संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५८ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।किरातेशस्य सुरघोर्वृत्तान्तं विस्मयास्पदम् ॥१॥उत्तरस्या दिशो मेदः कर्पूरपटल भुवः ।संभूतं हसनं शार्वं शुक्लो वा चान्द्र आतपः ॥२॥हिमाद्रेः श्रृङ्गमस्तीह कैलासो नाम पर्वतः ।शैलकुञ्जरनिर्मुक्तकलापस्येव नायकः ॥३॥विष्णोः क्षीरोद इव स्वर्गः सुरपतेरिव ।अब्जजस्येव नाभ्यब्जं गृहं यः शशिमौलिनः ॥४॥रुद्राक्षवृक्षदोलाभिः साप्सरोभिर्विभाति यः ।लोलरत्नशलाकाभिर्लहरीभिरिवार्णवः ॥५॥गणाङ्गनानामनिशं मत्तानां चरणैर्हताः ।अशोका इव राजन्ते यत्राशोका विलासिनः ॥६॥संचरन्शंकरो दिक्षु भृगुष्विन्दुमणिद्रवैः ।निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः ॥७॥यो लतावृक्षगुल्मौघवापीहृदनदीनदैः ।मृगैर्मृगगणैर्भूतैर्ब्रह्माण्डवदिवावृतः ॥८॥तस्य हेमजटा नाम किराताः संस्थिताः स्थले ।पिपीलिका वटतरोर्मूलकोशगता इव ॥९॥कैलासपादारण्यानां रुद्राक्षैस्तरुगुल्मकैः ।वसन्ति घूकवत्क्षुद्रास्ते वै निकटजीविनः ॥१०॥आसीत्तेषामुदारात्मा राजा परपुरंजयः ।जयलक्ष्म्या भुज इव यः प्रजायाश्च दक्षिणः ॥११॥सुरघुर्नाम बलवान्सुरघोरारिदर्पहा ।अर्कः पराक्रम इव मूर्तिमानिव मारुतः ॥१२॥जितो वै राज्यविभवैर्धनैर्गुह्यकनायकः ।शतक्रतुगुरुर्बोधैः काव्यैरसुरदेशिकः ॥१३॥स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः ।यथाप्राप्तान्यखिन्नाङ्गो दिनानीव दिवाकरः ॥१४॥तज्जाभ्यां सुखदुःखाभ्यामथ तस्याभ्यभूयत ।स्वगतिर्वागुराबन्धैः श्लिष्टाङ्गस्येव पक्षिणः ॥१५॥किमार्तं पीडयाम्येनं तिलान्यन्त्रमिवौजसा ।सर्वेषामेव भूतानां ममेवार्तिः प्रजायते ॥१६॥धनमस्मै प्रयच्छामि धनेनानन्दवाञ्जनः ।भवत्यहमिवाशेषस्तदलं मेऽतिनिग्रहैः ॥१७॥अथवा निग्रहं प्राप्तं करोम्येतेन वै विना ।वर्तते न प्रजैवेयं विना वारि सरिद्यथा ॥१८॥हा कष्टमेव निग्राह्यो नित्यानुग्राह्य एष मे ।दिष्ट्याद्य सुखवानस्मि कष्टमद्यास्मि दुःखवान् ॥१९॥इति दोलायितं चेतो न विशश्राम भूपतेः ।एकत्राम्बुमहावर्ते चिरतृष्णमिव भ्रमत् ॥२०॥अथैकदा गृहं तस्य माण्डव्यो मुनिराययौ ।भ्रान्ताशेषककुप्कुञ्जो वासवस्यव नारदः ॥२१॥तमसौ पूजयामास पप्रच्छ च महामुनिम् ।संदेहदुर्द्रुमस्तम्भपरशुं सर्वकोविदम् ॥२२॥सुरघुरुवाच ।भवदागमनेनास्मि मुने निर्वृतिमागतः ।परमां वसुधापीठं संप्राप्त इव माधवे ॥२३॥अद्य तिष्ठाम्यहं नाथ धन्यानां धुरि धर्मतः ।विकासि रविणेवाब्जं यत्त्वयास्म्यवलोकितः ॥२४॥भगवन्सर्वधर्मज्ञ चिरं विश्रान्तवानसि ।तदमुं संशयं छिन्धि ममार्कस्तिमिरं यथा ॥२५॥महतां संगमेनार्तिः कस्य नाम न नश्यति ।संदेहं तु परामार्तिमाहुरार्तिविदो जनाः ॥२६॥मन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः ।कषन्ति मामलं चिन्ता गजं हरिनखा इव ॥२७॥तद्यथा समतोदेति सूर्यांशुरिव सर्वदा ।मतौ मम मुने नान्या तथा करुणया कुरु ॥२८॥माण्डव्य उवाच ।स्वयत्नेन स्वसंस्थेन स्वेनोपायेन भूपते ।एषा मनःपेलवता हिमवत्प्रविलीयते ॥२९॥स्वविचारणयैवाशु शाम्यत्यन्तर्मनोज्वरः ।शरदागममात्रेण मिहिका महती यथा ॥३०॥स्वेनैव मनसा स्वानि स्वशरीरगतानि च ।विचारयेन्द्रियाण्यन्तः कीदृशान्यथ कानि च ॥३१॥कोऽहं कथमिदं किंवा कथं मरणजन्मनी ।विचारयान्तरेवं त्वं महत्तामलमेष्यसि ॥३२॥विचारणा परिज्ञातस्वभावस्य सतस्तव ।हर्षामर्षदशाश्चेतस्तोलयिष्यन्ति नाचलम् ॥३३॥मनः कृष्णमृत्सृज्य शममेष्यति विज्वरम् ।भूतपूर्ववपुर्भूत्वा तरङ्गः पयसीव ते ॥३४॥तिष्ठदेव मनोरूपं परित्यक्ष्यति तेऽनघ ।कलङ्कविकलं कालं मन्वन्तरगताविव ॥३५॥अनुकम्प्या भविष्यन्ति श्रीमन्तः सर्व एव ते ।दृष्टतत्त्वस्य तुष्टस्य जनाः पितुरिवावनौ ॥३६॥विवेकदीपदृष्टात्मा मेर्वब्धिनभसामपि ।अधो करिष्यसि नृप महत्तामुत्तमार्थदाम् ॥३७॥महत्तामागते चेतस्तव संसारवृत्तिषु ।न निमज्जति हे साधो गोष्पदेष्विव वारणः ॥३८॥कृपणं तु मनो राजन्पेलवेऽपि निमज्जति ।कार्ये गोष्पदतोयेऽपि जीर्णाङ्गो मशको यथा ॥३९॥चेतोवासनया पङ्के कीटवत्परिमज्जसि ।दृश्यमात्रावलम्बिन्या स्वया दीनतया तया ॥४०॥तावत्तावन्महाबाहो स्वयं संत्यज्यतेऽखिलम् ।यावद्यावत्परालोकः परमात्मैव शिष्यते ॥४१॥ तावत्प्रक्षाल्यते धातुर्यावद्धेमैव शिष्यते ।तावदालोक्यते सर्वं यावदात्मैव लभ्यते ॥४२॥सर्वः सार्विकया बुद्ध्या सर्वं सर्वत्र सर्वदा ।सर्वथा संपरित्यज्य स्वात्मनात्मोपलभ्यते ॥४३॥यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते ।सर्वावस्थापरित्यागे शेष आत्मेति कथ्यते ॥४४॥यावदन्यन्न संत्यक्तं तावत्सामान्यमेव हि ।वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा ॥४५॥यत्र सर्वात्मनैवात्मा लाभाय यतति स्वयम् ।त्यक्तान्यकार्यं प्राप्नोति तन्नाम नृप नेतरत् ॥४६॥स्वात्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् ।सर्वं किंचित्परित्यज्य यद्दृष्टं तत्परं पदम् ॥४७॥सकलकारणकार्यपरम्परा-मयजगद्गतवस्तुविजृम्भितम् ।अलमपास्य मनः स्ववपुस्ततःपरिविलाप्य यदेति तदेव तत् ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते माण्डव्योपदेशो नामाष्टपञ्चाशः सर्गः ॥५८॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP