संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ७२ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ७२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।देहे जाते न जातोऽसि देहे नष्टे न नश्यसि ।त्वमात्मन्यकलङ्कात्मा देहस्तव न कश्चन ॥१॥यः कुण्डबदरन्यायो या घटाकाशसंस्थितिः ।तत्रैकस्मिन्क्षते क्षीणे द्वे इति व्यर्थकल्पना ॥२॥विनाशिनि विनष्टेऽस्मिन्देहे स्वां स्थितिमागते ।विनश्यामीति यः खेदी तं धिगस्त्वन्धचेतसम् ॥३॥यादृशो रश्मिरथयोः स्नेहोद्वेगविवर्जितः ।संबन्धस्तादृशो देहचित्तेन्द्रियमुखैश्चितेः ॥४॥गतेतरेतरापेक्षः सरःपङ्कामलाम्भसाम् ।यथा राघव संबन्धस्तथा देहेन्द्रियात्मनाम् ॥५॥यादृशोऽध्वा गताध्वानां निरास्थापरिदेवनः ।संयोगो विप्रयोगश्च तादृशो देहदेहिनोः ॥६॥यथा कल्पितवेतालविकारभयभीतयः ।मिथ्यैव कल्पिता एते तथा स्नेहसुखादयः ॥७॥भूतपञ्चकसंपिण्डाद्रचिता जनताः पृथक् ।एकस्मादेव विटपाद्विचित्रा इव पुत्रिकाः ॥८॥काष्ठेतरत्काष्ठभारे किंचिदन्यन्न दृश्यते ।भूतपिण्डेतरद्देहे किंचिदन्यन्न दृश्यते ॥९॥भूतपञ्चकविक्षोभनाशोत्पादेषु हे जनाः ।हर्षामर्षविषादानां किं भवन्तो वशं गताः ॥१०॥को नामातिशयः पुंसां स्त्रीनाम्न्यपरनाम्नि च ।पेलवे भूतसंघाते प्रोद्भूतजनपातवत् ॥११॥संनिवेशांशवैचित्र्यमज्ञानामेव तुष्टये ।तज्ज्ञानां तु यथाभूतभूतपञ्चकदर्शनम् ॥१२॥मिथः शिलापुत्रकयोर्यथैकोपलपुत्रयोः ।श्लिष्टयोरपि नो रागस्तथा चित्तशरीरयोः ॥१३॥मृत्पुंसां यादृशोऽन्योन्यमाशयः संगमे भवेत् ।बुद्धीन्द्रियात्ममनसां संगमे तादृशोऽस्तु ते ॥१४॥नान्योन्यस्नेहसंबन्धभाजनं शैलपुत्रकाः ।देहेन्द्रियात्मप्राणाश्च कस्यात्र परिदेवना ॥१५॥इतश्चेतश्च जातानि यथा संश्लेषयन्त्यलम् ।तरङ्गास्तृणजालानि तथा भूतानि देहदृक् ॥१६॥संयुज्यन्ते वियुज्यन्ते तृणान्यब्धिजले यथा ।मुक्तान्तःकलनं देहे भूतान्यात्मनि वै तथा ॥१७॥आत्मा चित्ततया देहभूतान्याश्लेषयन्स्थितः ।तृणान्यावृत्तवृत्तान्तकलनोत्सिक्तमब्धिवत् ॥१८॥प्रबोधाच्चेत्यतां त्यक्त्वा व्रजत्यात्मात्मतां स्वयम् ।स्वस्पन्दवशतो वारि त्यक्त्वाच्छत्वमिवाच्छतां ॥१९॥ततो विश्लिष्टभूतौघो देहं संप्रति पश्यति ।वायुस्कन्धगतो जन्तुर्वसुधामण्डलं यथा ॥२०॥पृथग्भूतगणं दृष्ट्वा देहातीतो भवत्यजः ।परं प्रकाशमायाति सूर्यकान्तिरिवाहनि ॥२१॥जानात्यथात्मनात्मानं मानमेयामयोज्झितम् ।मुक्तक्षीबतयेवान्तः स्वां संविदमनुस्मरन् ॥२२॥आत्मैव स्पन्दते विश्वं वस्तुजातैरिवोदितम् ।तरङ्गकणकल्लोलैरनन्ताम्ब्वम्बुधाविव ॥२३॥एवंप्रायमहाबोधा वीतरागा गतैनसः ।जीवन्मुक्ताश्चरन्तीह महासत्त्वपदं गताः ॥२४॥यथा चरन्ति विविधैर्मणिरत्नैर्महोर्मयः ।निरस्तवासनाश्चित्तव्यवहारैस्तथोत्तमाः ॥२५॥न कूलकाष्ठैर्जलधिर्न रजोभिर्नभस्तलम् ।न म्लायति निजैर्लोकव्यवहारैरिहात्मवान् ॥२६॥गतैरभ्यागतैः स्वच्छैश्चपलैर्मलिनैर्जडैः ।न रागो नाम्बुधेर्द्वेषो भोगैश्चाधिगतात्मनः ॥२७॥यन्मनोमननं किंचित्समग्रं जगति स्थितम् ।तच्चेत्योन्मुखचित्तत्त्वविलासोल्लसनं विदुः ॥२८॥यदहं यच्च भूतादि कालत्रितयभावि यत् ।दृश्यदर्शनसंबन्धविस्तारैस्तद्विजृम्भते ॥२९॥यदृश्यं तदसत्सद्वा दृष्टिमेकामुपाश्रितम् ।अन्यत्त्वलेपकं तस्माद्धर्षशोकदृशौ कुतः ॥३०॥असत्यमेवासत्यं हि सत्यं सत्यं सदेव हि ।सत्यासत्यमसद्विद्धि तदर्थं किं नु मुह्यसि ॥३१॥असम्यग्दर्शनं त्यक्त्वा सम्यक्पश्य सुलोचन ।न क्वचिन्मुह्यति प्रौढः सम्यग्दर्शनवानिह ॥३२॥दृश्यदर्शनसंबन्धविस्तारैस्तद्विजृम्भते ।दृश्यदर्शनसंबन्धे यत्सुखं पारमात्मिकम् ॥३३॥अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ।दृश्यदर्शनसंबन्धे सुखसंविदनुत्तमा ॥३४॥ददात्यज्ञाय संसारं ज्ञाय मोक्षं सदोदयम् ।दृश्यदर्शनसंबन्धसुखमात्मवपुर्विदुः ॥३५॥तदृश्यवलितं बन्धस्तन्मुक्तं मुक्तिरुच्यते ।दृश्यदर्शनसंबन्धसुखसंविदनामया ॥३६॥क्षयातिशयमुक्ता चेत्तन्मुक्तिः सोच्यते बुधैः ।दृश्यदर्शनसंबन्धे यानुभूतिः स्वगोचरा ॥३७॥दृश्यदर्शननिर्मुक्ता तामालम्ब्य भवाभवः ।सौषुप्ती दृष्टिरेषा हि यात्येवं संप्रकाशते ॥३८॥एवं च याति तुर्यत्वमेवं मुक्तिरिति स्मृता ।दृश्यदर्शनमुक्तायां युक्तायां परया धिया ॥३९॥दृश्यदर्शनसंबन्धसंविदस्यां तु राघव ।नात्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः ॥४०॥न चेतनो न च जडो न चैवासन्न सन्मयः ।नाहं नान्यो न चैवैको नानेको नाप्यनेकवान् ॥४१॥नाभ्याशस्थो न दूरस्थो नैवास्ति न च नास्ति च ।न प्राप्यो नाति चाप्राप्यो न वा सर्वो न सर्वगः ॥४२॥न पदार्थो नापदार्थो न पञ्चात्मा न पञ्च च ।यदिदं दृश्यतां प्राप्तं मनःषष्ठेन्द्रियास्पदम् ॥४३॥तदतीतं पदं यत्स्यात्तन्न किंचिदिवेह तत् ।यथाभूतमिदं सम्यग्ज्ञस्य संपश्यतो जगत् ॥४४॥सर्वमात्ममयं विश्वं नास्त्यनात्ममयं क्वचित् ।काठिन्यद्रवणस्पन्दखावकाशावलोकनैः ॥४५॥आत्मैव सर्वं सर्वेषु भूवार्यनिलखाग्निषु ।सत्तैवास्ति न वस्तूनां या या राम चिता विना ।व्यतिरिक्तं ततोऽस्मीति विद्धिप्रोन्मत्तजल्पितम् ॥४६॥एको जगन्ति सकलानि समस्तकाल-कल्पक्रमान्तरगतानि गतागतानि ।आत्मैव नेतरकलाकलनास्ति काचि-दित्थंमतिर्भव तयातिगतो महात्मन् ॥४७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषूपशमप्रकरणे मोक्षस्वरूपोपदेशो नाम द्विसप्ततितमः सर्गः ॥७२॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP