संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४६ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।विलासिनीभिर्वलितो मन्त्रिमण्डलपूजितः ।वन्दितः सर्वसामन्तैश्छत्रचामरलालितः ॥१॥सिद्धानुशासनः कान्तो ज्ञातराज्यगुणक्रमः ।वीतशोकभयायासप्रज्ञः प्राप्तमहादशः ॥२॥विस्मृतात्मस्वभावोऽभूदनिशं स्तवमङ्गलैः ।आनन्दपूर्णया वृत्त्या भृशं क्षीव इवासवैः ॥३॥कीरेषु श्वपचो राज्यं वर्षाण्यष्टौ चकार ह ।आर्यवृत्तमशेषेण तावत्कालं बभार ह ॥४॥यदृच्छयैकदाथासावतिष्ठत्त्यक्तभूषणः ।अतमस्तारकेन्द्वर्कतेजोऽम्भोदमिवाम्बरम् ॥५॥बह्वमन्यत नो हारकेयूरवलयान्यसौ ।प्रभुताबृंहितं चेतो नाहार्यमभिनन्दति ॥६॥एक एवाजिरं बाह्यं तादृग्वेषः स निर्ययौ ।मुख्याङ्गं णान्नभोभागादस्तं गच्छन्निवांशुमान् ॥७॥तत्रापश्यद्धनं श्यामं पीनं श्वपचपेटकम् ।गायन्मृदु वसन्तोत्थं कोकिलानामिव व्रजम् ॥८॥धुनानं वल्लकीतन्त्रीं करपल्लवलीलया ।मृदुरेफं रणद्रेफामलिश्रेणिमिव द्रुमम् ॥९॥एकस्तस्मात्समुत्तस्थौ जरावान्रक्तलोचनः ।काचश्रृङ्गहिमापूर्णमिव श्वपचनायकः ॥१०॥भो कटंजेति सहसा वदन्कीरमहीपतिम् ।इह राजा भवन्तं वा कच्चिद्गेयक्रियाविदम् ॥११॥रक्तकण्ठं मानयति रागवानिव कोकिलम् ।आपूरयति वा कच्चिद्गृहवस्त्रासनार्पणैः ॥१२॥मधू रसालविटपं फलपुष्पभरैरिव ।दर्शनेन तवाद्याहं परां निर्वृतिमागतः ॥१३॥पद्मं सूर्योदयेनेव चन्द्रोदय इवौषधी ।आनन्दानामशेषाणां लाभानां महतामपि ॥१४॥विश्रामाणामनन्तानां सीमान्तो बन्धुदर्शनम् ।श्वपचे प्रवदत्येवं राजा यावत्तया तया ।चकार तत्कालजया चेष्टयैवावधीरणम् ॥१५॥तावद्वातायनगताः कान्ताः प्रकृतयस्तथा ।श्वपचोऽयमिति ज्ञात्वा म्लानतामलमाययुः ॥१६॥पद्मास्तुषारप्रावृष्ट्या ग्रामाः सावग्रहा इव ।दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे ॥१७॥नृपोऽवधीरयामास तां तां श्वपचसंकथाम् ।वृक्षाग्रगतमार्जारफेत्कारं मृगराडिव ॥१८॥सत्वरं प्रविवेशान्तःपुरमाम्लानमानवम् ।राजहंस इवावर्षे सीदत्सरसिजं सरः ॥१९॥सर्वावयवविश्रान्तां म्लाननामयमाययौ ।जानुस्तम्भान्तरमहारन्ध्राग्निरिव दुर्द्रुमः ॥२०॥तत्रापश्यदसौ सर्वं विषण्णवदनं जनम् ।जालं कुङ्कुमपुष्पाणां भुक्तमूलमिवाखुना ॥२१॥मन्त्रिणो नागरा नार्यस्ततस्ते तं महीपतिम् ।नास्प्राक्षुरपि तिष्ठन्तं गृह एव शवं यथा ॥२२॥भृत्याश्चाकृतसत्कारं दूर एनमथात्यजन् ।दुःखयुक्ता घनस्नेहा अपि बालाः शवं यथा ॥२३॥अनानन्दमुखं श्यामं शरीरं श्रीविवर्जितम् ।दग्धं स्थलमिवैनं ते बह्वमन्यन्त नाकुलाः ॥२४॥धूमायमानदेहस्य परितापदशावती ।नाढौकतास्य जनता पार्श्वमग्निर्गिरेरिव ॥२५॥मन्दोत्साहाः समुद्भूताः सभ्यसंघातवर्जिताः ।न तदाज्ञाः पदं प्रापुर्भस्मनीवाम्बुविप्रुषः ॥२६॥क्रूरकर्मकराकारात्संगताशुभदायिनः ।तस्माद्विशेषेण जना राक्षसादिव दुद्रुवुः ॥२७॥एक एव बभूवासौ जनमध्यगतोऽपि सन् ।अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः ॥२८॥भृशमालपतेऽप्यस्मे नालापं नागरा ददुः ।मुक्ताजालयुतायापि कीचकायाध्वगा इव ॥२९॥अथ सर्वे वयं दीर्घकालं श्वपचदूषिताः ।प्रायश्चित्तैर्न शुद्ध्यामः प्रविशामो हुताशनम् ॥३०॥इति निर्णीय नगरे नागरा मन्त्रिणस्तथा ।अभितो ज्वालयामासुश्चिताः शुष्केन्धनैधिताः ॥३१॥ज्वलितास्वभितस्तासु तारकास्विव खे तदा ।बभूव नगरं सर्वमाक्रन्दपरमानवम् ॥३२॥करुणारावमुखरैः कलत्रैर्बाष्पवर्षिभिः ।अवष्टब्धं ज्वलत्कुण्डोपान्तमन्दरुदत्प्रजम् ॥३३॥अग्निकुण्डप्रविष्टानां मन्त्रिणां भृत्यरोदनैः ।रुदत्क्रन्ददृढतरमरण्यमिव मारुतैः ॥३४॥चितादीपितविप्रेन्द्रमांसमांसलगन्धया ।जातनीहारमुत्पातवात्ययावकरोद्धतैः ॥३५॥वातदीर्घवसागन्धदूरानीतखगोर्जितैः ।चक्रैर्व्योभाभवच्छन्नभास्करं जलदैरिव ॥३६॥वातोद्धूतचितावह्निप्रज्वलद्व्योममण्डलम् ।उड्डीनाग्निकणव्राततारासारदिगन्तरम् ॥३७॥प्रमत्ततस्करक्रन्दद्वेल्लद्वालकुमारकम् ।संत्रस्तनागरापास्तजीविताख्यमसंस्थिति ॥३८॥अलक्षितगृहं चौरलुण्ठिताखिलसंचयम् ।त्यक्तपुत्रकलत्रं तन्मरणव्यग्रनागरम् ॥३९॥तस्मिंस्तथा वर्तमाने कष्टे विधिविपर्यये ।अशेषजनताशेषकल्पान्तसदृशस्थितौ ॥४०॥राज्यसज्जनसंपर्कपवित्रीकृतधीरधीः ।गवलश्चिन्तयामास शोकेनाकुलचेतनः ॥४१॥मदर्थे हि कदर्थोऽयं देशेऽस्मिन्स्थितिमागतः ।अकालकल्पान्तमयः सर्वनायकनाशनः ॥४२॥किं मे जीवितदुःखेन मरणं मे महोत्सवः ।लोकनिन्द्यस्य दुर्जन्तोर्जीवितान्मरणं वरम् ॥४३॥इति निश्चित्य गवलो ज्वलिते ज्वलने पुनः ।पतङ्गवदनुद्वेगमकरोदाहुतिं वपुः ॥४४॥तस्मिन्बलाद्गवलनाम्नि हुताशराशौदेहे पतत्यवयवाकुलतां प्रयाते ।स्वाङ्गावदाहदहनस्फुरणानुरोधा-दन्तर्जले झटिति बोधमवाप गाधिः ॥४५॥श्रीवाल्मीकिरुवाच ।इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरैश्च सहाजगाम ॥४६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० उपशमप्रकरणे गाधिवृत्तान्ते राज्यभ्रंशो नाम षट्चत्वारिंशः सर्गः ॥४६॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP