संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ३९

उपशमप्रकरणम् - सर्गः ३९

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
इति संचिन्त्य सर्वात्मा क्षीरोदादात्मकात्पुरात् ।
चचाल परिवारेण सह सानुरिवाचलः ॥१॥
क्षीरोदतलरन्ध्रेण तेनैव स्तम्भिताम्भसा ।
प्रह्लादनगरं प्राप शक्रलोकमिवापरम् ॥२॥
हेममन्दिरकोशस्थं ददर्शात्रासुरं हरिः ।
अथ शैलगुहालीनं समाधिस्थमिवाब्जजम् ॥३॥
तत्र ते तेजसा दैत्या वैष्णवेनावधूलिता ।
दूरं ययुर्दिनेशांशुवित्रस्ता इव कौशिकाः ॥४॥
द्वित्रैः सहासुरैर्मुख्यैः परिवारयुतो हरिः ।
प्रविवेशासुरगृहं तारावानिव खं शशी ॥५॥
वैनतेयासनस्थोऽसौ लक्ष्मीविधुतचामरः ।
स्वायुधादिपरीवारो देवर्षिमुनिवन्दितः ॥६॥
महात्मन्संप्रबुध्यस्वेत्येवं विष्णुरुदाहरन् ।
पाञ्चजन्यं प्रदध्मौ च ध्वनयन्ककुभां गणम् ॥७॥
महता तेन शब्देन वैष्णवप्राणजन्मना ।
तुल्यकालपरिक्षुब्धकल्पाभ्रार्णवरंहसा ॥८॥
आसुरी जनता भूमौ पपातागतसंभ्रमा ।
मत्तलीलाभ्रनादेन राजहंसावली यथा ॥९॥
जहर्ष जनितानन्दा वैष्णवी गतसंभ्रमा ।
जनता जलदध्वानफुल्लेव कुटजावली ॥१०॥
बभूव संप्रबुद्धात्मा दानवेशः शनैःशनैः ।
मेघावसर उत्फुल्लकदम्ब इव कानने ॥११॥
ब्रह्मरन्ध्रकृतोत्थाना प्राणशक्तिरथासुरम् ।
शनैराक्रमयामास गङ्गा सर्वमिवार्णवम् ॥१२॥
क्षणादाक्रमयामास प्राणश्रीः सर्वतोऽसुरम् ।
उदयानन्तरं सौरी प्रभेव भुवनान्तरम् ॥१३॥
प्राणेषु रन्ध्रनवके प्रवृत्तेष्वथ तस्य चित् ।
चेत्योन्मुखी बभूवान्तः प्राणदर्पणबिम्बिता ॥१४॥
चेतनीयोन्मुखी चेत्यं चिन्मनस्तामुपाययौ ।
द्वित्वं मुकुरसंक्रान्ता मुखश्रीरिव राघव ॥१५॥
किंचिदङ्कुरिते चित्ते नेत्रे विकसनोन्मुखे ।
शनैर्बभूवतुस्तस्य प्रातर्नीले यथोत्पले ॥१६॥
प्राणापानपरामृष्टानाडीविवरसंविदः ।
वातार्तस्येव पद्मस्य स्पन्दोऽस्य समजायत ॥१७॥
निमेषान्तरमात्रेण मनः पीवरतां ययौ ।
तस्मिन्प्राणवशात्पूर्णे तरङ्ग इव वारिणि ॥१८॥
अथासौ विकसन्नेत्रमनःप्राणवपुर्बभौ ।
अर्धोदित इवादित्ये सरः स्फुरितपङ्कजम् ॥१९॥
अस्मिन्नवसरे यावद्बुध्यस्वेत्यवदद्विभुः ।
प्रबुद्धस्तावदेषोऽभूद्बर्ही घनरवादिव ॥२०॥
प्रफुल्लनयनं जातमननं पीवरस्मृतिम् ।
उवाचैनं त्रिलोकेशः पुरा नाभ्यब्जजं यथा ॥२१॥
साधो स्मर महालक्ष्मीमात्मीयां स्मर चाकृतिम् ।
अकाण्ड एव किं देहविरामः क्रियते त्वया ॥२२॥
हेयोपादेयसंकल्पविहीनस्य शरीरगैः ।
भावाभावैस्तवार्थः किमुत्तिष्ठोत्तिष्ठ संप्रति ॥२३॥
स्थातव्यमिह देहेन कल्पं यावदनेन ते ।
वयं हि नियतिं विद्मो यथाभूतामनिन्दिताम् ॥२४॥
जीवन्मुक्तेन भवता राज्य एवेह तिष्ठता ।
क्षेपणीया गतोद्वेगमाकल्पान्तमियं तनुः ॥२५॥
तन्वां कल्पान्तशीर्णायां स्वे महिम्नि त्वयानघ ।
वस्तव्यं स्फुटिते कुम्भे कुम्भाकाशेन खे यथा ॥२६॥
कल्पान्तस्थायिनी शुद्धा दृष्टलोकपरावरा ।
इयं तव तनुर्जाता जीवन्मुक्तविलासिनी ॥२७॥
नोदिता द्वादशादित्या न प्रलीनाः शिलोच्चयाः ।
न जगज्ज्वलितं साधो तनुं त्यजसि किं मुधा ॥२८॥
वायुर्वहति नोन्मत्तस्त्रिलोकीभस्मधूसरः ।
लोलामरकपालाङ्कस्तनुं त्यजसि किं मुधा ॥२९॥
अशोक इव मञ्जर्यः पुष्करावर्तविद्युतः ।
न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा ॥३०॥
धरासाररणच्छैलाः प्रज्वलज्ज्वलनोज्ज्वलाः।
ककुभो न विशीर्यन्ते तनुं त्यजसि किं मुधा ॥३१॥
न ब्रह्मविष्णुरुद्राख्यत्रयीशेषमिदं स्थितम् ।
जगज्जरठजीमूतं तनुं त्यजसि किं मुधा ॥३२॥
न चेहाद्रिदलश्रेणिमात्रैकानुमितान्तराः ।
दिशो जर्जरतां यातास्तनुं त्यजसि किं मुधा ॥३३॥
स्फुटदद्रीन्द्रटंकाराः कराः सौरा भ्रमन्ति खे ।
कल्पाभ्राणि न गर्जन्ति तनुं त्यजसि किं मुधा ॥३४॥
अहं भूतावकीर्णासु सालोकासु खगध्वजः ।
विहरामि दशाशासु मा देहमवधीरय ॥३५॥
इमे वयमिमे शैला भूतानीमान्ययं भवान् ।
इदं जगदिदं व्योम मा देहमवधीरय ॥३६॥
पीवराज्ञानयोगेन यस्य पर्याकुलं मनः ।
दुःखानि विनिकृन्तन्ति मरण तस्य राजते ॥३७॥
कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।
मतिं यस्यावलुम्पन्ति मरणं तस्य राजते ॥३८॥
आशापाशनिबद्धोऽन्तरितश्चेतश्च नीयते ।
यो विलोलमनोवृत्त्या मरणं तस्य राजते ॥३९॥
यस्य तृष्णाः प्रभञ्जन्ति हृदयं हृतभावनाः ।
प्ररोहमिव गर्धेभ्यो मरणं तस्य राजते ॥४०॥
चित्तवृत्तिलता यस्य तालोत्तालमनोवने ।
फलिता सुखदुःखाभ्यां मरणं तस्य राजते ॥४१॥
रोमराजीलताजालं यस्येमं देहदुर्द्रुमम् ।
अनर्थौघो हरत्युच्चैर्मरणं तस्य राजते ॥४२॥
यस्य स्वदेहविपिनमाधिव्याधिदवाग्नयः ।
दहन्ति लोलाङ्गलतं मरणं तस्य राजते ॥४३॥
कामकोपात्मका यस्य स्फूर्जन्त्यजगरास्तनौ ।
अन्तःशुष्कद्रुमस्येव मरण तस्य राजते ॥४४॥
योऽयं देहपरित्यागस्तल्लोके मरणं स्मृतम् ।
न सता नासता तेन कारणं वेद्यवेदनम् ॥४५॥
यस्य नोत्क्रामति मतिः स्वात्मतत्त्वावलोकनात् ।
यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते ॥४६॥
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
यः समः सर्वभावेषु जीवितं तस्य राजते ॥४७॥
योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया ।
साक्षिवत्पश्यतीदं हि जीवितं तस्य राजते ॥४८॥
येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता ।
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते ॥४९॥
अवस्तुसदृशे वस्तुन्यसक्तं कलनामले ।
येन लीनं कृतं चेतो जीवितं तस्य शोभते ॥५०॥
सत्यां दृष्टिमवष्टभ्य लीलयेयं जगत्क्रिया ।
क्रियतेऽवासनं येन जीवितं तस्य राजते ॥५१॥
नान्तस्तुष्यति नोद्वेगमेति यो विहरन्नपि ।
हेयोपादेयसंप्राप्तौ जीवितं तस्य शोभते ॥५२॥
शुद्धपक्षस्य शुद्धस्य हंसौघः सरसो यथा ।
यस्माद्गुणौघो निर्याति जीवितं तस्य शोभते ॥५३॥
यस्मिन्श्रुतिपथं प्राप्ते दृष्टे स्मृतिमुपागते ।
आनन्दं यान्ति भूतानि जीवितं तस्य शोभते ॥५४॥
यस्योदयेषु हृदयेन जनाम्बुजानि
जीवालिमन्ति सकलानि विलासवन्ति ।
तस्यैव भाति परिजीवितमक्षयेन्दो-
रापूर्णतेव दनुजेश्वर नेतरस्य ॥५५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षो० उपशमप्रकरणे प्रह्लादनिर्वाणे नारायणवचनोपन्यासो नामेकोनचत्वारिंशः सर्गः ॥३९॥

N/A

References : N/A
Last Updated : September 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP