संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ६७ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ६७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् ।कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ ॥१॥ततो वच्मि महाबाहो यथा ज्ञानेतरा गतिः ।नास्ति संसारतरणे पाशबन्धस्य चेतसः ॥२॥इदं भव्यमतेर्दुःखमनन्तमपि पेलवम् ।कुखगस्याऽतरोऽम्भोधिः सर्पारेर्गोष्पदायते ॥३॥देहातीता महात्मानश्चिन्मात्रस्वात्मनि स्थिताः ।दूराद्देहं समीक्षन्ते प्रेक्षको जनतामिव ॥४॥देहे दुःखातिसंक्षुब्धे का नः क्षतिरुपस्थिता ।रथे विधुरिते भग्ने सारथेः केव खण्डना ॥५॥मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किमागतम् ।तरङ्गजलसंताने वैपरीत्यं किमम्बुधेः ॥६॥केऽभवन्पयसां हंसाः पयसामुपलाश्च के ।काः शिलाः किल दारूणां के भोगाः परमात्मनः ॥७॥संबन्धः क इव श्रीमन् शैलापरसमुद्रयोः ।अन्तरे गिरिसंबाधे कश्च चित्तत्त्वबन्धयोः ॥८॥अप्युत्सङ्गोह्यमानानि पद्मानि सरिदम्भसाम् ।कानि नाम भवन्तीह शरीराणि तथात्मनः ॥९॥संघट्टात्काष्ठपयसोर्यथोत्तुङ्गाः कणादयः ।देहात्मनोः समायोगात्तथैताश्चित्तवृत्तयः ॥१०॥संबन्धाद्दारुपयसां प्रतिबिम्बानि दारुणः ।यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि ॥११॥यथा दर्पणवीच्यादौ प्रतिबिम्बानि वस्तुतः ।नासत्यानि च सत्यानि शरीराणि तथात्मनः ॥१२॥दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् ।संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः ॥१३॥दारुसंश्लेषितात्तोयात्कम्पशब्दादयो यथा ।प्रजायन्ते तथैवास्माद्देहाच्चित्परिबोधितात् ॥१४॥न शुद्धजडयोरेताः संविदश्चिच्छरीरयोः ।एता ह्यज्ञानमात्रस्य तस्मिन्नष्टे चिदेव नः ॥१५॥यथा न कस्यचिद्वारिदारुश्लेषेऽनुभूतयः ।तथा न कस्यचिद्देहदेहिसङ्गेऽनुभूतयः ॥१६॥अज्ञस्यायं यथा दृष्टः संसारः सत्यतां गतः ।न ज्ञस्यायं यथाभूतः संसारः सत्यतां गतः ॥१७॥अन्तःसङ्गविहीनास्तु यथा स्नेहा दृषज्जले ।तथासक्तमनोवृत्तौ बाह्यभोगानुभूतयः ॥१८॥अन्तःसङ्गेन रहितो यद्वत्सलिलकाष्ठयोः ।संबन्धस्तद्वदेवान्तरसङ्गो देहदेहिनोः ॥१९॥अन्तःसङ्गेन रहितः संबन्धो जलकाष्ठयोः ।स देहदेहिनोश्चैवं प्रतिबिम्बाम्भसोस्तथा ॥२०॥स्थिता सर्वत्र संवित्तिः शुद्धा संवेद्यवर्जिता ।द्वित्वोपलाञ्छिता त्वन्या दुःसंवित्तिर्न विद्यते ॥२१॥अदुःखमेति दुःखित्वमन्तःसंवेदना स्फुटम् ।स्फारो भवति वेतालो वेतालत्वेन भावितः ॥२२॥असंबन्धोऽपि संबन्धो भवत्यन्तर्विनिश्चयात् ।स्वप्नाङ्गनासुरतवत्स्थाणुवेतालसङ्गवत् ॥२३॥असत्प्रायो हि संबन्धो यथा सलिलकाष्ठयोः ।तथैव मिथ्यासंबन्धः शरीरपरमात्मनोः ॥२४॥अन्तःसङ्गं विना नाम्बु काष्ठपातैः प्रगृह्यते ।आत्माऽङ्गसङ्गरहितो देहदुःखैर्न दह्यते ॥२५॥देहभावनयैवात्मा देहदुःखवशे स्थितः ।तत्त्यागेन ततो मुक्तो भवतीति विदुर्बुधाः ॥२६॥अन्तःसङ्गविहीनत्वाद्दुःखवन्त्यङ्ग नो यथा ।पत्राम्बुमलदारूणि श्लिष्टान्यपि परस्परम् ॥२७॥अन्तःसङ्गेन रहिता यान्ति निर्दुःखतां पराम् ।श्लिष्टान्यपि तथैवात्मदेहेन्द्रियमनांस्यलम् ॥२८॥अन्तःसङ्गो हि संसारे सर्वेषां राम देहिनाम् ।जरामरणमोहानां तरूणां बीजकारणम् ॥२९॥अन्तःसंसङ्गवाञ्जन्तुर्मग्नः संसारसागरे ।अन्तःसंसक्तिमुक्तस्तु तीर्णः संसारसागरात् ॥३०॥अन्तःसंसङ्गवच्चित्तं शतशाखमिवोच्यते ।अन्तःसंसङ्गरहितं विलीनं चित्तमुच्यते ॥३१॥भग्नस्फटिकवद्विद्धि मनः सक्तमपावनम् ।अभग्नस्फटिकाभासमसक्तं विद्धि मे मनः ॥३२॥असक्तं निर्मलं चित्तं मुक्तं संसार्यपि स्फुटम् ।सक्तं तु दीर्घतपसा युक्तमप्यतिबन्धवत् ॥३३॥अन्तःसक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् ।अन्तःसंसक्तिरेवैकं कारणं बन्धमोक्षयोः ॥३४॥अन्तःसंसक्तिमुक्तस्य कुर्वतोऽपि न कर्तृता ।गुणदोषवती तोये दारुवाहननौर्यथा ॥३५॥अन्तःसंसक्तितो जन्तोरकर्तुरपि कर्तृता ।सुखदुःखवति स्वप्ने संभ्रमोन्मुखता यथा ॥३६॥चित्ते कर्तरि कर्तृत्वमदेहस्यापि विद्यते ।स्वप्नादाविव विक्षुब्धसुखदुःखदृशोपमम् ॥३७॥अकर्तरि मनस्यन्तरकर्तृत्वं स्फुटं भवेत् ।शून्यचित्तो हि पुरुषः कुर्वन्नपि न चेतति ॥३८॥चेतसा कृतमाप्नोषि चेतसा न कृतं तु न ।न क्वचित्कारणे देहो न च चित्तेन कर्तृता ॥३९॥असंसक्तमकर्तेव कुर्वदेव मनो विदुः ।न कर्मफलभोक्तृत्वमसक्तं प्रतिपद्यते ॥४०॥ब्रह्महत्याश्वमेधाभ्यामसंसक्तो न लिप्यते ।दूरस्थकान्तासंलीनमनाः कार्यैरिवाग्रगैः ॥४१॥अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।बहिःकुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥४२॥अन्तःसंसक्तिमुक्तं यन्मनः स्यात्तदकर्तृकम् ।तद्विमुक्तं प्रशान्तं तत्तद्युक्तं तदलेपकम् ॥४३॥तस्मात्सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः ।सर्वदुःखकरीं क्रूरामन्तःसक्तिं विवर्जयेत् ॥४४॥विरहितमलमन्तःसङ्गदोषेण चेतःशममुपगतमाद्यं व्योमवन्निर्मलाभम् ।सकलमलविमुक्तेनात्मनैकत्वमेतिस्थिरमणिनिभमम्भोवारिणी वारिनीले ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे अन्तःसंसङ्गविचारो नाम सप्तषष्टितमः सर्गः ॥६७॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP