संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः १९

कौमारिकाखण्डः - अध्यायः १९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान् ॥
ततो निमिं च दैत्येन्द्रं मत्वा देवं महाजवः ॥१॥

केशेषु गृह्य तं वीरं चकर्ष च ननाद च ॥
ततो निमिरुवाचेदं कालनेमिं महाबलम् ॥२॥

अहं निमिः कालनेमे सुतं मत्वा वधस्व मा ॥
भवता मोहितेनाजौ देवान्मत्वासुराः स्वकाः ॥३॥
सुरैः सुदुर्जयाः कोट्यो निहतादश विद्धि तत् ॥
सर्वास्त्रवारणं मुंच ब्रह्ममस्त्रं त्वरान्वितः ॥४॥

स तेन बोधितो दैत्यो मुक्त्वा तं संभ्रमाकुलः ॥
बाणं ब्रह्मास्त्रविहितं मुमोच त्वरयान्वितः ॥५॥

ब्रह्मास्त्रं तत्प्रजज्वाल ततः खे सुमहाद्भुतम् ॥
देवानां चाभवत्सैन्यं सर्वमेव भयाकुलम् ॥६॥

शंबरास्त्रं ततः शांतं ब्राह्मप्रतिहतं तदा ॥
तस्मिन्प्रतिहते ह्यस्त्रे भास्करः प्रभुः ॥७॥

महेंद्रजालमास्ताय चक्रे भीषणां तनुम् ॥
विस्फूर्जत्करसंघातसमाक्रांतजगत्त्रयः ॥८॥

तताप दानवानीकं गलन्मज्जाङ्घ्रिशोणितम् ॥
चक्षूंषि दानवेन्द्राणां चकारांधानि स प्रभुः ॥९॥

गजानामगलन्मेदः पेतुश्चापि रथा भुवि ॥
तुरंगमाः श्वसंतश्च घर्मार्ता रथिनोपि च ॥१०॥

इतश्चेतश्च सलिलं प्रार्थयंतस्तृषातुराः ॥
गिरिद्रोणीश्च पादांश्च गिरिणां गहनानि च ॥११॥

तेषां प्रार्थयतां शीघ्रमन्योन्यं च विसर्पिणाम् ॥
दावाग्निरज्वलत्तीव्रो घोरो नर्दग्धपादपः ॥१२॥

तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लो लमालितम् ॥
पुरःस्थितमपि प्राप्तुं न शेकुरुपसादितुम् ॥१३॥

अप्राप्य सलिलं भूमावभ्याशे द्रुतमेव ते ॥
तत्रतत्र व्यदृश्यन्त मृता दैत्येश्वराभुवि ॥१४॥

रथा गजाश्च पतितास्तुरंगाश्च श्रमान्विताः ॥
स्थिता वमंतो धावंतो गलद्द्रुतवसास्रजः ॥१५॥

दानवानां कोटिकोटि व्यदृश्यतमृतं तदा ॥
एवं क्षयो जानवानां तस्मिन्महति वर्तिते ॥१६॥

प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः ॥
बभूव कालमेधाभः स्फुरद्रोमशतह्रदः ॥१७॥

गंभीरास्फोटनिर्ह्रादजगद्धृदयकंपनः ॥
प्रच्छाद्य गगनं सूर्यप्रभां सर्वां व्यनाशयत् ॥१८॥

ववर्ष शीतं च जलं दानवेन्द्रबलं प्रति ॥
दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात् ॥१९॥

बीजांकुरा इव म्लानाः प्राप्य वृष्टिं धरातले ॥
ततः स मेघरूपेण कालनेमिर्महासुराः ॥२०॥

शस्त्रवृष्टिं ववर्षोग्रां देवनीकेषु दुर्जयः ॥
तया वृष्ट्या पीड्यमाना दैत्यैरन्यैश्च देवताः ॥२१॥

गतिं कांचिन्न पश्यन्ति गावः शीतार्दिता इव ॥
परस्परं व्यलीयंत गजेषु तुरगेषु च ॥
रथेषु च भयत्रस्तास्तत्रतत्र निलिल्यिरे ॥२२॥

एवं ते लीयमानाश्च निहताः कालने मिना ॥
दृश्यंते पतिता देवाः शस्त्रभिन्नंगसंधयः ॥२३॥

विभिन्ना भिन्नमूर्धानस्तथा भिन्नोरुजानवः ॥
विपर्यस्तं रथांगैश्च पतितं ध्वजशक्तिभिः ॥२४॥

तुरंगाणां सहस्राणि गजानामयुतानि च ॥
रक्तेन तेषां घोरेण दुस्तरा चाभवन्मही ॥२५॥

एवमाजौ महादैत्यः कालनेमिर्महासुरः ॥
जघ्ने मुहुर्तमात्रेण गंधर्वाणां दशायुतम् ॥२६॥

यक्षाणां पंचलक्षाणि किंनराणां तथैव च ॥
जघ्ने पिशाचमुख्यानां सप्तलक्षाणि निर्भयः ॥२७॥

इतरेषां न संख्यास्ति सुरजातिनिकायिनाम् ॥
जघ्ने स कोटिशः क्रद्धः कालनेमिर्मदोत्कटः ॥२८॥

एवं प्रतिभये भीमे तदामर महाक्षये ॥
संक्रुद्धावश्विनौ वीरौ चित्रास्त्रकवचोज्जवलौ ॥२९॥

जघ्नतुस्तौ रणे दैत्यमेकैकं षष्टिभिः शरैः ॥
निर्भिद्य ते महादैत्यं सपुंखा विविशुर्महीम् ॥३०॥

ताभ्यां बाणप्रहारैस्तु किंचित्सोऽवाप्तचेतनः ॥
जग्राह चक्रं लक्षारं तैलधौतं रणेऽधिकम् ॥३१॥

तेन चक्रेण सोश्विभ्यां चिच्छेद रथकूबरम् ॥
जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान् ॥३२॥

ववर्ष भिषजोर्मूर्ध्नि संछाद्याकाशगोचरम् ॥
तावप्यस्त्रैः स्मृतैः सर्वाश्छेदतुर्दैत्यसायकान् ॥३३॥

तच्च करम तयोर्दृष्ट्वा विस्मितः कोपमाविशत् ॥
जग्राह मुद्गरं भीम कालदंडविभीषणम् ॥३४॥

स तदमुद्भ्राम्य वेगेन चिक्षेपास्य रथं प्रति ॥
तं तु मुद्गरमायांतमालोक्यांबरगोचरे ॥३५॥

मुक्त्वा रथावुभौ वेगादाप्लुतौ तरसाश्विनौ ॥
तौ रथौ स तु निष्पिष्य मुद्गरोऽचलसंनिभः ॥३६॥

दारयामास धरणीं हेमजालपरिष्कृतः ॥
तस्य कर्माथ तद्दृष्ट्वा भिषजौ चित्रयोधिनौ ॥३७॥

वज्रास्त्रं च प्रकुर्वाणौ दानवेंद्रमयुध्यताम् ॥
घोरवज्रप्रहारैस्तु दानवः स परिक्षतः ॥३८॥

रथो ध्वजो धनुश्चैव छत्रं च कवचं तथा ॥
क्षणेन शतधा भूतं सर्वसैन्यस्य पश्यतः ॥३९॥

तद्दृष्ट्वा दुकरं कर्म सोऽश्विभ्यां भीमविक्रमः ॥
नारायणास्त्रं बलवान्मुमोच रणमूर्धनि ॥४०॥

ततः शशाम वज्रास्त्रं कालनेमिस्ततो रुषा ॥
जीवग्राहं ग्राहयितुमश्विनौ तौ प्रचक्रमे ॥४१॥

तावभिप्रायमालक्ष्य संत्यज्य समरांगणम् ॥
पदाती वेपमानांगौ प्रद्रुतौ वासवोयतः ॥४२॥

तयोरनुगतो दैत्यः कालनेमिर्नदन्मुहुः ॥
प्राप्येंद्रस्य बलं क्रूरो दैत्यानीकपदानुगः ॥४३॥

स काल इव कल्पांते यदा वासवमाद्रुतः ॥
तं दृष्ट्वा सर्वभूतानि विविशुर्विह्वलानि तु ॥४४॥

हाहारावं प्रकुर्वाणास्तदा देवाश्च मेनिरे ॥
पराजयं महेंद्रस्य सर्वलोकक्षयावहम् ॥४५॥

चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् ॥
जगर्जुर्जलदा दिक्षु संभूतश्च महारवः ॥४६॥

तां भूताविकृतिं दृष्ट्वा देवाः सेंद्रा भयावहाः ॥
मनसा शरणं जग्मुर्वासुदेवं जगत्पतिम् ॥४७॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥
जगद्धिताय कृष्णाय गोविंदाय नमोनमः ॥४८॥

स नो रक्षतु गोविंदो भयार्तास्ते जगुः सुराः ॥
सुराणां चिंतितं ज्ञात्वा भगवान्गरुडध्वजः ॥४९॥

विबुध्यैव च पर्यंकाद्योगनिद्रां विहाय सः ॥
लक्ष्मीकरयुगांभोजलालितांघ्रिसरोरुहः ॥५०॥

शारदंबरनीराब्जकांतिदेहच्छविः प्रभुः ॥
कौस्तुभोद्भासिहृदयः कांतकेयूरभास्करः ॥५१॥

विमृश्य सुरसंक्षोभं वैनतेयमाताह्वयत् ॥
आहूतेऽविस्थितेतस्मिन्गरुडे दुःखिते भृशम् ॥५२॥

दिव्यनानास्त्रतीक्ष्णार्चिरारुह्यागात्सुराहवम् ॥
तत्रापश्यत देवेंद्रं भयभीतमभिद्रुतम् ॥५३॥

दानवेंद्रैर्नवांभोदसच्छायैः सर्वथोत्कटैः ॥
यथा हि पुरुषं घोरैरभाग्यैरर्थकांक्षिभिः ॥५४॥

तत्त्राणायाव्रजद्विष्णुः स्तूयमानो मुहुः सुरैः ॥
अभाग्येभ्यः परित्रातुं सुकृतं निर्मलं यथा ॥५५॥

अथापश्यत दैत्येंद्रो वियति द्युतिमंडलम् ॥
स्फुरंतमुदयाच्छीघ्रं कांतं सूर्यशतं यथा ॥५६॥

प्रभवं ज्ञातुमिच्छंतो दानवास्तस्य तेजसः ॥
गरुडं तमथा पश्यन्कल्पांतानलभैरवम् ॥५७॥

तत्र स्थितं चतुर्बाहुं हरिं चानुपमद्युतिम् ॥
तमालोक्यासुरेंद्रास्तु हर्षसंपूर्णमानसाः ॥५८॥

अयं स देवः सर्वेषां शरणं केशवोऽरिहा ॥
अस्मिञ्जिते जिताः सर्वा देवता नात्र संशयः ॥५९॥

एनमाश्रित्य लोकेशा यज्ञभागभुजोऽमराः ॥
इत्युक्त्वा ते समागम्य सर्व एव ततस्ततः ॥६०॥

तं जघ्नुर्विविधैः शस्त्रैः परिवार्य समंततः ॥
कालनेमिप्रभृतयो दश दैत्यमहारथाः ॥६१॥

षष्ट्या विव्याधबाणानां कालनेमिर्जनार्दनम् ॥
निमिः शतेन बाणानां मथनोऽशीतिभिः शरैः ॥६२॥

जंभकश्चैव सप्तत्या शुंभो दशभिरेव च ॥
शेषा दैत्ये श्वराः सव विष्णुमेकैकशः शरैः ॥६३॥

दशभिर्दशभिः शल्यैर्जघ्नुः सगरुडं रणे ॥
तेषाममृष्यत्तत्कर्म विष्णुर्दानवसूदनः ॥६४॥

एकैकं दानवं जघ्ने षड्भिः पड्भिरजिह्नगैः ॥
आकर्णकृष्टैर्भूयश्च कालनेमिस्त्रिभिः शरैः ॥६५॥

विष्णुं विव्याध हृदये रोषाद्रक्तविलोचनः ॥
तस्याशोभंत ते बाणा हृदये तप्तकांचनाः ॥६६॥

मयूखा इव संदीप्ताः कौस्तुभस्य स्फुरत्त्विषः ॥
तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम् ॥६७॥

स तमुद्ग्राह्य वेगेन दानवाय मुमोच वै ॥
दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः ॥६८॥

चिच्छेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम् ॥
ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम् ॥६९॥

तेन दैत्यस्य हृदयं ताडयामास वेगतः ॥
क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः ॥७०॥

शक्तिं जग्राह तीक्ष्णाग्रां हेमघंटाट्टहासिनीम् ॥
तया वामं भुजं विष्णोर्बिभेद दितिनंदनः ॥७१॥

भिन्नं शक्त्या भुजं तस्य स्रुतशोणितमाबभौ ॥
नीले बला हके विद्युद्विद्योतंती यथा मुहुः ॥७२॥

ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः ॥
सप्तदश च नाराचांस्तीक्ष्णाग्रान्मर्मभेदिनः ॥७३॥

दैत्यस्य हृदयं षड्भिर्विव्याध च शरैस्त्रिभिः ॥
चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्रिणा ॥७४॥

द्वाभ्यां धनुर्ज्याधनुषी भुजं चैकेन पत्रिणा ॥
स विद्धो हृदये गाढं दोषैर्मूढो यथा नरः ॥७५॥

स्रुतरक्तारुणः प्रांशुः पीडाचलितमानसः ॥
चकंपे मारुतेनेव चोदितः किंशुकद्रुमः ॥७६॥

ततः कंपितमालक्ष्य गदां जग्राह केशवः ॥
तां च वेगेन चिक्षेप कालनेमिवधं प्रति ॥७७॥

सा पपात शिरस्युग्रा सहसा कालनेमिनः ॥
संचूर्णितोत्तमां गस्तु निष्पिष्टमुकुटोसुरः ॥७८॥

स्रुतरक्तौघरंध्रश्च स्रुतधातुरिवाचलः ॥
पपात स्वे रथे भग्नो विसंज्ञः शिष्टजीवनः ॥७९॥

पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा ॥
स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः ॥८०॥

गच्छासुर विमुक्तोऽसि सांप्रतं जीव निर्वृतः ॥
ततः स्वल्पेन कालेन अहमेव तवांतकः ॥८१॥

एवं वचस्तस्य निशम्य विष्णोः सर्वेश्वरस्याथ रथं निमेषात् ॥
निनाय दूरं किल कालनेमिनो भीतस्तदा सारथिर्लोकनाथात् ॥८२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे देवासुरासंग्रामे कालनेमिकृतयुद्धसंमर्दे विष्णुना सह कालनेमियुद्धवर्णनंनामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP