संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ३५ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ३५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३५ Translation - भाषांतर प्रह्लाद उवाच ।ओमित्येकोचिताकारो विकारपरिवर्जितः ।आत्मैवायमिदं सर्वं यत्किंचिज्जगतीगतम् ॥१॥मेदोस्थिमांसमज्जासृगतीतोऽप्येष चेतनः ।अन्तरस्थो हि सूर्यादीन्प्रकाशयति दीपकः ॥२॥उष्णीकरोति दहनं रसयत्यमृतं रसम् ।इन्द्रियानुभवान्भुङ्कते भोगानिवमहीपतिः ॥३॥तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति ।शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ॥४॥पूर्वमद्य तथेदानीमिहामुत्रोभयत्र च ।विहितोऽविहितोऽप्येष समः सर्वासु वृत्तिषु ॥५॥उद्भवत्यभयो भावं भुवनानि ततस्ततः ।ब्रह्मादितृणपर्यन्तं जगदावर्तयन्स्थितः ॥६॥नित्यस्पन्दमयो नित्यमपि देवात्सदागतेः ।स्थाणोरप्यक्रियो नित्यमाकाशादप्यलेपकः ॥७॥मनांसि क्षोभयत्येष पल्लवानीव मारुतः ।वाहयत्यक्षपङ्कतिं स्वामश्वालीमिव सारथिः ॥८॥अतिदुर्विधवद्देहगेहे कर्मरतः सदा ।सम्राडिवात्मनि स्वस्थः संस्थितो भोगभुग्विभुः ॥९॥एष एव सदाऽन्विष्यः स्तुत्यो ध्यातव्य एव तु ।जरामरणसंमोहादनेनोत्तीर्य गम्यते ॥१०॥सुलभश्चायमत्यन्तं सुजेयश्चाप्तबन्धुवत् ।शरीरपद्मकुहरे सर्वेषामेव षट्पदः ॥११॥अनाक्रुष्टोऽप्यनाहूतः स्वदेहादेव लभ्यते ।मनागेवोपहूतोऽपि क्षणाद्भवति सन्मुखः ॥१२॥नास्य संसेव्यमानस्य सर्वसंपत्तिशालिनः ।धनानामीश्वरस्येव स्मयो गर्वो यथा भवेत् ॥१३॥आमोद इव पुष्पेषु तैलं तिलकणेष्विव ।रसजातिष्विवास्वादो देवो देहेषु संस्थितः ॥१४॥अविचारवशादेष हृदयस्थोऽपि चेतनः ।न ज्ञायते चिरादृष्टो दृष्टबन्धुरिवाग्रतः ॥१५॥विचारणापरिज्ञात एतस्मिन्परमेश्वरे ।अभ्युदेति परानन्दो लब्धे प्रियजने यथा ॥१६॥अस्मिन्दृष्टे परे बन्धावुद्दामानन्ददायिनि ।आयान्ति दृष्टयस्तास्ता याभिर्भङ्गो विलीयते ॥१७॥त्रुट्यन्ते सर्वतः पाशाः क्षीयन्ते सर्वशत्रवः ।न कृन्तन्ति मनांस्याशा गृहाणीव दुराखवः ॥१८॥अस्मिन्दृष्टे जगद्दृष्टं श्रुतेऽस्मिन्सकलं श्रुतम् ।स्पृष्टेचास्मिञ्जगत्स्पृष्टं स्थितेऽस्मिन्संस्थितं जगत् ॥१९॥एष जागर्ति सुप्तानां प्रहरत्यविवेकिनाम् ।हरत्यापदमार्तानां वितरत्यमहात्मनाम् ॥२०॥विचरत्येष लोकेषु जीव एव जगत्स्थितौ ।विलसत्येव भोगेषु प्रस्फुरत्येव वस्तुषु ॥२१॥आत्मनात्मानमेवातः शान्तेनानुभवन्भवी ।स्थितः सर्वेषु देहेषु तीक्ष्णत्वं मरिचेष्विव ॥२२॥चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः ।जगत्पदार्थसंभारे सत्तासामान्यमास्थितः ॥२३॥एष शून्यत्वमाकाशे स्पन्द एष सदागतौ ।प्रकाशश्चैव तेजस्तु पयस्स्वेष रसः परः ॥२४॥काठिन्यमवनावेवमौष्ण्यमेव हुताशने ।शैत्यमेष निशानाथे सत्ता चैष जगद्गणे ॥२५॥मषीपिण्डे यथा कार्ष्ण्यं शैत्यं हिमकणे यथा ।यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस्तथा ॥२६॥यथा सर्वगता सत्ता कालः सर्वगतो यथा ।प्रभुशक्तिर्मही यस्य सर्वदेशगता यथा ॥२७॥रूपालोकमनस्कारयुक्तं सत्त्वं तथात्मनः ।नित्यः सोऽयं महादेवो देवानामेव बोधकः ॥२८॥अहमेवास्मि मे नास्ति कलनापि किलेतरा ।रेणुनेवाणुना व्योम्नि पद्मपत्रमिवाम्भसा ॥२९॥संभ्रमेणेव पाषाणे संबन्धो मयि नेतरैः ।सुखदुःखश्रियो देहे मा पतन्तु पतन्तु वा ॥३०॥तुम्बकोपरि धाराश्च का नः क्षतिरुपस्थिता ।दीपाङ्गातिगतो रज्वा नालोको बध्यते यथा ॥३१॥तथा नायमहं बद्धः सर्वभावगणातिगः ।संबन्धः कोऽस्तु नः कामैर्भावाभावैरथेन्द्रियैः ॥३२॥केन संबध्यते व्योम केन संबाध्यते मनः ।शरीरे शतधा याते खण्डना का शरीरिणः ॥३३॥कुम्भे भग्ने क्षते क्षीणे कुम्भाकाशस्य का क्षतिः ।पिशाचक इवादृश्यो मनो नामोदितं मुधा ॥३४॥जडे तस्मिन्क्षते बोधात्का नः क्षतिरुपस्थिता ।सुखदुःखमयी यस्य वासना तन्मनो मम ॥३५॥अभवत्पूर्वमद्यैका संपन्नाऽतनुनिर्वृतिः ।अन्यो भुङ्क्तेऽन्य आदत्तेऽप्यन्यस्यानर्थसंकटः ॥३६॥अन्यः पश्यत्यहो मौर्ख्यं कस्येयं खलु चक्रिका ।भुङ्क्ते प्रकृतिरादत्ते मनोदेहस्य संकटः ॥३७॥दुष्टात्मा मौर्ख्यमस्तीह न किंचित्केवले क्षतिः ।न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने ॥३८॥यदायाति तदायातु यत्प्रयाति प्रयातु तत् ।सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु ॥३९॥सुखदुःखान्युपायान्तु यान्तु वाप्यहमेषु कः ।वासना विविधा देहे त्वस्तं चोदयमेव वा ॥४०॥प्रयान्तु नाहमेतासु न चैता मम काश्चन ।एतावन्तमहं कालमज्ञानरिपुणा हतः ॥४१॥हृत्वा विवेकसर्वस्वमेकान्तमवपोथितम् ।वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा ॥४२॥इदानीं संपरिज्ञाय मयैष परिमोषितः ।अहंकारपिशाचोऽयं शरीरतरुकोटरात् ॥४३॥परावबोधमन्त्रेण मयेदानीमपाकृतः ।निरहंकारयक्षोऽयं मच्छरीरमहाद्रुमः ॥४४॥पुण्यतामलमायातः प्रफुल्ल इव राजते ।प्रशान्तमोहदारिद्र्यो दुराशादोषसंक्षये ॥४५॥विवेकधनसंभारान्स्थितोऽस्मि परमेश्वरः ।ज्ञातं ज्ञातव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः ॥४६॥तत्प्राप्तमधुना येन नाप्राप्तमवशिष्यते ।दिष्ट्या दूरोज्झितानर्थामपेतविषयोरगाम् ॥४७॥संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम् ।रजोरहितसर्वाशां शीतलोपशमद्रुमाम् ॥४८॥प्राप्तोऽस्मि विततां भूमिमुन्नतां पारमार्थिकीम् ।स्तुत्या प्रणत्या विज्ञप्त्या शमेन नियमेन च ॥४९॥लब्धोऽयं भगवानात्मा दृष्टश्चाधिगतः स्फुटम् ।अहंकारपदातीतश्चिरात्संस्मृतिमागतः ॥५०॥स्वभावाद्भगवानात्मा विष्णोर्ब्रह्म सनातनम् ।इन्द्रियोरगगर्तेषु मरणश्वभ्रभूमिषु ॥५१॥तृष्णाकरञ्जकुञ्जेषु कामकोलाहलेषु च ।वासनावनजालेषु जन्मकूपान्तरेषु च ॥५२॥दुःखदावाग्निदाहेषु दुःखदावाग्निहारिषु ।पातोत्पातदशालक्षैर्मज्जनोन्मज्जनभ्रमैः ॥५३॥आविर्भावतिरोभावैराशापाशविचेष्टनैः ।अहं चिरमहंकारद्विषा समवमोषितः ॥५४॥निशायामल्पवीर्यात्मा पिशाचेनेव जङ्गले ।स्वयमेव त्वथेदानीं क्रियाशक्त्या स्वयैव हि ॥५५॥शौरिणा व्यपदेशेन विवेकश्रीर्विबोधिता ।प्रबुद्धे भवतीशाने तमहंकारराक्षसम् ॥५६॥न पश्यामि नभोदीपे ज्वलिते तिमिरं यथा ।तस्याहंकारयक्षस्य मनोविवरवासिनः ॥५७॥दीपस्येव प्रशान्तस्य न वेद्मि गतिमीश्वरः ।दृष्ट एव त्वयीशाने पलायनपरायणः ॥५८॥संपन्नो मदहंकारश्चोरः सूर्योदये यथा ।असदभ्युत्थिते तस्मिन्नहंकारे पिशाचवत् ॥५९॥गते तिष्ठाम्यहं स्वस्थो निर्गोनस इव द्रुमः ॥शाम्यामि परिनिर्वामि जगत्यस्मिन्प्रबोधवान् ॥६०॥तस्करेणोज्झितोऽस्मीति निवृर्तोऽस्मि चिरोदयम् ।शैत्यमभ्यागतोस्म्यन्तः शान्ताशामृगतृष्णिकः ॥६१॥प्रावृडम्बुभरस्नातः शान्तदाव इवाचलः ।प्रमार्जितेहमित्यस्मिन्पदे स्वार्थविचारतः ॥६२॥को मोहः कानि दुःखानि काः कदाशाः क आधयः ।नरकस्वर्गमोक्षादिभ्रमाः सत्यामहंकृतौ ॥६३॥भित्तावेव प्रवर्तन्ते चित्रेहा न नभस्तले ।अहंकारकलापित्ते चित्ते ज्ञानचमत्कृतिः ।न राजतेंऽशुके म्लाने यथा कुङ्कुमरञ्जना ॥६४॥निरहंकारजलदे तृष्णासारविवर्जिते ।भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी ॥६५॥निरहंकारपङ्काय संप्रसन्नान्तराय च ।मह्यमानन्दसरसे तुभ्यमात्मन्नमो नमः ॥६६॥शान्तेन्द्रियोग्रग्राहाय क्षीणचित्तौर्ववह्नये ।आनन्दाम्बुधये तुभ्यं मह्यमात्मन्नमो नमः ॥६७॥गताहंकारमेघाय शान्ताशादाववह्नये ।मह्यमानन्दशैलाय विभ्रान्ताय नमो नमः ॥६८॥प्रफुल्लानन्दपद्माय शान्तचिन्तामयोर्मवे ।मह्यं सन्मानसायात्मंस्तुभ्यमन्तर्नमो नमः ॥६९॥संविदाभासपक्षाय पद्मकोटरवासिने ।सर्वमानसहंसाय स्वात्मनेऽन्तर्नमो नमः ॥७०॥कलाकलितरूपाय निष्कलायामृतात्मने ।सदोदिताय पूर्णात्मन् शशिने ते नमो नमः ॥७१॥सदोदिताय शान्ताय महाहृद्ध्वान्तहारिणे ।सर्वगायाप्यदृश्याय चित्सूर्याय नमो नमः ॥७२॥अस्नेहस्नेहदीपाय वृत्तिनिष्क्रान्तवर्तिने ।स्वभावाधारधीराय चिद्दीपाय नमो नमः ॥७३॥मदनानलसंतप्ते शीतेन मनसा मनः ।भग्नमन्तर्मया तप्तमयसेव बलादयः ॥७४॥इन्द्रियेणेन्द्रियं छित्त्वा छित्त्वा च मनसा मनः ।अहंकृतिमहंकृत्या छित्त्वा शेषो जयाम्यहम् ॥७५॥भावेनाभावमाच्छिद्य हित्वा तृष्णामतृष्णया ।निष्पिष्य प्रज्ञयाऽप्रज्ञां ज्ञोऽज्ञः सत्योसि ते नमः ॥७६॥मनसा मनसि च्छिन्ने निरहंकारतां गते ।भावेन गलिते भावे स्वच्छस्तिष्ठामि केवलः ॥७७॥निर्भावं निरहंकारं निर्मनस्कमनीहितम् ।केवलं स्पन्दशुद्धात्मन्येव तिष्ठति मे वपुः ॥७८॥हेलानुकम्पितानन्तविश्वेशादतिशायिनी ।परमोपशमोपेता जातेयं मम निर्वृतिः ॥७९॥प्रशान्तमोहवेतालो गताहंकारराक्षसः ।कदाशारूपिकोन्मुक्तो जातोऽस्मि विगतज्वरः ॥८०॥तृष्णारज्जुगुणं छित्त्वा मच्छरीरकपञ्जरात् ।न जाने क्व गतोड्डीय दुरहंकृतिपक्षिणी ॥८१॥उद्धूलिते घनाज्ञानकुलाये कायपादपात् ।न जाने गत उड्डीय क्वाहंभावविहंगमः ॥८२॥दुराशादीर्घदौरात्म्यधूसरा भोगभस्मना ।भयभोगिहिता दिष्ट्या भूयस्यो वासनाः क्षताः ॥८३॥एतावन्तमहं कालं कोऽभूवं चित्रमीदृशम् ।येनाहमेष मिथ्यैव दृढाहंकारतां गतः ॥८४॥अद्याहमस्मि जातोऽयमहमद्य महामतिः ।अहंकारमहाभ्रेण यत्कृष्णेनालमुज्झितः ॥८५॥दृष्टोऽयमात्मा भगवांस्तथैवाधिगतो मया ।आलब्धश्चानुभूतोऽङ्गं स्वानुभूतौ नियोजितः ॥८६॥गतास्पदं गतमननं गतैषणंतिरस्कृतं निपुणमहंकृतिभ्रमैः ।निरीहितं व्यपगतरागरञ्जनंविकौतुकं प्रशममिदं गतं मनः ॥८७॥दुरुत्तराः समविषमा महापदःसुदुःसहाः प्रभवनदीर्घदोषदाः ।गताः क्षयं समधिगतो महेश्वर-श्चिदद्वयोऽपगतमचित्त्वमन्तरे ॥८७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे ब्रह्मात्मचिन्ता नाम पञ्चत्रिंशः सर्गः ॥३५॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP