संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ६८ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ६८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६८ Translation - भाषांतर श्रीराम उवाच ।कीदृशो भगवन्सङ्गः कथं बन्धाय वा नृणाम् ।कश्च मोक्षाय कथितः कथं वैष चिकित्स्यते ॥१॥श्रीवसिष्ठ उवाच ।देहदेहिविभागैकपरित्यागेन भावनात् ।देहमात्रे तु विश्वासः सङ्गो बन्धार्ह उच्यते ॥२॥अनन्तस्यात्मतत्त्वस्य सपर्यन्तत्वनिश्चये ।यत्सुखार्थित्वमन्तः स सङ्गो बन्धार्ह उच्यते ॥३॥सर्वमात्मेदमखिलं किं वाञ्छामि त्यजामि किम् ।इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितिम् ॥४॥नाहमस्मि न चान्योऽस्ति मा भवन्तु भवन्तु वा ।सुखान्यसक्त इत्यन्तः कथ्यते मुक्तिभाङ्नरः ॥५॥नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते ।सुसमो यः फलत्यागी सोऽसंसक्त इति स्मृतः ॥६॥आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः ।यस्य नायात्यसक्तोऽसौ जीवन्मुक्तः स कथ्यते ॥७॥सर्वकर्मफलादीनां मनसैव न कर्मणा ।निपुणं यः परित्यागी सोऽसंसक्त इति स्मृतः ॥८॥असंसङ्गेन सकलाश्चेष्टा नाना विजृम्भिताः ।चिकित्सिता भवन्तीह श्रेयः संपादयन्ति च ॥९॥संसक्तिवशतः सर्वे वितता दुःखराशयः ।प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत् ॥१०॥रज्जुकृष्टघनघ्राणो यद्गत्या पथि गर्दभः ।भारं वहति भीतात्मा तत्संसक्तिविजृम्भितम् ॥११॥शीतवातातपक्लेशमेकदेशनिषण्णया ।तरुर्वहति यत्तन्वा तत्संसक्तिविजृम्भितम् ॥१२॥धराविवरनिर्मग्नो यत्कीटः पीडिताङ्गकः ।क्षिणोति विकलः कालं तत्संसक्तिविजृम्भितम् ॥१३॥क्षुत्क्षामकुक्षिः क्षपयत्यायुर्व्याघातभीरुधीः ।पक्षी वृक्षशिखाशायी तत्संसक्तिविजृम्भितम् ॥१४॥दूर्वाङ्कुरतृणाहारः किरातशरपीडया ।जहाति यन्मृगो देहं तत्संसक्तिविजृम्भितम् ॥१५॥कृमिकीटत्वमायान्ति जायमानाः पुनःपुनः ।यदिमा जनता जीर्णास्तत्संसक्तिविजृम्भितम् ॥१६॥उत्पत्त्योत्पत्त्य लीयन्ते तरङ्गिणि तरङ्गवत् ।भूतानि यदनन्तानि तत्संसक्तिविजृम्भितम् ॥१७॥वीरुत्तृणदशां याता म्रियन्ते यत्पुनःपुनः ।नरा विगतसंचारास्तत्संसक्तिविजृम्भितम् ॥१८॥रसातलरसायोगात्तृणगुल्मलतादयः ।जनयन्ति यदाकारं तत्संसक्तिविजृम्भितम् ॥१९॥स्वानर्थान्तरसंकाशपदार्थशतसंकुला ।यत्संसारनदी मत्ता तत्संसक्तिविजृम्भितम् ॥२०॥संसक्तिर्द्विविधा प्रोक्ता वन्द्या वन्ध्या च राघव ।वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा ॥२१॥आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा ।भूयः संसारसक्तिर्या दृढा वन्ध्येति कथ्यते ॥२२॥आत्मतत्त्वावबोधेन सत्यभूतविवेकजा ।वन्द्या हि कथ्यते सक्तिर्भूयः संसारवर्जिता ॥२३॥शङ्खचक्रगदाहस्तो देवो विविधयेहया ।वन्द्यसंसक्तिवशतः परिपाति जगत्त्रयम् ॥२४॥अनारतनिरालम्बं व्योम वर्त्मनि पान्थताम् ।वन्द्यसंसक्तिवशतः करोति रविरन्वहम् ॥२५॥महाकल्पसमाधानचिरकल्पितकल्पनम् ।वन्द्यसंसक्तिवशतो ब्राह्मं स्फुरति वै वपुः ॥२६॥लीलया ललनालानलीनं भूतिविभूषितम् ।वन्द्यसंसक्तिवशतः शरीरं शाङ्करं स्थितम् ॥२७॥विज्ञानगतयः सिद्धा लोकपालास्तथेतरे ।वन्द्यसंसक्तिवशतस्तिष्ठन्ति जगतोऽङ्गणे ॥२८॥धत्ते शारीरयन्त्रौघमन्या भुवनसंततिः ।वन्द्यसंसक्तिवशतो जरामृतिविवर्जितम् ॥२९॥मनः पतति भोगेषु गृध्रो मांसलवेष्विव ।वन्द्यसंसक्तिवशतो व्यर्थया रम्यशङ्कया ॥३०॥संसक्तिवशतो वाति वायुर्भुवनकोटरे ।पञ्चभूतानि तिष्ठन्ति वहतीयं जगत्स्थितिः ॥३१॥दिवि देवा भुवि नराः पाताले भोगिनोऽसुराः ।ब्रह्माण्डोदुम्बरफले स्फुरन्मशकवत्स्थिताः ॥३२॥जायन्ते च म्रियन्ते च निपतन्त्युत्पतन्ति च ।भूतानि यदनन्तानि तरङ्गिणि तरङ्गवत् ॥३३॥उत्पत्त्योत्पत्त्य लीयन्ते तत्संसक्तिविजृम्भितम् ।भूतानि विरसं भूयो निर्झराम्बुकणा इव ॥३४॥परस्परनिगीर्णाङ्गा जनता जाड्यजर्जरा ।संभ्रान्ता प्रभ्रमत्यङ्ग शीर्णपर्णमिवाम्वरे ॥३५॥नक्षत्रचक्रं गगने द्रुमे मशकसंततिः ।स्फुरत्यावर्तवृत्त्यैव पातालेऽङ्ग जलौघवत् ॥३६॥पातोत्पातदशाजीर्णं कालबालककन्दुकम् ।अद्यापि न जहातीन्दुर्जलमामलिनं वपुः ॥३७॥नानापारयुगावर्तदुःखालोकनकर्कशम् ।न लुनाति मनःखण्डं दुःखिगीर्वाणमण्डलम् ॥३८॥वासनामात्रवशतः परे व्योमनि केनचित् ।इदमारचितं चित्रं विचित्रं पश्य राघव ॥३९॥मनःसङ्गैकरङ्गेण शून्ये व्योम्नि जगन्मयम् ।यदिदं रचितं चित्रं तत्सत्यं न कदाचन ॥४०॥संसक्तमनसामस्मिन्संसारे व्यवहारिणाम् ।अत्ति तृष्णा शरीराणि तृणान्यग्निशिखा यथा ॥४१॥परिसक्तमतेर्देहान्सिकताः पत्युरम्भसाम् ।कः शक्तः परिसंख्यातुं त्रसरेणुगणं यथा ॥४२॥मुक्तालताया गङ्गाया मेरोरापादमस्तकम् ।तरङ्गमुक्ता गण्यन्ते न देहाः सक्तचेतसाम् ॥४३॥संसक्तमनसामेता रम्यान्तःपुरपङ्क्तयः ।रचिता रौरवा वीचिकालसूत्रादिनामिकाः ॥४४॥सक्तचित्तं जनं दुःखशुष्कमिन्धनसंचयम् ।ज्वलतां नरकाग्नीनां विद्धि तेन ज्वलन्ति ते ॥४५॥दुःखजालमिदं नाम यत्किंचिज्जगतीगतम् ।संसक्तमनसामर्थे तत्सर्वं परिकल्पितम् ॥४६॥संसक्तचित्तमायान्ति सर्वा दुःखपरम्पराः ।जलकल्लोलवलिता महानद्य इवाम्बुधिम् ॥४७॥मनःसंसर्गरूपिण्या भारूभूतशरीरया ।क्षयोदयदशार्थिन्या सर्वं ततमविद्यया ॥४८॥असंसङ्गेन भोगानां सर्वा राम विभूतयः ।परं विस्तारमायान्ति प्रावृषीव महापगाः ॥४९॥अन्तःसंसङ्गमङ्गानामङ्गारं विद्धि राघव ।अनन्तःसङ्गमङ्गानां विद्धि राम रसायनम् ॥५०॥संसङ्गेनान्तरस्थेन दह्यते प्रकृतिः स्वयम् ।स्वकलोत्थे नैरकाङ्क्षी पावकेन यथौषधिः ॥५१॥सर्वत्रासक्तमाशान्तमनन्तमिव संस्थितम् ।असत्कल्पं सदाभासं सुखायैव मनो भवेत् ॥५२॥विद्यादृशि प्रोदयमागतेन क्षयं त्वविद्याविषये गतेन ।सर्वत्र संसक्तिविवर्जितेन स्वचेतसा तिष्ठति यः स मुक्तः ॥५३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सङ्गविचारयोगोपदेशो नामाष्टषष्टितमः सर्गः ॥६८॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP