उपशमप्रकरणम् - सर्गः ३६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
प्रह्लाद उवाच ।
आत्मा सर्वपदातीतश्चिरात्संस्मृतिमागतः ।
दिष्ट्या लब्धोऽसि भगवन्नमस्तेस्तु महात्मने ॥१॥
अभिवन्द्याथ चालोक्य चिरमालिङ्ग्यसे मया ।
कोऽन्यः स्यात्त्वदृते बन्धुर्भगवन्भुवनत्रये ॥२॥
हंसि पासि ददासि त्वं स्तौषि यासि विवल्गसि ।
अयं प्राप्तोसि दृष्टोसि किं करोषि क्व गच्छसि ॥३॥
स्वसत्तापूरिताशेषविश्व विश्वजनीन भोः ।
सर्वत्र लक्ष्यसे नित्यमधुना क्व पलायसे ॥४॥
आवयोरन्तरं भूरि जन्मव्यवहितान्तरम् ।
अदूरमद्य संपन्नं दिष्ट्या दृष्टोऽसि बान्धव ॥५॥
नमस्ते कृतकृत्याय कर्त्रे भर्त्रे नमोस्तु ते ।
नमः संसारवृन्ताय नित्याय विमलात्मने ॥६॥
नमश्चक्राजहस्ताय नमश्चन्द्रार्धधारिणे ।
नमो विबुधनाथाय नमस्ते पद्मजन्मने ॥७॥
वाच्यवाचकदृष्ट्यैव भेदो योऽयमिहावयोः ।
असत्या कल्पनैवैषा वीचिवीच्यम्भसोरिव ॥८॥
त्वमेवानन्तयानन्तवस्तुवैचित्र्यरूपया ।
भावाभावविलासिन्या नित्ययैव विजृम्भसे ॥९॥
नमो द्रष्ट्रे नमः स्रष्ट्रे नमोऽनन्तविकासिने ।
नमः सर्वस्वभावाय नमस्ते सर्वगात्मने ॥१०॥
प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया ।
त्वया मयोपदिष्टेन दग्धेनापहतौजसा ॥११॥
आलोकिता लोकदृशो दृष्टा दृष्टान्तदृष्टयः ।
न प्राप्तस्तत्त्वयाऽनेन किंचिदासादितं भवेत् ॥१२॥
सर्वं मृत्काष्ठपाषाणवारिमात्रमिदं जगत् ।
नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छति ॥१३॥
देवायमद्य लब्धोऽसि दृष्टोऽस्यधिगतोऽसि च ।
संप्राप्तोऽसि गृहीतोऽसि नमस्तेस्तु न मुह्यसि ॥१४॥
योऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुः स्थितः ।
देव दर्शनरूपेण कथं सोऽत्र न दृश्यते ॥१५॥
यस्त्वक्स्पर्शौ स्पृशन्सर्वं गन्धं तैलं तिले यथा ।
स्पर्शमन्तःकरोत्येष स कथं नानुभूयते ॥१६॥
यः शब्दश्रवणादन्तः शब्दशक्तिं परामृशन् ।
रोमाञ्चं जनयत्यङ्गे स दूरस्थः कथं भवेत् ॥१७॥
जिह्वापल्लवलग्नानि स्वदितस्याग्रतोऽपि च ।
स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य च ॥१८॥
पुष्पगन्धानुपादाय घ्राणहस्तेन देहकम् ।
य आलोकयति प्रीत्या कस्यासौ न करे स्थितः ॥१९॥
वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः ।
यो गीतः स कथं ह्यात्मा विज्ञातो याति विस्मृतिं ॥२०॥
सैवेह देहभोगाली सुभगापीयमद्य मे ।
अन्तर्न स्वदते स्वच्छे त्वयि दृष्टे परावरे ॥२१॥
त्वया विमलदीपेन भानुः प्रकटतां गतः ।
त्वया शीततुषारेण चन्द्रः शिशिरतां गतः ॥२२॥
त्वयैते गुरवः शैलास्त्वयैते द्युचरा धृताः ।
त्वयैवेयं धरा धीरा त्वयैवाम्बरमम्बरम् ॥२३॥
दिष्ट्या मत्तामसि प्राप्तो दिष्ट्या त्वत्तामहं गतः ।
अहं त्वं त्वमहं देव दिष्ट्या भेदोऽस्ति नावयोः ॥२४॥
अहं त्वमितिशब्दाभ्यां पर्यायाभ्यां महात्मनः ।
तव वा मम वा शाखा संयुक्ताभ्यां नमोनमः ॥२५॥
नमो मह्यमनन्ताय निरहंकाररूपिणे ।
नमो मह्यमरूपाय नमः समसमात्मने ॥२६॥
मय्यात्मनि समे स्वच्छे साक्षिभूते निराकृतौ ।
दिक्कालाद्यनवच्छिन्ने स्वात्मन्येवेह तिष्ठसि ॥२७॥
मनः प्रक्षोभमायाति स्फुरन्तीन्द्रियवृत्तयः ।
शक्तिरुल्लसति स्फारा प्राणापानप्रवाहिनी ॥२८॥
वहन्ति देहयन्त्राणि कृष्टान्याशावरत्रया
चर्ममांसास्थिदिग्धानि मनःसारथिमन्ति च ॥२९॥
अयं संविद्वपुरहं न काचिन्न कृतास्पदः ।
देहः पततु वोदेतु यथाभिमतयेच्छया ॥३०॥
चिरादहमहं जातः स्वात्मलाभश्चिरादयम् ।
चिरादुपशम याति कल्पस्यान्ते जगद्यथा ॥३१॥
चिरात्संसारगामित्वाद्दीर्घे संसारवर्त्मनि ।
विश्रान्तोऽस्मिचिरं श्रान्तः कल्पस्यान्त इवानलः ॥३२॥
सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः ।
तेभ्योऽपि च नमस्तेस्तु ये मां त्वां प्रवदन्ति च ॥३३॥
अखिलानन्तसंभोगा न स्पृष्टा दोषवृत्तिभिः ।
जयत्यकृतसंरम्भा साक्षिता परमात्मनः ॥३४॥
आत्मन्पुष्प इवामोदो भस्त्रापिण्ड इवानिलः ।
तिले तैलमिवास्मिंस्त्वं सर्वत्र वपुषि स्थितः ॥३५॥
हंसि पासि ददासि त्वमवस्फूर्जसि वल्गसि ।
अनहंकृतिरूपोऽपि चित्रेयं तव मायिता ॥३६॥
जयामीशज्वलद्दीप्तिः सर्वमुन्मीलयञ्जगत् ।
जयाम्युपरतारम्भो जगद्भूयो निमीलयन् ॥३७॥
परमाणोस्तवैवान्तरिदं संसारमण्डलम् ।
वटत्वं वटधानायां बभूवास्ति भविष्यति ॥३८॥
हयद्विपरथाकारैर्यद्वत्खे दृश्यतेऽम्बुदः ।
तद्वदालोक्यसे देव पदार्थशतविभ्रमैः ॥३९॥
भावानां भूरिभङ्गानामभवाय भवाय च ।
भव भावविमुक्तात्मा भावाभावबहिष्कृतः ॥४०॥
जहि मानं महाकोपं कालुष्यं क्रूरतां तथा ।
न महान्तो निमज्जन्ति प्राकृते गुणसंकटे ॥४१॥
प्राक्तनीं दीर्घदौरात्म्यदशां स्मृत्वा पुनःपुनः ।
कोहं किं तद्बभूवेति हसन्मुक्ताच्छटासितम् ॥४२॥
ते प्रयाताः समारम्भा गतास्ते दग्धवासराः ।
येषु चिन्तानलज्वालाजालाकीर्णो भवानभूत् ॥४३॥
अद्य त्वं देहनगरे राजा स्फारमनोरथः ।
न दुःखैर्गृह्यसे नापि सुखैर्व्योम करैरिव ॥४४॥
अद्येन्द्रियदुरश्वांश्च जित्वा जितमनोगजः ।
भोगारिमभितो भङ्क्त्वासाम्राज्यमधितिष्ठसि ॥४५॥
अपाराम्बरपान्थस्त्वमजस्रास्तमयोदयः ।
अवभासकरो नित्यं बहिरन्तश्च भास्करः ॥४६॥
सर्वदैवासि संसुप्तः शक्त्या संबोध्यसे विभो ।
भोगालोकनलीलार्थं कामिन्या कामुको यथा ॥४७॥
दृक्क्षुद्राभिरुपानीतं दूराद्रूपमधु त्वया ।
पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया ॥४८॥
ब्रह्माण्डकोटराध्वान्ताः प्राणापानपरैस्त्वया ।
गतागतैर्ब्रह्मपुरे संप्रेक्ष्यन्ते प्रतिक्षणम् ॥४९॥
देहपुष्पे त्वमामोदो देहेन्दौ त्वमृतामृतम् ।
रसस्त्वं देहविटपे शैत्यं देहहिमे भवान् ॥५०॥
त्वय्यस्ति विस्मयस्नेहः शरीरक्षीरसर्पिषि ।
त्वमन्तरस्य देहस्य दारुण्यग्निरिव स्थितः ॥५१॥
त्वमेवानुत्तमास्वादः प्राकाश्यं तेजसामपि ।
अवगन्ता त्वमर्थानां त्वं भासामवभासकः ॥५२॥
स्पन्दस्त्वं सर्ववायूनां त्वं मनोहस्तिनो मदः ।
प्रज्ञानलशिखायास्त्वं प्राकाश्यं तैक्ष्ण्यमेव च ॥५३॥
त्वद्वशादियमात्मीया वाचा संप्रविलीयते ।
दीपवत्पुनरन्यत्र समुदेति कुतोऽपि सा ॥५४॥
त्वयि संसारवर्तिन्यः पदार्थावलयस्तथा ।
कटकाङ्गदकेयूरयुक्तयः कनके यथा ॥५५॥
भवानयमयं चाहंत्वंशब्दैरेवमादिभिः ।
स्वयमेवात्मनात्मानं लीलार्थं स्तौषि वक्षि च ॥५६॥
मन्दानिलविनुन्नोऽब्दो गजाश्वनरदृष्टिभिः ।
यथा संलक्ष्यते व्योम्नि तथा त्वं भूतदृष्टिभिः ॥५७॥
यथा हयगजाकारैर्ज्वाला लसति वह्निषु ।
तथैवाव्यतिरिक्तैस्त्वं दृश्यसे भुवि सृष्टिषु ॥५८॥
त्वं ब्रह्माण्डकमुक्तानामच्छिन्नस्तन्तुराततः ।
क्षेत्रं त्वं भूतसस्यानां चिद्रसायनसेवितम् ॥५९॥
असत्तदनभिव्यक्तं पदार्थानां प्रकाश्यते ।
त्वया तत्त्वं यथा पक्त्या मांसानां स्वादवेदनम् ॥६०॥
विद्यमानापि वस्तुश्रीर्न स्थिता त्वयि न स्थिते ।
वनितारूपलावण्यसत्तेव गतचक्षुषः ॥६१॥
सदपीह न सत्तायै वस्तु नावर्जितं त्वया ।
तृप्तये न स्वलावण्यं मुकुरात्प्रतिबिम्बितम् ॥६२॥
लुठति त्वां विना देहः काष्ठलोष्टसमः क्षितौ ।
सन्नप्यसन्नगोच्छ्रायः श्यामास्विव रविं विना ॥६३॥
सुखदुःखक्रमः प्राप्य भवन्तं परिनश्यति ।
प्राकाश्यमासाद्य यथा तमस्तेजोऽथवा हिमम् ॥६४॥
त्वदालोकनयैवैते स्थितिं यान्ति सुखादय ।
सूर्यालोकनया प्रातर्वर्णाः शुक्लादयो यथा ॥६५॥
लब्धात्मानो विनश्यन्ति संबन्धक्षण एव ते ।
ते तमांसीव दीपस्य दृष्टा एव व्रजन्त्यलम् ॥६६॥
तमस्ता तमसो दीपासत्तायां स्फुटतां गता ।
दीपसंबन्धसमये सा चोत्पद्य विनश्यति ॥६७॥
तदेवं सुखदुःखश्रीर्दृष्ट्वैव त्वामनामयम् ।
जायते जातमात्रैवं सर्वनाशेन नश्यति ॥६८॥
भङ्गुरत्वादिह स्थातुं कालं नाणुमपि क्षमा ।
निमेषलक्षभागाख्या तन्वी कालकला यथा ॥६९॥
गान्धर्वी नगरी तन्वी सुखदुःखादिभावना ।
स्फुरति त्वत्प्रसादेन त्वयि दृष्टे विलीयते ॥७०॥
त्वदालोकेक्षणोद्भूता त्वदालोकेक्षणक्षया ।
मृतेव जाता जातेव मृता केनोपलक्ष्यते ॥७१॥
क्षणमप्यस्थिरं वस्तु कथं कार्यकरं भवेत् ।
तरङ्गैरुत्पलाकारैर्माला कथमवेक्ष्यते ॥७२॥
यदा वा जातनिर्नष्टं क्रियां वस्तु करिष्यते ।
तदा रमेत लोकोऽयं मालां कृत्वा तडिद्गणैः ॥७३॥
इमां सुखादिकां लक्ष्मीं विवेकिजनचेतसि ।
स्थितः सन्नेव गृह्णासि न जहासि समस्थितिम् ॥७४॥
अविवेकिषु योऽसि त्वं सहजात्मन्यदृच्छया ।
तद्रूपकथनेनालं ममानल्पपदास्पद ॥७५॥
निरीहेण निरंशेन निरहंकृतिना त्वया ।
सता वाप्यसता वापि कर्तृत्वमुररीकृतम् ॥७६॥
जय प्रोड्डामराकार जय शान्तिपरायण ।
जय सर्वागमातीत जय सर्वागमास्पद ॥७७॥
जय जात जयाजात जय क्षत जयाक्षत ।
जय भाव जयाभाव जय जेय जयाजय ॥७८॥
उल्लसाम्युपशाम्यामि तिष्ठाम्यधिगतोऽस्मि च ।
जयी जयाय जीवामि नमो मह्यं नमोऽस्तु ते ॥७९॥
त्वयि स्थिते मयि विगतामयात्मनि
स्वसंस्थितौ व्यपगतरागरञ्जने ।
क्व बन्धनं क्व च विपदः क्व संपदो
भवाभवौ क्व शममुपैमि शाश्वतम् ॥८०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे आत्मस्तवनं नाम षट्त्रिंशः सर्गः ॥३६॥
N/A
References : N/A
Last Updated : September 21, 2021
TOP