संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ८० उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ८० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८० Translation - भाषांतर श्रीवसिष्ठ उवाच ।इदमन्तः कलयतो भोगान्प्रति विवेकिनः ।पुरःस्थितानपि सदा स्पृहैवाङ्ग न जायते ॥१॥चक्षुरालोकनायैव जीवस्तु सुखदुःखयोः ।भारायैव बलीवर्दो भोक्ता द्रव्यस्य नायकः ॥२॥नयने रूपनिर्मग्ने क्षोभः क इव देहिनः ।गर्दभे पल्वले मग्ने कैव सेनापतेः क्षतिः ॥३॥रूपकर्दममेतन्मानयनास्वादयाधम ।नश्यत्येतन्निमेषेण भवन्तमपि हिंसति ॥४॥येनैव संख्या क्रियते येनैवाऽस्वाऽनुगम्यते ।तदीयैः कर्मभिः क्षिप्रं प्राज्ञः क्रूरो निबध्यते ॥५॥उत्पन्नध्वंसि चापातमात्रहृद्यमसन्मयम् ।रूपमाश्रय मा नेत्र विनाशायाविनाशिने ॥६॥साक्षिवत्त्वं स्थितं नेत्र रूपमात्मनि तिष्ठति ।आलोकं कालवशतस्त्वमेकं किं प्रतप्यसे ॥७॥सलिलस्पन्दवद्दृष्टिः पिच्छिकेवाम्बरोत्थिता ।सुजातिबन्धा स्फुरति तव चित्त किमागतम् ॥८॥कल्पाम्भसीव शफरी चित्ते स्फुरणधर्मिणि ।स्वयं स्फुरत्यहंकारस्त्वमयं प्रोत्थितः कुतः ॥९॥आलोकरूपयोर्नित्यं जडयोः स्फुरतोर्मिथः ।आधाराधेययोश्चित्तं व्यर्थमाकुलता तव ॥१०॥रूपालोकमनस्काराः परस्परमसङ्गिनः ।संपन्ना इव लक्ष्यन्ते वदनादर्शबिम्ववत् ॥११॥अज्ञानजन्तुना ह्येते श्लिष्टा जाता निरन्तराः ।अज्ञाने ज्ञानगिलिते पृथक्तिष्ठन्त्यसन्मयाः ॥१२॥मनःकल्पनया ह्येते सुसंबद्धाः परस्परम् ।रूपालोकमनस्कारा दारुणी जतुना यथा ॥१३॥स्वमनोमननं तन्तुर्मनोभ्यासेन यत्नतः ।विचाराच्छेदमायाति च्छिन्नैवाज्ञानभावना ॥१४॥अज्ञानसंक्षयात्क्षीणे मनसीमे पुनर्मिथः ।रूपालोकमनस्काराः संघट्टन्ते न केचन ॥१५॥सर्वेषां चित्तमेवान्तरिन्द्रियाणां प्रबोधकम् ।तदेव तस्मादुच्छेद्यं पिशाच इव मन्दिरात् ॥१६॥चित्त वल्गसि मिथ्यैव दृष्टोऽन्तो भवतो मया ।आद्यन्तयोः सुतुच्छं त्वं वर्तमाने विनश्यसि ॥१७॥मुधा पञ्चभिराकारैः किमन्तः परिवल्गसि ।यस्त्वां स्वमिति जानाति तस्यैव परिवल्गसि ॥१८॥त्वद्वल्गनं मे कुमनो न मनागपि तुष्टये ।मायामनःस्पन्द इव व्यर्थं वृत्तिषु दह्यसे ॥१९॥तिष्ठ वा गच्छ वा चित्त नासि मे न च जीवसि ।प्रकृत्यासि मृतं नित्यं विचारात्सुमृतं स्मृतम् ॥२०॥निस्तत्त्वं त्वं जडं भ्रान्तं शठं नित्यमृताकृते ।मूढ एव त्वयाज्ञेन बाध्यो न प्रविचारवान् ॥२१॥वयमज्ञातवन्तस्त्वां मौर्ख्येणाशु मृतं भवत् ।मृतमस्माकमद्यासि दीपानां तिमिरं यथा ॥२२॥शठेन भवता दीर्घकालं देहगृहं मम ।उपरुद्धमभूत्सर्व साधुसंसर्गवर्जितम् ॥२३॥जडे प्रेतसमाकारे गते त्वयि मनःशठे ।सर्वसज्जनसंसेव्यमिदं देहगृहं मम ॥२४॥पूर्वमेवासि नासीस्त्वं संप्रत्येव शठं जगत् ।न भविष्यसि चेदानीं वेताल किं न लज्जसे ॥२५॥सह तृष्णापिशाचीभिः सह कोपादिगुह्यकैः ।निर्गच्छ चित्तवेताल शरीरसदनान्मम ॥२६॥दिष्ट्या विवेकमात्रेण निर्गतो देहमन्दिरात् ।प्रमत्तश्चित्तवेतालः कुवृकः कन्दरादिव ॥२७॥अहो नु चित्रं सुमहज्जडेन क्षणभङ्गिना ।मनःशठेन सर्वोऽयं नीतो विवशतां जनः ॥२८॥कस्ते पराक्रमः किं ते बलं कस्ते समाश्रयः ।यदि वल्गसि मामेकं जनानां बाधसे मृतम् ॥२९॥सर्वथैवासि न मया दीनचित्तक मार्यसे ।मृतमित्यवबुद्धं त्वमद्य केवलमज्ञ हे ॥३०॥एतावन्तमहं कालं त्वां ज्ञात्वा जीवदास्थिति ।श्लिष्टः प्रभूतसङ्गासु चिरं संसृतिरात्रिषु ॥३१॥चित्तं मृतं हि नास्तीदमित्यद्याधिगतं मया ।तेन त्वदाशां संत्यज्य तिष्ठाम्यात्मनि केवलम् ॥३२॥दिष्ट्या चित्तं मृतमिति ज्ञातमद्य मया स्वयम् ।न शठेन समं नेयं समग्रं जीवितं निजम् ॥३३॥उत्सार्य देहसदनान्मनःशठमहं क्षणात् ।अहं स्वस्थः स्थितोऽस्म्यन्तर्वेतालपरिवर्जितः ॥३४॥चित्तवेताललब्धेन चिरं कालं मयात्मना ।कृताविकाराविविधाः स्वयं स्मृत्वा हसाम्यहम् ॥३५॥चिरान्निपातितो दिष्ट्या विचारासिपरार्दितः ।हृद्गेहाच्चित्तवेतालस्तालोत्तालसमुन्नतिः ॥३६॥प्रशान्ते चित्तवेताले पवित्रां पदवीं गते ।दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलम् ॥३७॥मृतं मनो मृता चिन्ता मृतोऽहंकारराक्षसः ।विचारमन्त्रेण समः स्वस्थस्तिष्ठामि केवलम् ॥३८॥किं मनो मे ममाशा का को मेऽहंकारको भवेत् ।दिष्ट्या व्यर्थं कलत्रं मे नष्टमेतदशेषतः ॥३९॥एकस्मै कृतकृत्याय नित्याय विमलात्मने ।निर्विकल्पचिदाख्याय मह्यमेव नमो नमः ॥४०॥न शोकोऽस्ति न मोहोऽस्ति न चैवाहमहं स्वयम् ।नच नाहं नचान्योऽहं मह्यमेव नमो नमः ॥४१॥न ममाशा न कर्माणि न संसारो न कर्तृता ।न भोक्तृता न देहो मे मह्यमेव नमो नमः ॥४२॥नाहमात्मा न वा कोऽन्यो नाहमस्मि न चेतरः ।सर्वमेवाहमेतस्मै मह्यमेव नमो नमः ॥४३॥अहमादिरहं धाता चिदहं भुवनान्यहम् ।मम नास्ति व्यवच्छेदो मह्यमेव नमो नमः ॥४४॥निर्विकाराय नित्याय निरंशाय महात्मने ।सर्वस्मै सर्वकालाय मह्यमेव नमो नमः ॥४५॥नीरूपाय निराख्याय प्रकाशाय महात्मने ।स्वयमात्मैकसंस्थाय मह्यमेव नमो नमः ॥४६॥समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् ।सत्तामुपगतोऽस्म्यन्तर्मह्यमेव नमो नमः ॥४७॥साद्र्यब्ध्युर्वी नदी सेयं नाहमेवाहमेव वा ।जगत्सर्वं पदार्थाढ्यं मह्यमेव नमो नमः ॥४८॥व्यपगतमननं समाभिरामंप्रकटितविश्वमविश्वमप्यनन्तम् ।स्वयमजमजरं गुणादतीतंवपुरहमच्युतमीश्वरं नमामि ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषूपशमप्रकरणे दृश्यदर्शनसंबन्धो नामाशीतितमः सर्गः ॥८०॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP