संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४४ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।रामापर्यवसानेयं माया संसृतिनामिका ।आत्मचित्तजयेनैव क्षयमायाति नान्यथा ॥१॥जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये ।इतिहासमिमं वक्ष्ये श्रृणुष्वावहितोऽनघ ॥२॥अस्त्यस्मिन्वसुधापीठे कोसलो नाम मण्डलः ।कल्पवृक्षवनं मेराविव रत्नगणाकरः ॥३॥तत्राभूद्ब्राह्मणः कश्चिद्गुणी गाधिरिति श्रुतः ।परमश्रोत्रियो धीमान्धर्ममूर्तिरिव स्थितः ॥४॥आबाल्यात्प्रविरक्तेन चेतसा स व्यराजत ।निष्कलङ्कावदातेन भुवनं नभसा यथा ॥५॥किमप्यभिमतं कार्यं विनिधाय स्वचेतसि ।बन्धुवृन्दाद्विनिष्क्रम्य तपस्तप्तुं वनं ययौ ॥६॥उत्फुल्लकमलं प्राप सरस्तत्र स विप्रराट् ।चन्द्रः प्रसन्नविमलं तारासारमिवाम्बरम् ॥७॥आशौरिदर्शनं तस्मिंस्तपोर्थं सरसि द्विजः ।आकण्ठमम्बुनिर्मग्नः प्रावृट्पद्म इवाविशत् ॥८॥ययौ मासाष्टकं तस्य मग्नस्य सरसोऽम्भसि ।वासपङ्कजसंकोचमनाग्भग्नमुखच्छवेः ॥९॥अथैनं तपसा तप्तमाजगामैकदा हरिः ।निदाघार्तं घनः श्यामः प्रावृषीव धरातलम् ॥१०॥श्रीभगवानुवाच ।विप्रोत्तिष्ठ पयोमध्याद्गृहाणाभिमतं वरम् ।अभीप्सितफलोपेतो जातस्ते नियमद्रुमः ॥११॥ब्राह्मण उवाच ।असंख्येयजगद्भूतहृत्पद्मकुहरालिने ।जगत्त्रयेकनलिनीसरसे विष्णवे नमः ॥१२॥मायामिमां त्वद्रचितां भगवन्पारमात्मिकीम् ।द्रष्टुमिच्छामि संसारनाम्नीमान्ध्यैककारिणीम् ॥१३॥श्रीवसिष्ठ उवाच ।इमां द्रक्ष्यसि मायां त्वं ततस्त्यक्ष्यसि चेत्यजः ।उक्त्वा ययावदृश्यत्वं गान्धर्वमिव पत्तनम् ॥१४॥गते विष्णौ समुत्तस्थौ जलात्स ब्राह्मणेश्वरः ।शीतलामलमूर्तित्वादिन्दुः क्षीरोदकादिव ॥१५॥बभूव परितुष्टात्मा दर्शनेन जगत्पतेः ।दर्शनस्पर्शनैरिन्दोरुत्फुल्लमिव कैरवम् ॥१६॥अथास्य कतिचित्तस्मिन्दिवसा निर्ययुर्वने ।हरिसंदर्शनानन्दवतो ब्राह्मणकर्मणा ॥१७॥एकदारब्धवान्स्नानं सरस्युदितपङ्कजे ।चिन्तयन्वैष्णवं वाक्यं महर्षिरिव मानसे ॥१८॥अथ स्नानविधावन्तर्जलमेष चकार ह ।सकलाघविघातार्थं परिवर्तमिवात्मना ॥१९॥अन्तर्जलविधौ तस्मिन्विस्मृतध्यानमन्त्रधीः ।पर्यस्तसंवित्प्रसरः सोऽपश्यज्जलमध्यतः ॥२०॥मृतमात्मानमात्मीये सदने शोच्यतां गतम् ।पतितं वातवेगेन कन्दरान्तरिव द्रुमम् ॥२१॥प्राणापानप्रवाहेण मुक्तमन्तमुपागतम् ।संशान्तावयवस्पन्दं निर्वात इव खण्डकम् ॥२२॥पाण्डुराननमाम्लानं वृक्षपर्णमिवारसम् ।शवीभूतमिवाग्लानं छिन्ननालमिवाम्बुजम् ॥२३॥विपर्यस्तेक्षणं प्रातर्मग्नतारमिवाम्बरम् ।सावग्रहमिव ग्रामं सर्वतः पांसुधूसरम् ॥२४॥बाष्पक्लिन्नमुखैर्दीनैः करुणाक्रन्दकारिभिः ।आवृतं बन्धुभिः खिन्नैः कुररैरिव पादपम् ॥२५॥सेतुभंगगलद्वारिह्रियमाणमुखाब्जया ।नलिन्या समधर्मिण्या भार्यया पादयोः श्रितम् ॥२६॥ताराक्रन्दरणद्रेफप्रलापालापलुब्धया ।मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते ॥२७॥अन्यैः पार्श्वगतैर्दीनैः स्रवदश्रुमुखैर्जनैः ।श्रितं गलदवश्यायैः शुष्कपर्णैरिव द्रुमम् ॥२८॥वियोगभीत्या संयोगपरिहारपरैरिव ।दूरं विप्रसृतैरङ्गैरनात्मीयैरिवावृतम् ॥२९॥परस्परमलग्नाभ्यामोष्ठाभ्यां दशनैः सितैः ।सविरागमिवाम्लानैर्हसन्तं स्वात्मजीवितम् ॥३०॥मौनध्यानमिवापन्नं पङ्कादिव विनिर्मितम् ।अप्रबोधाय संसुप्तं विश्राम्यन्तमिवोच्चकैः ॥३१॥बान्धवाक्रन्दसंरम्भकोलाहलगता गिरः ।स्नेहभावविचारार्थं श्रृण्वन्तमिव यत्नतः ॥३२॥अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः ।सोरस्ताडनमूर्च्छोत्थनेत्रवारिवहाप्लुतैः ॥३३॥क्रमेण स्वजनैः क्षुब्धैस्ताराक्रन्दादिघर्घरैः ।निष्कालितममङ्गल्यमपुनर्दर्शनाय वै ॥३४॥नीतं श्मशानं मांसान्त्रवसापङ्ककलङ्कितम् ।शुष्काशुष्करसक्लिन्नं कंकालशतसंकुलम् ॥३५॥गृध्राभ्रच्छन्नसूर्यांशुचिताज्वलननिस्तमः ।शिवाशिवमुखज्वालाजालपल्लवितावनि ॥३६॥वहद्रक्तसरित्स्नातमग्नकङ्कोग्रवायसम् ।रक्तार्द्रतन्त्रीप्रसरजालाबद्धजरत्खगम् ॥३७॥तत्र ते ज्वलने दीप्ते चक्रुस्तं भस्मसाच्छवम् ।बान्धवाः सलिलापूरं समुद्रा इव वाडवे ॥३८॥चितिश्चटचटास्फोटैः शवमाशु ददाह सा ।शुष्केन्धनबहूच्छूनज्वालाजालजटावली ॥३९॥अभ्युल्लसत्कटकटारवमुक्तगन्ध-व्याप्ताम्बुवाहपटलोऽस्थिचयं हुताशः ।दन्ती सरन्ध्रमिव वेणुवनं समन्ता-दुद्वान्तमेदुररसं दलयांचकार ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते गाधिविनाशो नाम चतुश्चत्वारिंशः सर्गः ॥४४॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP