संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५१ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।परिदीर्घासु तन्वीषु सुतीक्ष्णासु सितासु च ।क्षुरधारोपमानासु चित्तवृत्तिषु तिष्ठ मा ॥१॥कालेन महता क्षेत्रे जातेयं बुद्धिवल्लरी ।वृद्धिं विवेकसेकेन नय तां नयकोविद ॥२॥यावन्म्लायति नो कायलतिका कालभास्वता ।भूतलेऽपतितां तावदेनामुद्धृत्य धारय ॥३॥मद्वाक्यार्थैकतत्त्वज्ञ मद्वाक्यार्थैकभावनात् ।सुखमाप्नोषि सर्पारिर्यथाभ्ररवभावनात् ॥४॥उद्दालकवदालूनं विशीर्णं भूतपञ्चकम् ।कृत्वा कृत्वा धिया धीरधीरयान्तर्विचारय ॥५॥श्रीराम उवाच ।केन क्रमेण भगवन्मुनिनोद्दालकेन तत् ।भूतपञ्चकमालूनं कृत्वान्तः प्रविचारितम् ॥६॥श्रीवसिष्ठ उवाच ।श्रृणु राम यथापूर्वं भूतवृन्दविचारणात् ।उद्दालकेन संप्राप्ता परमा दृष्टिरक्षता ॥७॥जगज्जीर्णगृहस्यास्य कोणे कस्मिंश्चिदातते ।भूमेरनिलदिग्नाम्नि भूभृद्भाण्डसमाकुले ॥८॥गन्धमादनशैलेन्द्रनाम्नि काचित्किल स्थली ।विद्यते कीर्णकुसुमा द्रुमकर्पूरकेसरा ॥९॥विचित्रवर्णविहगा नानावल्लीविलासिनी ।वनेचरव्याप्ततटी पुष्पकेसरभासिनी ॥१०॥क्वचित्स्फीतमहारत्ना क्वचिल्लोलाम्बुजोत्पला ।क्वचिन्नीहारकबरी सरसीदर्पणा क्वचित् ॥११॥तत्र कस्मिंश्चिदुदिते सानौ सरलपादपे ।आगुल्फाकीर्णकुसुमे स्निग्धच्छायमहाद्रुमे ॥१२॥उद्दालको नाम मुनिर्मौनी मानी महामतिः ।अप्राप्तयौवनः पूर्वमुवासोद्दामतापसः ॥१३॥प्रथमं तु बभूवासावल्पप्रज्ञो विचारवान् ।अप्राप्तपदविश्रान्तिरप्रबुद्धः शुभाशयः ॥१४॥ततः क्रमेण तपसा शास्त्रार्थनियमैः क्रमैः ।विवेक आजगामैनं नवर्तुरिव भूतलम् ॥१५॥अथेमं चिन्तयामास संसारामयभीरुधीः ।एकान्त एव निवसन्कदाचित्कान्तमानसः ॥१६॥किं तत्प्राप्यं प्रधानं स्याद्यद्विश्रान्तौ न शोच्यते ।यत्प्राप्य जन्मना भूयः संबन्धो नोपजायते ॥१७॥कदाहं त्यक्तमनने पदे परमपावने ।चिरं विश्रान्तिमेष्यामि मेरुश्रृङ्ग इवाम्बुदः ॥१८॥कदा शममुपैष्यन्ति ममान्तर्भोगसंविदः ।आलोलकल्लोलरवा ऊर्मयोऽम्बुनिधाविव ॥१९॥इदं कृत्वेदमप्यन्यत्कर्तव्यमिति कल्पनाम् ।कदान्तर्विहसिष्यामि पदविश्रान्तया धिया ॥२०॥कदा विकल्पजालं मे न लगिष्यति चेतसि ।स्थितमप्युज्झितासङ्गं पयः पद्मदले यथा ॥२१॥कदा बहुलकल्लोलां नावा परमया धिया ।परितीर्णो भविष्यामि मत्तां तृष्णातरङ्गिणीम् ॥२२॥कदेमां जागतैर्भूतैः क्रियमाणामसन्मयीम् ।क्रियामपहसिष्यामि बाललीलामिवाकुलाम् ॥२३॥कदा विकल्पपर्यस्तं मनो दोलावदोलनम् ।शममेष्यति मे शान्तवातौजस इव भ्रमः ॥२४॥कदोदितवपुर्भासा विहसञ्जागतीर्गतीः ।अन्तः संतोषमेष्यामि विराडात्मेव पूर्णधीः ॥२५॥अन्तः समसमाकारः सौम्यः सर्वार्थनिस्पृहः ।कदोपशममेष्यामि मन्थमुक्तामृताब्धिवत् ॥२६॥कदेमामचलां दृश्यश्रियमाशाशतात्मिकाम् ।सर्वां सुषुप्तवत्पश्यन्भविष्याम्यन्तराततः ॥२७॥सबाह्याभ्यन्तरं सर्व शान्तकल्पनया धिया ।पश्यंश्चिन्मात्रमखिलं भावयिष्याम्यहं कदा ॥२८॥कदोपशान्तचित्तात्मा चित्तामुपगतः पराम् ।परमालोकमेष्यामि जात्यन्धविगमादिव ॥२९॥कदाभ्यासोपलभ्येन चित्प्रकाशेन चारुणा ।दूरादालोकयिष्यामि तन्वीं कालकलामिमाम् ॥३०॥ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः ।कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः ॥३३॥कदाशाकौशिकीकीर्णा जाड्यजीर्णहृदम्बुजा ।क्षयमेष्यति कृष्णेयं कदा मे दोषयामिनी ॥३२॥कदोपशान्तमननो धरणीधरकन्दरे ।समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ॥३३॥कदा मे मानमातङ्गः स्वाभिमानमहामदः ।सत्त्वावबोधहरिणा हतो नाशमुपैष्यति ॥३४॥निरंशध्यानविश्रान्तेर्मूकस्य मम मूर्धनि ।कदा तार्णं करिष्यन्ति कुलायं वनघूर्णिकाः ॥३५॥कदा निःशङ्कमुरसि ध्यानधीरधियः खगाः ।मम विश्रान्तिमेष्यन्ति शैलस्थाण्वचलस्थितेः ॥३६॥तृष्णाकरञ्जजटिलां जन्मजर्जरगुल्मिकाम् ।संसारारण्यसरसीं त्यक्त्वा यास्याम्यहं कदा ॥३७॥इति चिन्तापरवशो वन उद्दालको द्विजः ।पुनः पुनस्तूपविशन्ध्यानाभ्यासं चकार ह ॥३८॥विषयैर्नीयमाने तु चित्ते मर्कटचञ्चले ।न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम् ॥३९॥कदाचिद्बाह्यसंस्पर्शपरित्यागादनन्तरम् ।तस्यागच्छच्चित्तकपिः प्रोद्वेगं सत्त्वसंस्थितौ ॥४०॥कदाचिदान्तरान् स्पर्शान्परित्यज्य मनःकपिः ।लोलत्वात्तस्य संयातो विषयं विषदग्धवत् ॥४१॥कदाचिदुदितार्काभं तेजो दृष्ट्वान्तरे मनः ।विषयोन्मुखतां यातं तस्य तामरसेक्षण ॥४२॥आन्तरान्ध्यतमस्त्यागं कृत्वा विषयलम्पटम् ।तस्योड्डीय मनो याति कदाचित्त्रस्तपक्षिवत् ॥४३॥बाह्यानाभ्यन्तरान्स्पर्शांस्त्यक्त्वा निद्रां च तन्मनः ।तमस्तेजोन्तिके लेभे कदाचिच्छाश्वतीं स्थितिम् ॥४४॥इति पर्याकुलस्यान्तः स खलु ध्यानवृत्तिषु ।दरीष्वन्वहमुग्रासु वातमग्न इव द्रुमः ॥४५॥अतिष्ठद्ध्यानसंरूढमननः संकटे यथा ।दोलायितवपुस्तुच्छतृष्णातीरतरङ्गकैः ॥४६॥अथ पर्याकुलमना विजहार मुनिर्गिरौ ।प्रत्यहं दिवसाधीशो महामेराविवैककः ॥४७॥समस्तभूतदुष्प्रापामेकदा प्राप कन्दराम् ।संशान्तसर्वसंचारां मुनिर्मोक्षदशामिव ॥४८॥अपर्याकुलितां वातैरप्राप्तमृगपक्षिणीम् ।अदृष्टां देवगन्धर्वैः परमाकाशशोभनाम् ॥४९॥पुष्पप्रकरसंछन्नां मृदुशाद्वलकोमलाम् ।ज्योतीरसाश्मसंप्रोतैः कृतां मरकतैरिव ॥५०॥सुस्निग्धशीतलच्छायां प्रकटां रत्नदीपकैः ।सुगुप्तां वनदेवीनामन्तःपुरकुटीमिव ॥५१॥कुलम्बनाहिमालोकां नात्युष्णां नातिशीतलाम् ।शारदस्योदितार्कस्य हेमगौरीं प्रभामिव ॥५२॥बालालोकपरिम्लानां कोमलाशब्दमारुताम् ।मञ्जरीजटिलोपेतां बालां मालावतीमिव ॥५३॥उपशमपदवीमिवानुरूपांकमलजविश्रमणाय योग्यरूपाम् ।कुसुमनिकरकोमलाभिरामांसरसिजकोटरकोमलां समन्तात् ॥५४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकमनोरथो नामैकपञ्चाशः सर्गः ॥५१॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP