संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ८७ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ८७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं कलितवानन्तः प्रशान्तमननैषणः ।शनैरुच्चारयंस्तारं प्रणवं प्राप्तभूमिकः ॥१॥मात्रादिपादभेदेन प्रणवं संस्मरन्यतिः ।अध्यारोपापवादेन स्वरूपं शुद्धमव्ययम् ॥२॥सबाह्याभ्यन्तरान्भागान्स्थूलान्सूक्ष्मतरानपि ।त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पाकल्पकल्पितान् ॥३॥तिष्ठन्नक्षुभिताकारश्चिन्तामणिरिवात्मनि ।संपूर्ण इव शीतांशुर्विश्रान्त इव मन्दरः ॥४॥कुम्भकारगृहे चक्रं संरोधित इव भ्रमात् ।अम्भोधिरिव संपूर्णस्तिमितस्फारनिर्मलः ॥५॥शान्ततेजस्तमःपुञ्जं विगतार्केन्दुतारकम् ।अधूमाभ्ररजःस्वच्छमनन्तं शरदीव खम् ॥६॥सहप्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ।जहाविन्द्रियतन्मात्रजालं गन्धमिवानिलः ॥७॥ततो जहौ तमोमात्रं प्रतिभातमिवाम्बरे ।उत्तिष्ठत्प्रस्फुरद्रूपं प्राज्ञः कोपलवं यथा ॥८॥प्रतिभातं ततस्तेजो निमेषार्धं विचार्य सः ।जहौ बभूव च तदा न तमो न प्रकाशकम् ॥९॥तामवस्थामथासाद्य मनसा तन्मनस्तृणम् ।मनागपि प्रस्फुरितं निमिषार्धादशातयत् ॥१०॥ततोऽङ्ग संविदं स्वस्थां प्रतिभासमुपागताम् ।सद्यो जातशिशुज्ञानसमानकलनामलम् ॥११॥निमेषार्धार्धभागेन कालेन कलनां प्रभुः ।जहौ चितश्चेत्यदशां स्पन्दशक्तिमिवानिलः ॥१२॥पश्यन्तीपदमासाद्य सत्तामात्रात्मके ततः ।प्रसुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः ॥१३॥ततः सुषुप्तसंस्थानं स्थित्वा स्थित्वा विभुर्मनाक् ।सुषुप्ते स्थैर्यमासाद्य तुर्यरूपमुपाययौ ॥१४॥निरानन्दोऽपि सानन्दः सच्चासच्चापि तत्र सः ।आसीन्न किंचित्किंचित्तत्प्रकाशस्तिमिरं यथा ॥१५॥अचिन्मयं चिन्मयं च नेति नेति यदुच्यते ।ततस्तत्संबभूवासौ यद्गिरामप्यगोचरः ॥१६॥तदसौ सुसमं स्फारं पदं परमपावनम् ।सर्वभावान्तरगतमभूत्सर्वविवर्जितम् ॥१७॥यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां वरम् ।विज्ञानमात्रं विज्ञानविदां यदमलं पदम् ॥१८॥पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ।शिवः शशिकलाङ्कानां कालः कालैकवादिनाम् ॥१९॥आत्मात्मनस्तद्विदुषां नैरात्म्यं तादृशात्मनाम् ।मध्यं माध्यमिकानां च सर्वं सुसमचेतसाम् ॥२०॥यत्सर्वशास्त्रसिद्धान्तो यत्सर्वहृदयानुगम् ।यत्सर्वं सर्वगं सार्वं यत्तत्तत्सदसौ स्थितः ॥२१॥यदनुत्तमनिःस्पन्दं दीप्यते तेजसामपि ।स्वानुभूत्यैकमात्रं यद्यत्तत्तत्सदसौ स्थितः ॥२२॥यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् ।यत्सर्वं चाप्यसर्वं च यत्तत्तत्सदसौ स्थितः ॥२३॥अजमजरमनाद्यनेकमेकंपदममलं सकलं च निष्कलं च ।स्थित इति स तदा नभःस्वरूपा-दपि विमलस्थितिरीश्वरः क्षणेन ॥२४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यनिर्वाणो नाम सप्ताशीतितमः सर्गः ॥८७॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP