उपशमप्रकरणम् - सर्गः ७५
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
जनकः संस्थितो राज्ये व्यवहारपरोऽपि सन् ।
विगतज्वर एवान्तरनाकुलमतिः सदा ॥१॥
पितामहो दिलीपस्ते सर्वारम्भपरोऽप्यलम् ।
वीतरागतयैवान्तर्बुभुजे मेदिनीं चिरम् ॥२॥
निरञ्जनतया बुद्धो जनतां पालयंश्चिरम् ।
जीवन्मुक्ताकृतिर्नित्यं मनू राज्यमपालयत् ॥३॥
विचित्रबलयुद्धेषु व्यवहारेषु भूरिषु ।
मान्धाता सुचिरं तिष्ठन्प्राप्तवान्वै परं पदम् ॥४॥
बलिः पातालपीठस्थः कुर्वन्सदिव संस्थितिम् ।
सदा त्यागी सदाऽसक्तो जीवन्मुक्त इति स्थितः ॥५॥
नमुचिर्दानवाधीशो देवद्वन्द्वपरः सदा ।
नानाचारविचारेषु क्वचिन्नान्तरतप्यत ॥६॥
वासवाजौ तनुत्यागी वृत्रो विततमानसः ।
अन्तःशान्तमना मानी चकार सुरसंगरम् ॥७॥
कुर्वन्दानवकार्याणि पातालतलपालकः ।
अनपायं निराक्रोशं प्रह्लादो ह्लादमागतः ॥८॥
शम्बरैकपरोऽप्यन्तःशम्बरैकतयोदितः ।
संसारशम्बरं राम शम्बरस्त्यक्तवानिदम् ॥९॥
असक्तबुद्धिर्हरिणा कुर्वन्दानवसंगरम् ।
परां संविदमासाद्य कुशलस्त्यक्तवानिदम् ॥१०॥
सर्वामरमुखो वह्नि क्रियाजालपरो ह्यपि ।
यज्ञलक्ष्मीश्चिरं भुंक्ते मुक्त एवेह तिष्ठति ॥११॥
पीयमानः सुरैः सर्वैः सोमः समरसाशयः ।
क्वचिदेति न संसङ्गमाक्रान्तावम्बरं यथा ॥१२॥
बृहस्पतिर्देवगुरुर्दारार्थं चन्द्रयोध्यपि ।.
आचरन्दिवि चित्रेहां मुक्त एव ह्यवस्थितः ॥१३॥
शुक्रोऽम्बरतलद्योती बुधः सर्वार्थपालकः ।
निर्विकारमतिः कालं नयत्यसुरदेशिकः ॥१४॥
जगद्भूतगणाङ्गानि चिरं संचारयन्नपि ।
सर्वदा सर्वसंचारी मुक्त एव समीरणः ॥१५॥
लोकाजवं जवीभावप्रोद्वेगज्ञोऽप्यखिन्नधीः ।
ब्रह्मा सममना राम क्षिपयत्यायुराततम् ॥१६॥
जरामरणयुद्धादिद्वत्द्वसंगरलीलया ।
चरती ह चिरं कालं मुक्तोऽपि भगवान्हरिः ॥१७॥
मुक्तेनापि त्रिनेत्रेण सौन्दर्यतरुमञ्जरी ।
देहार्धे धार्यते गौरी कामुकेनेव कामिनी ॥१८॥
मुक्तयापि गले बद्धो गौर्या गौरस्त्रिलोचनः ।
संशुद्ध इव मुक्तानां हारः शशिकलामलः ॥१९॥
गुहो गहनधीर्वीरस्तारकादिरणक्रियाम् ।
मुक्तोऽपि कृतवान्सर्वं ज्ञानरत्नैकसागरः ॥२०॥
भृङ्गीशो रक्तमांसं स्वं स्वमात्रे प्रवितीर्णवान् ।
मुक्तयैव धिया राम धीरया ध्यानधौतया ॥२१॥
मुनिर्मुक्तस्वभावोऽपि जगज्जङ्गलखण्डकम् ।
नारदो विजहारेमं शीतया कार्यशीलया ॥२२॥
जीवन्मुक्तमना मान्यो विश्वामित्रोऽप्ययं प्रभुः ।
वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति ॥२३॥
धारयत्यवनीं शेषः करोत्यर्को दिनावलीम् ।
यमो यमत्वं कुरुते जीवन्मुक्ततयैव हि ॥२४॥
अन्येऽप्यस्मिंस्त्रिभुवने यक्षासुरनराः सुराः ।
शतशो मुक्ततां याताः सन्तस्तिष्ठन्तिसंसृतौ ॥२५॥
संस्थिता व्यवहारेषु विचित्राचारधारिषु ।
अन्तराशीतलाः केचित्केचिन्मूढाः शिलासमाः ॥२६॥
परमं बोधमासाद्य केचित्काननमागताः ।
यथा भृगुभरद्वाजविश्वामित्रशुकादयः ॥२७॥
केचिद्राज्येषु तिष्ठन्ति च्छत्रचामरपालिताः ।
यथा जनकशर्यातिमान्धातृसगरादयः ॥२८॥
केचिद्व्योमनि तिष्ठन्ति धिष्ण्यचक्रान्तरस्थिताः ।
यथा बृहस्पत्युशनश्चन्द्रसूर्यमुनीश्वराः ॥२९॥
केचित्सुरपदे याता विमानावलिमास्थिताः ।
यथाग्निवायुवरुणयमतुम्बुरुनारदाः ॥३०॥
केचितपातालकुहरे जीवन्मुक्ता व्यवस्थिताः।
यथा बलिसुहोत्रान्धप्रह्लादाह्लादपूर्वकाः ॥३१॥
तिर्यग्योनिष्वपि सदा विद्यन्ते कृतबुद्धयः ।
देवयोनिष्वपि प्राज्ञा विद्यन्ते मूर्खबुद्धयः ॥३२॥
सर्वं सर्वेण सर्वत्र सर्वथा सर्वदैव हि ।
संभवत्येव सर्वात्मन्यात्मन्याततरूपिणि ॥३३॥
विधेर्विचित्रा नियतिरनन्तारम्भमन्थरा ।
संनिवेशांशवैचित्र्यात्सर्वं सर्वत्र दृश्यते ॥३४॥
विधिर्दैवं विधिर्धाता सर्वेशः शिव ईश्वरः ।
इति नामभिरात्मा नः प्रत्यक्चेतन उच्यते ॥३५॥
अस्त्यवस्तुनि वस्त्वन्तः काञ्चनं सिकतास्विव ।
अस्ति वस्तुन्यवस्त्वन्तर्मलं हेमकणेष्विव ॥३६॥
अयुक्ते युक्तता युक्त्या प्रेक्ष्यमाणा प्रदृश्यते ।
पापस्य हि भयाल्लोको राम धर्मे प्रवर्तते ॥३७॥
असत्ये सत्यता साधो शाश्वती परिलक्ष्यते ।
शून्येन ध्यानयोगेन शाश्वतं पदमाप्यते ॥३८॥
यन्नास्ति तदुदेत्याशु देशकालविलासतः ।
शशकाः श्रृङ्गवन्तो हि दृश्यन्ते शम्बरस्थितौ ॥३९॥
ये वज्रसाराः सुदृढा दृश्यन्ते ते क्षयं गताः ।
कल्पस्यान्ते यथेन्द्वर्कधराब्धिविबुधादयः ॥४०॥
इति पश्यन्महाबाहो भावाभावभवक्रमम् ।
हर्षामर्षविषादेहाः संत्यज्य समतां व्रज ॥४१॥
असत्सदेव भातीह सदसच्चापि दृश्यते ।
आस्थानास्थे परित्यज्य तेनाशु समतां व्रज ॥४२॥
मुक्तौ राघव लोकेऽस्मिन्न प्राप्तिः संभवत्यलम् ।
अप्रवृत्तौ विवेकस्य मग्ना हि जनकोटयः ॥४३॥
मुक्तौ राघव लोकेऽस्मिन्प्राप्तिरस्ति सदैव हि ।
प्रवृत्त्या हि विवेकस्य विमुक्ता भूतकोटयः ॥४४॥
प्रविवेकाविवेकाभ्यां सुलभालभ्यतां गता ।
मुक्तिर्मनःक्षयप्राप्त्या विवेकं तेन दीपय ॥४५॥
आत्मावलोकने यत्नः कर्तव्यो भूतिमिच्छता ।
सर्वदुःखशिरश्छेद आत्मालोकेन जायते ॥४६॥
नीरागा निरुपासङ्गा जीवन्मुक्ता महाधियः ।
संभवन्तीह बहुशः सुहोत्रजनका इव ॥४७॥
तस्मात्त्वमपि वैराग्यविवेकोदितधीरधीः ।
जीवन्मुक्तो विहर भो समलोष्टाश्मकाञ्चनः ॥४८॥
द्विविधा मुक्तता लोके विद्यते देहधारिणाम् ।
सदेहैका विदेहान्या विभागोऽयं तयोः श्रृणु ॥४९॥
असंसङ्गात्पदार्थानां मनःशान्तिर्विमुक्तता ।
सत्यसत्यपि देहे सा संभवत्यनघाकृते ॥५०॥
स्नेहसंक्षयमेवाङ्ग विदुः कैवल्यमुत्तमम् ।
तत्संभवति देहस्य भावे चाभाव एव च ॥५१॥
यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ।
सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः ॥५२॥
यत्नो यत्नेन कर्तव्यो मोक्षार्थं युक्तिपूर्वकम् ।
यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत् ॥५३॥
न त्वनध्यवसायस्य दुःखाय विपुलात्मने ।
आत्मा परवशः कार्यो मोहमाश्रित्य केवलम् ॥५४॥
सुमहद्धैर्यमालम्ब्य मनसा व्यवसायिना ।
विचारयात्मनात्मानमात्मनश्चिरसिद्धये ।
वितताध्यवसायस्य जगद्भवतिगोष्पदम् ॥५५॥
यदुपगतः सुगतः पदं प्रधानं
यदपगतोऽध्रुवतां नृपश्च कश्चित् ।
यदुपगताः पदमुत्तमं महान्तः
प्रयतनकल्पतरोर्महाफलं तत् ॥५६॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे मुक्तामुक्तविचारो नाम पञ्चसप्ततितमः सर्गः ॥७५॥
N/A
References : N/A
Last Updated : September 22, 2021
TOP