संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ७४ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ७४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७४ Translation - भाषांतर N/A श्रीवसिष्ठ उवाच ।लीलयाऽपश्यति वपुः कालेनात्मनि जायते ।रम्यस्यापश्यतो वक्रं हृदि दौरूप्यधीरिव ॥१॥तद्वशादियमायाता महती मेदुरोदरा ।माया मदमहाशक्तिः सुरास्वादलवादिव ॥२॥तयानया विकारिण्या तदतद्भावभूतया ।इदं संपन्नमखिलं तापादिव मरौ पयः ॥३॥मनो बुद्धिरहंकारो वासनाश्चेन्द्रियाण्यपि ।एवंकलितनामाङ्कैः स्फुरत्यात्माब्धिरम्बुभिः ॥४॥चित्ताहंकारयोर्द्वित्वं वचस्यस्ति न वस्तुतः ।यच्चित्तं स ह्यहंकारो योऽहंकारो मनो हि तत् ॥५॥व्यतिरिक्तं हिमाच्छौक्ल्यमिति संकल्प्यते यथा ।मुधैव कल्प्यते भेदश्चित्ताहंकारयोस्तथा ॥६॥मनोहंकारयोरन्तर्द्वयोरेकतरक्षये ।क्षीणे द्वे एव हि यथा पटशौक्ल्ये पटक्षये ॥७॥तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाम् ।स्ववैराग्यविवेकाभ्यां केवलं क्षपयेन्मनः ॥८॥मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः ।मननोत्के मनस्युच्चैर्वपुर्दोषाय केवलम् ॥९॥आत्मन्यतीते सर्वस्मात्सर्वभूतेऽथवा तते ।को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥१०॥वायुः स्पन्दनधर्मत्वाद्यदा चलति देहके ।तदा स्फुरति हस्ताङ्गरसनापल्लवावली ॥११॥पादपे पल्लवश्रेणीं चालयत्यनिलो यथा ।तथैवाङ्गावलीं वायुर्देहे संचालयत्यलम् ॥१२॥चित्सर्वव्यापिनी सूक्ष्मा न चला नैव चाल्यते ।न स्वतः स्पन्दमायाति देवाचल इवानिलैः ॥१३॥प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता ।प्रकाशयति बोधेन जगन्तीमानि दीपवत् ॥१४॥तत्र कोऽयं मुधा मोहो भवतामतिदुःखदः ।अयं सोऽहं ममाङ्गानि ममेदं चेति दुर्धियाम् ॥१५॥इति कल्लोलहतया दृशा नित्यमनित्यया ।ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते ॥१६॥तत्रायमहमागन्ता भोक्ता कर्तेति जायते ।मुधैवाज्ञाततापोत्था मृगतृष्णेव वासना ॥१७॥अज्ञतैषा मनोमत्तमृगं विषयतर्षुलम् ।असत्यैव हि सत्येव मृगतृष्णेव कर्षति ॥१८॥विज्ञाता सत्यरूपांग नाशं याति पलायते ।विप्रमध्यात्परिज्ञाता यथा चाण्डालकन्यका ॥१९॥अविद्या संपरिज्ञाता न चैनं परिकर्षति ।मृगतृष्णा परिज्ञाता तर्षुले नावकर्षति ॥२०॥परमार्थावबोधेन समूलं राम वासना ।दीपेनेवान्धकारश्रीर्गलत्यालोक एति च ॥२१॥नास्त्यविद्येति संजाते निश्चये शास्त्रयुक्तितः ।गलत्यविद्या तापेन तुषारकणिका यथा ॥२२॥देहस्यास्य जडस्यार्थे किं भोगैरितिनिश्चयः ।भिनत्त्याशामलं ज्ञाता पञ्जरं केसरी यथा ॥२३॥आशापरिकरे राम नूनं परिहृते हृदा ।पुमानागतसौन्दर्यो ह्लादमायाति चन्द्रवत् ॥२४॥परां शीतलतामेति वृष्टिधौत इवाचलः ।निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधमः ॥२५॥शोभते परया लक्ष्म्या शरदीव नभस्तलम् ।आत्मन्येव न मात्युच्चैः कल्पस्यान्त इवार्णवः ॥२६॥भवत्यपेतसंरम्भो वृष्टिमूक इवाम्बुदः ।तिष्ठत्यात्मनि संवेत्ता प्रशान्त इव वारिधिः ॥२७॥परं धैर्यमुपादत्ते स्थैर्यं मेरुरिवाचलः ।राजते स्वच्छया लक्ष्म्या शान्तेन्धन इवानलः ॥२८॥भवत्यात्मनि निर्वाणः प्रशान्त इव दीपकः ।तृप्तिमायाति परमां नरः पीतामृतो यथा ॥२९॥अन्तर्दीपो घट इव मध्यज्वाल इवानलः ।स्फुरद्दीप्तिर्मणिरिव प्रयात्यन्तः प्रकाशताम् ॥३०॥सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् ।सर्वाकारं निराकारं स्वमात्मानं प्रपश्यति ॥३१॥हसत्यलमतीतास्ताः पेलवा दिवसावलीः ।यासु स्मरशरश्रेणीचपलं चित्तमास्थितम् ॥३२॥सङ्गरङ्गविनिष्क्रान्तः शान्तमानमनोज्वरः ।अध्यात्मरतिरासीनः पूर्णः पावनमानसः ॥३३॥निर्मृष्टकामपङ्काङ्कश्छिन्नबन्धनिजभ्रमः ।द्वन्द्वदोषभयोन्मुक्तस्तीर्णसंसारसागरः ॥३४॥प्राप्तानुत्तमविश्रान्तिर्लब्धालभ्यपरास्पदः ।अनिवृत्तिपदं प्राप्तो मनसा कर्मणा गिरा ॥३५॥सर्वाभिवाञ्छितारम्भो न किंचिदपि वाञ्छति ।सर्वानुमोदितानन्दो न किंचिदनुमोदते ॥३६॥न ददाति न चादत्ते न स्तौति न च निन्दति ।नास्तमेति न चोदेति न तुष्यति न शोचति ॥३७॥सर्वारम्भपरित्यागी सर्वोपाधिविवर्जितः ।सर्वाशासंपरित्यागी जीवन्मुक्त इति स्मृतः ॥३८॥सर्वैषणाः परित्यज्य चेतसा भव मौनवान् ।धारा निरवशेषेण यथा त्यक्त्वा पयोधरः ॥३९॥न तथा सुखयत्यङ्ग संलग्ना वरवर्णिनी ।यथा सुखयति स्वान्तमिन्दुशीता निराशता ॥४०॥न तथेन्दुः सुखयति कण्ठलग्नोऽपि राघव ।नैराश्यं सुखयत्यन्तर्यथा सकलशीतलम् ॥४१॥पुष्पपूर्णनवलतो न तथा राजते मधुः ।यथोदारमतिर्मौनी नैराश्यसममानसः ॥४२॥न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् ।न च चन्द्रमसः शैत्यं नैराश्याद्यदवाप्यते ॥४३॥अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् ।अपि कान्तासमासङ्गान्नैराश्यं परमं सुखम् ॥४४॥तृणवन्नोपकुर्वन्ति यत्र त्रिभुवनश्रियः ।सा परा निर्वृतिः साधो नैराश्यादुपलभ्यते ॥४५॥आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ।पुष्पगुच्छं शमतरोरालम्बस्व निराशताम् ॥४६॥गोष्पदं पृथिवी मेरुः स्थाणुराशाः समुद्गिकाः ।तृणं त्रिभुवनं राम नैराश्यालंकृताकृतेः ॥४७॥दानादानसमाहारविहारविभवादिकाः ।क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः ॥४८॥पदं यस्य न बध्नाति कदाचित्कलना हृदि ।तृणीकृतत्रिभुवनः केनासावुपमीयते ॥४९॥इदमेवास्त्विदं मास्तु ममेति हृदि रञ्जना ।न यस्यास्ति तमात्मेशं तोलयन्ति कथं जनाः ॥५०॥सर्वसंकटपर्यन्तमसंकटमलं सुखम् ।सौभाग्यं परमं बुद्धेर्नैराश्यमवलम्ब्यताम् ॥५१॥नाशास्तेनत्वमाशानां विद्धि मिथ्याभ्रमं जगत् ।वहद्रथस्थदिक्चक्रपरावर्तवदुत्थितम् ॥५२॥किं मुह्यसि महाबाहो मूर्खवद्बोधितोऽपि सन् ।ममेदं तदयं सोऽहमित्युद्भ्रान्तेन चेतसा ॥५३॥आत्मैवेदं जगत्सर्वं नानातेह न विद्यते ।एकरूपं जगज्ज्ञात्वा धीरैर्नाम न खिद्यते ॥५४॥यथाभूतपदार्थौघदर्शनादेव राघव ।परमाश्वासनं बुद्धेर्नैराश्यमधिगच्छति ॥५५॥भावाभावविसंवादमुक्तमाद्यन्तयोः स्थितम् ।यद्रूपं तत्समालम्ब्य पदार्थानां स्थितिं कुरु ॥५६॥वैराग्यवीरमनसो मायेयमतिमोहिनी ।पलाय्य याति संसारी मृगी केसरिणो यथा ॥५७॥कान्तामुद्दाममदनां लोलां वनलतामिव ।जर्जरोपलपाञ्चालीसमां पश्यति धीरधीः ॥५८॥भोगा नानन्दयन्त्यन्तः खेदयन्ति न चापदः ।दृश्यश्रियो हरन्त्यङ्ग नतमद्रिमिवानिलाः ॥५९॥रक्तबालाङ्गनस्यापि ज्ञस्योदारधिया मुनेः ।कणशः पांसुतां यान्ति मनसः स्मरसायकाः ॥६०॥रागद्वेषैः स्वरूपज्ञो नावशः परिकृष्यते ।स्पन्द एवास्य नैताभ्यां किमुताक्रमणं भवेत् ॥६१॥समदृष्टलतालोलवनितोऽद्रिशिलाकृतिः ।रमते नैष भोगेषु पान्थो मरुमहीष्विव ॥६२॥अयत्नोपनतं सर्वं लीलयाऽसक्तमानसः ।भुङ्क्ते भोगभरं प्राज्ञस्त्वालोकमिव लोचनम् ॥६३॥काकतालीयवत्प्राप्ता भोगाली ललनादिका ।स्वादिताप्यङ्ग धीरस्य न दुःखाय न तुष्टये ॥६४॥सम्यग्दृष्टपथं तज्ज्ञं सुखदुःखमती मनाक् ।द्वे वीच्याविव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः ॥६५॥हेलयालोकयन्भोगान्मृदुर्दान्तो गतज्वरः ।स्वमेव पदमालम्ब्य सर्वभूतान्तरस्थितम् ॥६६॥ज्ञस्तिष्ठति गतव्यग्रो व्यग्रेणापि समन्वितः ।जगन्ति जनयन्नेव ब्रह्मैवात्मपरायणः ॥६७॥आपतत्सु यथाकालं यथादेशं यथाक्रमम् ।सुखदुःखेषु न क्षोभमेति भूभृदृतुष्विव ॥६८॥मज्जतोऽपि बहुज्ञस्य राम कर्मेन्द्रियभ्रमैः ।असक्तमनसो नित्यं न किंचिदपि मज्जति ॥६९॥कलंकयन्तःकलङ्केन प्रोच्यते हेम नान्यथा ।भावासक्त्या समासक्त उक्तो जन्तुर्हि नान्यथा ॥७०॥शरीराद्व्यतिरिक्तं ज्ञं पश्यतः प्रविवेकिनः ।विकर्तिताङ्गकस्यापि न किंचित्प्रविकर्तितम् ॥७१॥सकृत्प्रभातं विमलं यज्ज्ञातं ज्ञातमेव तत् ।नहि बन्धुः परिज्ञातः पुनरज्ञाततां व्रजेत् ॥७२॥सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना ।पुनरेति यथा प्रावृण्नदी गिरितटाच्च्युता ॥७३॥न हेम तापशुद्धाङ्गं स्वभावमलमागतम् ।कर्दमे मग्नमपि सत्समादत्ते मलं पुनः ॥७४॥क्षीणे स्वहृदयग्रन्थौ न बन्धोऽस्ति पुनर्गुणैः ।यत्नेनापि पुनर्बद्धं केन वृन्ते च्युतं फलम् ॥७५॥अवच्छेदविचाराभ्यामभितः खण्डशो गतम् ।पाषाणं च मणिं चैव संधातुं कस्य शक्तता ॥७६॥विज्ञातायामविद्यायां कः पुनः परिमज्जति ।परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः ॥७७॥शुद्धाम्भसि यथा क्षीरधीर्विचारान्निवर्तते ।संसारवासना तद्वद्धीविचारान्निवर्तते ॥७८॥मध्वम्बुशङ्कया तावद्विप्रवर्यैः प्रपीयते ।यावन्नात्र परिज्ञातं परिज्ञातं प्रहीयते ॥७९॥रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी ।द्रव्यमात्रसमारम्भात्तत्त्वविद्भिर्विलोक्यते ॥८०॥यथा मषीकुसुम्भादि स्त्रियाश्चित्रे तथैव हि ।जीवत्या अपि केशोष्ठं कस्तां परि किल ग्रहः ॥८१॥अनुभूतो गुडः स्वादुरपि दाहविकर्तनैः ।न शक्यतेऽन्यथाकर्तुं तत्त्वालोकस्तथात्मनः ॥८२॥परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥८३॥एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।न शक्यते चालयितुं देवैरपि सवासवैः ॥८४॥परव्यसनिनी नारी केन भर्त्रा बलीयसा ।विस्मारिता स्वसंकल्पकान्तसङ्गमहोत्सवम् ॥८५॥जगत्समरसानन्दचिदालोकावलम्बनम् ।केन विस्मार्यते बुद्धिस्तत्त्वज्ञस्य महात्मनः ॥८६॥समग्रसुखदुःखाढ्यं व्यवहारमखण्डितम् ।कुर्वन्कुलजनायत्तो भर्तृश्वशुरखेदितः ॥८७॥यथा संकल्पकान्तेन भवत्यानन्दमन्थरः ।वधूलोको व्यसनवान्दुःखवृन्दैर्न बाध्यते ॥८८॥तथा विगलिताविद्यो व्यवहारपरोऽप्यलम् ।सम्यग्दृष्टिः सदाचारो मुदमेत्यन्तरात्मना ॥८९॥छिद्यते न निकृत्ताङ्गो गलदश्रुर्न रोदिति ।दह्यते न प्रदग्धोऽपि नष्टोऽपि न विनश्यति ॥९०॥व्यपगतसुखदुःखसंनिपातोविधिविधुरेष्वपि संकटेष्वचित्तः ।विलसतु सदने पुरोत्तमे वाविततगिरौ विपिने तपोवने वा ॥९१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वैराग्योपदेशो नाम चतुःसप्ततितमः सर्गः ॥७४॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP