५३॥
एवं संकल्प्य तं पुत्रं लालयित्वा उमाचिरम् ॥
उवाच पुत्र क्रीडेति गच्छ सार्धं गणैरिति ॥५४॥
ततश्चिक्रीड मध्ये स गणानां पार्वतीसुतः ॥
मुहुर्मुहुः स्वमनसि स्तुवन्भक्तिं स शांकरीम् ॥५५॥
प्रणम्य सर्वभूतानि प्रार्थयाम्यस्मि दुष्करम् ॥
भक्त्या भजध्वमीशानं यस्या भक्तेरिदं फलम् ॥५६॥
क्रीडितुं वीरके याते ततो देवी च पार्वती ॥
नानाकथाभिस्चिक्रीड पुनरेव जटाभृता ॥५७॥
ततो गिरिसुताकण्ठे क्षिप्तबाहुर्महेश्वरः ॥
तपसस्तु विशेषार्थं नर्म देवीं किलाब्रवीत् ॥५८॥
स हि गौरतनुः शर्वो विशेषाच्छशिशोभितः ॥
रंजिता च विभावर्या देवी नीलोत्पलच्छविः ॥५९॥
॥शर्व उवाच ॥
शरीरे मम तन्वंगी सिते भास्यसितद्युतिः ॥
भुजंगीवासिता शुभ्रे संश्लिष्टा चन्दने तरौ ॥६०॥
चंद्रज्योत्स्नाभिसंपृक्ता तामसी रजनी यथा ॥
रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे ॥६१॥
इत्युक्ता गिरिजा तेन कण्ठं शर्वाद्विमुच्य सा ॥
उवाच कोपरक्ताक्षी भृकुटीविकृतानना ॥६२॥
स्वकृतेन जनः सर्वो जनेन परिभूयते ॥
अवश्यमर्थी प्राप्नोति खण्डनां शशिखंडभृत् ॥६३॥
तपोभिर्दीप्तचरितैर्यत्त्वां प्रार्थितवत्यहम् ॥
तस्य मे नियमस्यैवमवमानः पदेपदे ॥६४॥
नैवाहं कुटिला शर्व विषमा न च धूर्जटे ॥
स्वदोषैस्त्वं गतः क्षांतिं तथा दोषाकरश्रियः ॥६५॥
नाहं मुष्णामि नयने नेत्रहंता भवान्भव ॥
भगस्तत्ते विजानाति तथैवेदं जगत्त्रयमा ॥६६॥
मूर्ध्नि शूलं जनयसे स्वैर्दोषैर्मामदिक्षिपन् ॥
यत्त्वं मामाह कृष्णेति महाकालोऽसि विश्रुतः ॥६७॥
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम् ॥
जीवंत्या नास्ति मे कृत्यं धूर्तेन परिभूतया ॥६८॥
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः ॥
उवाचाथ च संभ्रांतो दुर्ज्ञेयचरितो हरः ॥६९॥
न तत्त्वज्ञासि गिरिजे नाहं निंदापरस्तव ॥
चाटूक्तिबुद्ध्या कृतवांस्त वाहं नर्मकीर्तनम् ॥७०॥
विकल्पः स्वच्छचित्तेति गिरिजैषा मम प्रिया ॥
प्रायेण भूतिलिप्तानामन्यथा चिंतिता हृदि ॥७१॥
अस्मादृशानां कृष्णांगि प्रवर्तंतेऽन्यथा गिरः ॥
यद्येवं कुपिता भीरु न ते वक्ष्याम्यहं पुनः ॥७२॥
नर्मवादी भविष्यामि जहि कोपं सुचिस्मिते ॥
शिरसा प्रणतस्तेऽहं रचितस्ते मयाञ्जलिः ॥७३॥
दीनेनाप्यपमानेन निंदिता नमि विक्रियाम् ॥
वरमस्मि विनम्रोऽपि न त्वं देवि गुणान्विता ॥७४॥
इत्यनेकैश्चाटुवाक्यैः सूक्तैर्देवेन बोधिता ॥
कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता ॥७५॥
अवष्टब्धावथ क्षिप्त्वा पादौ शंकरपाणिना ॥
विपर्यस्तालका वेगाद्गन्तुमैच्छत शैलजा ॥७६॥
तस्यां व्रजन्त्यां कोपेन पुनराह पुरांतकः ॥
सत्यं सर्वैरवयवैः सुतेति सदृशी पितुः ॥७७॥
हिमाचलस्य श्रृंगैस्तैर्मेघमालाकुलैर्मनः ॥
तथा दुरवागाह्योऽसौ हृदयेभ्यस्तवाशयः ॥७८॥
काठिन्यं कष्टमस्मिंस्ते वनेभ्यो बहुधा गतम् ॥
कुटिलत्वं नदीभ्यस्ते दुःसेव्यत्वं हिमादपि ॥७९॥
संक्रांतं सर्वमेवैतत्तव देवी हिमाचलात् ॥
इत्युक्ता सा पुनः प्राह गिरिशं सैलजा तदा ॥८०॥
कोपकंपितधूम्रास्या प्रस्फुरद्दशनच्छदा ॥
मा शर्वात्मोपमानेन निंद त्वं गुणिनो जनान् ॥८१॥
तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेवहि ॥
व्यालेभ्योऽनेकजिह्वत्वं भस्मनः स्नेहवन्ध्यता ॥८२॥
हृत्कालुष्यं शशांकात्ते दुर्बोधत्वं वृषादपि ॥
अथवा बहुनोक्तेन अलं वाचा श्रमेण मे ॥८३॥
श्मशानवास आसीस्त्वं नग्नत्वान्न तव त्रपा ॥
निर्घृणत्वं कपालित्वादेवं कः शक्नुयात्तवं ॥८४॥
इति श्रीस्कांदे महापुराण एकाशी तिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वतीप्रकोपवर्णनंनाम सप्तविंशोऽध्यायः ॥२७॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP