संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४८ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।लुठितं श्वपचागारे पुनर्विस्मयमाययौ ।गाधेर्मनो हि नायाति तृप्तिमाश्चर्यदर्शने ॥१॥तत्रावलोकयामास स्थानानि सदनानि च ।कल्पक्षोभविवृत्तानि जगन्तीवाम्बुजोद्भवः ॥२॥उवाच स्वात्मनैवेदमरण्ये लुठितालये ।शुष्कास्थिमालावलिते पिशाचक इव द्रुमे ॥३॥इमास्ता मृतमातङ्गदन्तमाला वृतौ कृताः ।अद्यापि संस्थिताः कल्पं प्रतिमेरुशिखा इव ॥४॥इह तद्वानरीमांसं पक्ववंशांकुरैः¬ सह ।भुक्तं पुरासवोन्मत्तैः सह श्वपचबन्धुभिः ॥५॥आलिङ्ग्य श्वपचश्यामामिह केसरिचर्मणि ।सुप्तमापीय मैरेयं तिक्तं गजमदेन च ॥६॥कौलेयककुटुम्बिन्यः पिण्याकपलवर्धिताः ।इह बद्धा वरत्राभिर्मृतेभरदकाष्ठके ॥७॥इह वारणमुक्तानां ददासीत्पिठरत्रयम् ।पिनद्धं माहिषेणोग्रचर्मणाम्बुदशोभिना ॥८॥स्थलीष्वेतासु तास्वत्र सह श्वपचबालकैः ।चिरं विलुठितं चूतपत्रपुञ्जे पिकैरिव ॥९॥अत्र तद्बालनिःश्वासरणद्वंशप्रवृत्तवत् ।गीतं पीतं शुनीरक्तं साधिता शवभूषितः ॥१०॥अत्र सार्धं कुटुम्बेन जन्यत्रेषु कुटुम्बिना ।नृत्तं तत्कृतमुन्नादं कल्लोलैर्जलधाविव ॥११॥अत्रोड्डयनलोलानां काकभासपत्त्रिणाम् ।धृतानामन्यदाशार्थं ग्रथितं वंशपञ्जरम् ॥१२॥श्रीवसिष्ठ उवाच ।एवंप्रायाः स्मरन्गाधिः प्राक्तनीः श्वपचक्रियाः ।विस्मयोत्कम्पितशिरा धातुश्चेष्टां परामृशत् ॥१३॥चचाल तस्माद्दीर्घेण देशात्कालेन कार्यवित् ।भूत्मण्डलमुत्सृज्य प्राप देशान्तरं क्रमात् ॥१४॥समुल्लङ्घ्य नदीशैलमण्डलारण्यसंततिम् ।आससाद तुषाराद्रिरत्नं किल जनास्पदम् ॥१५॥तत्र प्राप महीपालनगरं नगसंनिभम् ।जगद्भ्रमणखिन्नात्मा स्वर्लोकमिव नारदः ॥१६॥अथात्मनानुभूतानि दृष्टान्यासेवितानि च ।स्थानानि नगरे पश्यन्पप्रच्छ जनमादृतः ॥१७॥साधो स्मरसि किंचित्त्वमिह श्वपचमीश्वरम् ।यदि जानासि तत्त्वं मे वर्णयाशु यथाविधि ॥१८॥नागरा ऊचुः ।अभूदिहाष्टौ वर्षाणि श्वपचो भूमिपो द्विज ।राजत्वमर्पितं यस्य नाम मङ्गलहस्तिना ॥१९॥अन्ते च संपरिज्ञातः स प्रविष्टो हुताशनम् ।अद्य द्वादशवर्षाणि समतीतानि तापस ॥२०॥यं यं पृच्छत्यसौ गाधिर्जनं जातकुतूहलः ।तस्य तस्य मुखादेव श्रृणोत्यास्वादयत्यपि ॥२१॥अथापश्यत्पुरे तस्मिन्नृपं सबलवाहनम् ।देवं चक्रधरं विष्णुं मन्दिरान्निर्गतं बहिः ॥२२॥स दृष्ट्वा स्थगिताकाशं चलरेणुपयोधरैः ।प्राक्तनीं राजतां स्मृत्वा समुवाचातिविस्मयः ॥२३॥इमास्ताः कीरकामिन्यः पद्मगर्भोपमत्वचः ।कनकद्रववर्णिन्यो लोलनीलोत्पलेक्षणाः ॥२४॥चामरौघा इमे चन्द्रकरसंपिण्डपाण्डुराः ।स्थिरनिर्झरसंकाशाः काशपुष्पचया इव ॥२५॥कान्ताभिरवधूयन्ते बालव्यजनराजयः ।इमास्ता वनवल्लीभिर्दीप्यमाना इवर्द्धयः ॥२६॥इमास्ता मत्तमातङ्गघटा घटितदिक्तटाः ।संकल्पपादपा मेरोरिव श्रृङ्गपरम्पराः ॥२७॥एते ते यमवारीशकुबेरप्रतिमौजसः ।सामन्ता वासवस्येव लोकपाला महीभृतः ॥२८॥इमास्ताः सर्ववस्त्वोघाः सर्वाभिमतदास्तताः ।कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः ॥२९॥इदं तत्कीरजनताराज्यं प्राग्भुक्तमद्य मे ।आत्मजन्मान्तराचार इव प्रत्यक्षतां गतम् ॥३०॥सत्यं स्वप्न इवायं मे जाग्रद्भूतः पुनः स्थितः ।न जाने किंकृतोत्थाना मायेयं प्रविजृम्भते ॥३१॥अहो नु खलु दीर्घेण मनोमोहेन वल्गता ।वैवश्यमुपनीतोऽहं जालेनेव शकुन्तकः ॥३२॥हा धिक्कष्टमबुद्धं मे मनो वासनया हतम् ।पश्यति भ्रमजालानि विततानि शिशोरिव ॥३३॥एषा हि माया महती तेन मे चक्रधारिणा ।दर्शितेत्यधुना साधु मया स्मृतमखण्डितम् ॥३४॥तदिदानीं तथा यत्नं करिष्ये गिरिकन्दरे ।यथाकुसंभ्रमस्यास्य जाने जन्म तथा स्थितिम् ॥३५॥इति संचिन्त्य नगराद्गाधिस्तस्माज्जगाम ह ।कन्दरं प्राप्य शैलस्य तस्थौ विश्रान्तसिंहवत् ॥३६॥तत्र संवत्सरं सार्धं पयश्चुलुकभोजनम् ।तपश्चक्रे महातेजास्तुष्टये शार्ङ्गधन्वनः ॥३७॥अथास्य पुण्डरीकाक्षः पयोमूर्तिरुपाययौ ।प्रसादमुत्पलश्यामः शरदीव महाहदः ॥३८॥तमाजगाम शैलेन्द्रकन्दरं द्विजमन्दिरम् ।पयोधरवदच्छाच्छच्छविर्व्योमन्यथावसत् ॥३९॥श्रीभगवानुवाच ।गाधे कच्चित्त्वया दृष्टा माया मम गरीयसी ।दृष्टं त्वया जगज्जालचेष्टितं दैष्टिकात्मकम् ॥४०॥चित्ताभिगत एतस्मिन्प्राप्ते सम्यगनिन्दितः ।तपो गिरितटे कुर्वन्किमन्यदभिवाञ्छसि ॥४१॥श्रीवसिष्ठ उवाच ।एवं वदन्तमालोक्य हरिं गाधिर्द्विजोत्तमः ।अर्चां कुसुमपूरेण पादयोः पर्यपूरयत् ॥४२॥दत्त्वार्ध्यं कीर्णकुसुमः प्रणम्याशु प्रदक्षिणैः ।विष्णुमाह द्विजो वाक्यमम्भोदमिव चातकः ॥४३॥गाधिरुवाच ।देव यैषा त्वया माया दर्शिताऽतितमोमयी ।महीं प्रातरिवादित्यस्तां मे प्रकटतां नय ॥४४॥भ्रमं यं पश्यति मनो वासनामलमालितम् ।स्वप्नवत्स कथं देव जाग्रत्यपि हि दृश्यते ॥४५॥मुहूर्तमुपलब्धश्च जलान्तः स्वप्नविभ्रमः ।कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद ॥४६॥दैर्घ्यादैर्घ्येऽस्य कालस्य शरीरस्य भवाभवाः ।कथमन्तस्थिता न स्युर्मदीयैः श्वपचभ्रमैः ॥४७॥श्रीभगवानुवाच ।गाधे स्वाधिविधूतस्य स्वरूपस्यैतदात्मकम् ।चेतसोऽदृष्टतत्त्वस्य यत्पश्यत्युरुविभ्रमम् ॥४८॥बहिर्न किंचिदप्यस्ति खाद्यब्ध्युर्वीदिगादिकम् ।एतत्स्वचित्त एवास्ति पत्रपुञ्जमिवाङ्कुरे ॥४९॥फलादि स्फारतामेति यथैव बहिरङ्कुरात् ।बहिः प्रकटतां याति तथा पृथ्व्यादिचेतसः ॥५०॥सत्यं पृथ्व्यादि चित्तस्थं न बहिष्ठं कदाचन ।अङ्कुरस्थः पल्लवस्तु तस्माद्यस्मात्फलश्रियः ॥५१॥रूपालोकमनस्कारतत्ताकालक्रियात्मकम् ।कुम्भकारो घटमिव चेतो हन्ति करोति च ॥५२॥आबालमेतत्पुरुषैः सर्वैरेवानुभूयते ।स्वप्नभ्रममदावेगरागरोगादिदृष्टिषु ॥५३॥चित्ते वृत्तान्तलक्षाणि संस्थितान्यात्तवासने ।पादपे फलपुष्पाणि मूलाक्रान्तावनाविव ॥५४॥त्यक्तावनेर्विटपिनो भूयः पत्राणि नो यथा ।निर्वासनस्य जीवस्य पुनर्जन्मादि नो तथा ॥५५॥यत्रानन्तजगज्जालं संस्थितं तेन तेजसा ।श्वपचत्वं प्रकटितं यदि तद्विस्मयोऽत्र किम् ॥५६॥अवबुद्धा श्वपचता प्रतिभासवशात्त्वया ।यथैवानल्पसंरम्भा विचित्राधिविकारदा ॥५७॥तथैवातिथिरायातो भुक्तवान्सुप्तवान्द्विजः ।कथां कथितवांश्चेति दृष्टवानसि संभ्रमम् ॥५८॥तथैवोत्थाय गच्छामि प्राप्तोऽहं भूतमण्डलम् ।इमे भूता इमे ग्रामा दृष्टवानसि संभ्रमम् ॥५९॥तथैवेदं कटंजस्य प्राक्तनं लुठितं गृहम् ।जनैरुक्तं कटंजस्य दृष्टवानसि संभ्रमम् ॥६०॥तथैव कीरनगरं प्राप्तोऽस्मि कथितं च मे ।कीरैः श्वपचराजत्वं दृष्टवानसि सभ्रमम् ॥६१॥एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम ।यत्सत्यमिति जानासि यच्चासत्यमवैषि च ॥६२॥वासनावलितं चेतः किं नामान्तर्न पश्यति ।साधितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम् ॥६३॥नातिथिर्न च भूतास्ते न कीरास्ते न तत्पुरम् ।सर्वमेतन्महाबुद्धे व्यामोहाद्दृष्टवानसि ॥६४॥गच्छता भवता भूतदेशं पान्थेन कन्दरे ।कस्मिंश्चिद्विप्र विश्रान्तं कुरङ्गेणेव कानने ॥६५॥तत्रैव श्रममूढत्वादिदं तद्भूतमण्डलम् ।इदं तच्छ्वपचागारमिति दृष्टं न सत्यतः ॥६६॥तथैव कीरनगरं दृष्टवानसि तत्तथा ।तदैव चान्यदा वापि मायार्थं हि भवान्द्विज ॥६७॥सर्वदैव समग्रासु विहरन्नसि दृष्टवान् ।दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने ॥६८॥तदुत्तिष्ठ निजं कर्म कुर्वंस्तिष्ठोपशान्तधीः ।न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः ॥६९॥श्रीवसिष्ठ उवाच ।इति निगदितवान्स पद्मनाभोभुवनगतापसवृन्दपूज्यमानः ।विबुधमुनिगणैः पवित्रहस्तै-र्वृत उदधिं निजमास्पदं जगाम ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते मायामहत्त्वकथनं नामाष्टचत्वारिंशः सर्गः ॥४८॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP