संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ गाधिर्गते विष्णौ पुनर्भूतादिकं क्रमात् ।स्वयं मोहविचारार्थं बभ्रामाभ्रमिवाम्बरे ॥१॥उपलभ्य तथैवात्मवृत्तान्तं जनतस्ततः ।हरिमाराधयामास पुनरद्रिगुहां गतः ॥२॥आजगामैनमल्पेन कालेनाथ जनार्दनः ।सकृदाराधनेनैव माधवो याति बन्धुताम् ॥३॥उवाच गाधिं भगवान्मयूरमिव वारिदः ।किं त्वं प्रार्थयसे भूयस्तपसेति प्रसादवान् ॥४॥गाधिरुवाच ।भ्रान्तोऽस्मि देव षण्मासान्भूतकीरजनास्पदम् ।तत्र व्यभिचरत्यस्मद्वृत्तान्तो न कथास्वपि ॥५॥मायया भूतभूर्दृष्टा त्वयेत्युक्तोऽस्मि किं प्रभो ।मोहनाशाय महतां वचो नो मोहवृद्धये ॥६॥श्रीभगवानुवाच ।काकतालीययोगेन चेतसि श्वपचस्थितिः ।सर्वेषां भूतकीराणां तवेव प्रतिबिम्बति ॥७॥तेनाङ्ग तव वृत्तान्तं यथावत्कथयन्ति ते ।प्रतिभासो हि नायाति पुनरप्रतिभासताम् ॥८॥केनचिच्छ्वपचेनान्ते ग्रामस्य रचितं गृहम् ।तत्त्वया दृष्टमाविष्टमिष्टकाखण्डतां गतम् ॥९॥कदाचित्प्रतिभैकैव बहूनामपि जायते ।काकोलतालस्थितिवद्विचित्रा हि मनोगतिः ॥१०॥तथाहि बहवः स्वप्नमेकं पश्यन्ति मानवाः ।स्वापभ्रमदमैरेयमदमन्थरचित्तवत् ॥११॥एकस्यामेव लीलायां रमन्ते बहुबालकाः ।एकस्यामेव नीलायां वनस्थल्यामिवैणकाः ॥१२॥वहवस्तुल्यकालं च प्रतिभासेन कर्मणाम् ।जना यतन्ते स्वफलपाकेऽतिबहुलाकृतौ ॥१३॥प्रतिबन्धाभ्यनुज्ञानां कालो दातेति या श्रुतिः ।विप्र संकल्पमात्रोऽसौ कालो ह्यात्मनि तिष्ठति ॥१४॥अमूर्तो भगवान्कालो ब्रह्मैव तमजं विदुः ।न जहाति न चादत्ते किंचित्कस्य कदेति च ॥१५॥लौकिको यस्त्वयं कालो वर्षकल्पयुगात्मकः ।संकल्प्यते पदार्थौघैः पदार्थौघश्च तेन तु ॥१६॥समानप्रतिभासोत्थसंभ्रमं भ्रान्तचेतसः ।तथा तं दृष्टवन्तस्ते भूतकीरजनोच्चयाः ॥१७॥स्वव्यापारपरो भूत्वा धियात्मानं विचारय ।साधो गतमनोमोहमिहैवास्व व्रजाम्यहम् ॥१८॥इत्युक्त्वा भगवान्विष्णुर्जगामान्तर्धिमीश्वरः ।अतिष्ठत्कन्दरे गाधिराधिपीवरया धिया ॥१९॥ततः कतिपयेष्वद्रौ मासेष्वतिगतेषु सः ।पुनराराधयामास पुण्डरीककरं द्विजः ॥२०॥ददर्श चैकदा नाथमागतं प्रणनाम तम् ।पूजयामास मनसा चोक्तेनोवाच चेश्वरम् ॥२१॥गाधिरुवाच ।भगवन्संस्मरंश्चैतामात्मनः श्वपचस्थितम् ।इमां संसारमायां च परिमुह्यामि चेतसा ॥२२॥तदुक्त्वास्व यथावस्तु महामोहनिवृत्तये ।एकस्मिन्नेव विमले मां नियोजय कर्मणि ॥२३॥श्रीभगवानुवाच ।ब्रह्मन् जगदिदं मायामहाशम्बरडम्बरम् ।सर्वा आश्चर्यकलनाः संभवन्तीह विस्मृतेः ॥२४॥भूतकीरपुरे मोहाद्दृष्टवांस्तत्तथा भवान् ।इत्येतत्संभवत्येव दृश्यते हि जनैर्भ्रमः ॥२५॥भूतास्त्वमिव कीराश्च दृष्टवन्तस्तथा भ्रमम् ।मुधैवेत्यपि सत्याभं समकालादिसंभवात् ॥२६॥इदं तु शृणु वक्ष्यामि यथाभूतमनिन्दितम् ।यथैति तनुतां चिन्ता मार्गशीर्षलतेव ते ॥२७॥योऽसौ कटंजको नाम श्वपचो भूतमण्डले ।तेनैव संनिवेशेन स तथैवाभवत्पुरा ॥२८॥तथैव विकलत्रत्वं प्राप्य देशान्तरं गतः ।बभूव कीरनृपतिः प्रविवेशानलं ततः ॥२९॥भवतः केवलं चित्ते जलान्तर्वर्तिनस्तदा ।प्रतिभाता तथाभूता कटंजाचारसंस्थितिः ॥३०॥द्रष्टानुभूतमप्यर्थं कदाचिद्विस्मरत्यलम् ।कदाचिदप्यदृष्टं तु चेतः पश्यति दृष्टवत् ॥३१॥यथा स्वप्नमनोराज्यधातुसंस्थितिविभ्रमाः ।जाग्रत्यपि तथैवाङ्ग दृश्यन्ते मनसा स्वयम् ॥३२॥भविष्यद्भूतकालस्थं यथा त्रैकाल्यदर्शिनः ।प्रतिभाभेति गाधे यत्कटंजाचरितं तथा ॥३३॥अयं सोऽहमिदं तन्म इति मज्जति नात्मवान् ।अयं सोऽहमिदं तन्म इति मज्जत्यनात्मवान् ॥३४॥सर्वमेवाहमेवेति तत्त्वज्ञो नावसीदति ।न गृह्णाति पदार्थेषु विभागानर्थभावनम् ॥३५॥तेनासौ भ्रमयोगेषु सुखदुःखविलासिषु ।न निमज्जति मग्नोऽपि तुम्बीपात्रमिवाम्भसि ॥३६॥त्वं तावद्वासनाजालग्रस्तचित्तो विचेतनः ।किंचिच्छेषमहाव्याधिरिव न स्वस्थमागतः ॥३७॥ज्ञानस्यापरिपूर्णत्वान्न शक्रोषि मनोभ्रमम् ।विनिवारयितुं मेघमसम्यग्यत्नवानिव ॥३८॥यदेव ते मनोमात्रे सहसा प्रतिभासते ।तरुरुच्चजनेनेव तेनैवाक्रम्यसे क्षणात् ॥३९॥चित्तं नाभिः किलास्येह मायाचक्रस्य सर्वतः ।स्थीयते चेत्तदाक्रम्य तन्न किंचित्प्रबाधते ॥४०॥त्वमुत्तिष्ठ गिरेः कुञ्जे दशवर्षाण्यखिन्नधीः ।तपः कुरु ततो ज्ञानमनन्तं समवाप्स्यसि ॥४१॥इत्युक्त्वा पुण्डरीकाक्षस्तत्रैवान्तरधीयत ।वाताभ्रवद्दीपकवद्यमुनोत्पीडवत्क्षणात् ॥४२॥गाधिर्विवेकवशजं वैराग्यपदमागतः ।शरत्समयपर्यन्ते वैरस्यमिव पादपः ॥४३॥विचित्रं चेष्टितं धातुरसमञ्जसमागतम् ।भ्रमद्भमभरोन्मुक्तमतिर्मन्दमगर्हयत् ॥४४॥जगाम करुणार्द्रात्मा नियमायोत्तमश्रिये ।विश्रान्त्यै ऋष्यमूकं तु पयोधर इवाचलम् ॥४५॥ निरस्ताशेषसंकल्पस्तपस्तत्र चकार ह ।दशवर्षाणि तेनासावात्मज्ञानमवाप ह ॥४६॥ अरमत तदनु स्वां प्राप्य सत्तां महात्मा ह्यपगतभयशोको भोगभूमावनीषु ।सततमुदितजीवन्मुक्तरूपः प्रशान्तः सकल इव शशाङ्को घूर्णितापूर्णचेताः ॥४७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते गाधेर्ज्ञानप्राप्तिर्नामैकोनपञ्चाशः सर्गः ॥४९॥गाध्युपाख्यानं संपूर्णम् । N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP