संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ५७

उपशमप्रकरणम् - सर्गः ५७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
यदात्ममरिचस्यान्तश्चित्त्वात्तीक्ष्णत्ववेदनम् ।
तदहंतादि भेदादि देशकालादि चेत्यतः ॥१॥
यदात्मलवणस्यान्तश्चित्त्वाल्लवणवेदनम् ।
तदहंतादि भेदादि देशकालादि मत्स्थितम् ॥२॥
स्वतो यदन्तरात्मेक्षोश्चित्त्वान्माधुर्यवेदनम् ।
तदहंतादि भेदादि जगत्तत्त्वादि जृम्भितम् ॥३॥
स्वतो यदात्मदृषदश्चित्त्वात्काठिन्यवेदनम् ।
तदहंतादि भेदादि देशकालादितां गतम् ॥४॥
स्वतो यदात्मशैलस्य ज्ञतया जाड्यवेदनम् ।
तदहंतादि भेदादि भुवनादीति संस्थितम् ॥५॥
स्वतो यदात्मतो यस्य चिद्द्रवत्वादिवर्तनम् ।
तदावर्ताद्यहंतादिभेदाद्याकारिता इव ॥६॥
स्वतो यदात्मवृक्षस्य शाखादिस्तस्य वेदनम् ।
तदहंतादि भेदादि भुवनादीव सत्स्फुरत् ॥७॥
यदात्मगगनस्यान्तश्चित्त्वाच्छून्यत्ववेदनम् ।
तदहंतादि भेदादि भुवनादीति भावनम् ॥८॥
यदात्मगगनस्यान्तश्चित्त्वात्सौषिर्यवेदनम् ।
तदहंतादि भेदादि शरीरादि च दीपितम् ॥९॥
स्वतो यदात्मकुड्यस्य नैरन्तर्यं निरन्तरम् ।
तदहंतादिभेदेन चित्ताद्वहिरिव स्थितम् ॥१०॥
स्वतो यदात्मसत्तायाश्चित्त्वात्सत्त्वैकवेदनम् ।
तदहंतादि भेदादि चेतनानीतिवत्स्थितम् ॥११॥
अन्तरात्मप्रकाशस्य स्वतो यदवभासनम् ।
तदहंतादि चित्त्वादि जीव इत्येव वेद सः ॥१२॥
अन्तरस्ति यदात्मेन्दोश्चिद्रूपं चिद्रसायनम् ।
स्वत आस्वादितं तेन तदहंतादिनोदितम् ॥१३॥
परमात्मगुडस्यान्तर्यच्चित्स्वादूदयात्मकम् ।
तदेवास्वाद्यते तेन स्वतोऽहंतादि नान्तरे ॥१४॥
परमात्ममणेश्चित्त्वाद्यदन्तः कचनं स्वयम् ।
चेतनात्मपदे चान्तरहमित्यादि वेत्त्यसौ ॥१५॥
न च किंचन वेत्त्यन्तर्वेद्यस्यासंभवादिह ।
न चास्वादयति स्वादु स्वाद्यस्यासंभवादयम् ॥१६॥
न च किंचिच्चिनोत्यन्तश्चेत्यस्यासंभवे सति ।
विन्दते न च वा किंचिद्वेद्यस्यासंभवादसौ ॥१७॥
असदाभास एवात्मा अनन्तो भरिताकृतिः ।
स्थितः सदैवैकघनो महाशैल इवात्मनि ॥१८॥
अनया तु वचोभङ्ग्या मया ते रघुनन्दन ।
नाहंतादिजगत्तादिभेदोस्तीति निदर्शितम् ॥१९॥
न चित्तमस्ति नो चेता न जगत्तादिविभ्रमः ।
वृष्टमूकाम्बुदसितं शान्तं शाम्यति केवलम् ॥२०॥
यथावर्तादितामेति द्रवत्वाद्वारि वारिणि ।
तदाहंतादितामेति ज्ञप्ता ज्ञप्तौ ज्ञ आत्मनि ॥२१॥
यथा द्रवत्वं पयसि यथा स्पन्दः सदागतौ ।
अहंतादेशकालादि तथा ज्ञे ज्ञप्तिमात्रके ॥२२॥
ज्ञो ज्ञतायां शिव ज्ञानं जानाति ज्ञानबृंहया ।
ज्ञायतेऽहंतदि ज्ञेन जीवादीत्यभिजीवनैः ॥२३॥
यथोदेति ययाऽज्ञस्य तृप्तिर्ज्ञानेन यादृशी ।
अनन्ये वान्यता बुद्धा स तथा जृम्भते तया ॥२४॥
जीवनं ज्ञातता ज्ञाता जीवनं जीवजीवनम् ।
अत्यन्तमस्ति नो भेदश्चिद्रूपत्वे ज्ञजीवयोः ॥२५॥
यथा ज्ञजीवयोर्नास्ति भेदो नाम तथैतयोः ।
भेदोऽस्ति न ज्ञशिवयोर्विद्धि शान्तमखण्डितम् ॥२६॥
सर्वं प्रशान्तमजमेकमनादिमध्य-
माभास्वरं स्वदनमात्रमचेत्यचिह्नम् ।
सर्वं प्रशान्तमिति शब्दमयी तु दृष्टि-
र्बोधार्थमेव हि मुधैव तदोमितीदम् ॥२७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे भेदनिरासो नाम सप्तपञ्चाशः सर्गः ॥५७॥

N/A

References : N/A
Last Updated : September 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP