संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः २० उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः २० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २० Translation - भाषांतर पुण्य उवाच ।कः पिता किं च वा मित्रं का माता के च बान्धवाः ।स्वबुद्ध्यैवावधूयन्ते वात्यया जनपांसवः ॥१॥बन्धुमित्रसुतस्नेहद्वेषमोहदशामयः ।स्वसंज्ञामात्रकेणैव प्रपञ्चोऽयं वितन्यते ॥२॥बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः ।विषामृतदशेवेह स्थितिर्भावनिबन्धनी ॥३॥एकत्वे विद्यमानस्य सर्वगस्य किलात्मनः ।अयं बन्धुः परश्चायमित्यसौ कलना कुतः ॥४॥रक्तमांसास्थिसंघाताद्देहादेवास्थिपञ्जरात् ।कोऽहं स्यामिति चित्तेन स्वयं पुत्र विचारय ॥५॥दृष्ट्या तु पारमार्थिक्या न कश्चित्त्वं न वास्म्यहम् ।मिथ्याज्ञानमिदं पुण्यः पावनश्चेति वल्गति ॥६॥कस्ते पिता कश्च सुहृत्का माता कश्च वा परः ।खस्यानन्तविलासस्य किमस्वं किं स्वमुच्यताम् ॥७॥असि चेत्त्वं तदन्येषु यातेषु बहुजन्मसु ।ये बन्धवो ये विभवाः किं तानपि न शोचसि ॥८॥बभूवुस्ते सुपुष्पासु स्थलीषु मृगयोनिषु ।बहवो बन्धवो मार्गास्तान्कथं नानुशोचसि ॥९॥बभूवुस्ते सपद्मासु तटीष्वम्भोजिनीषु ते ।हंसस्य बन्धवो हंसास्तान्कथं नानुशोचसि ॥१०॥बभूवुस्तेऽलमन्यत्र चित्रासु वनराजिषु ।बहवो बन्धवो वृक्षास्तान्कथं नानुशोचसि ॥११॥बभूवुस्ते महोग्रेषु शिखरेषु महीभृताम् ।बहवो बान्धवाः सिंहास्तान्कथं नानुशोचसि ॥१२॥बभूवुस्ते स्रवन्तीषु सरःस्वम्भोजिनीषु च ।बहवो बन्धवो मत्स्यास्तान्कथं नानुशोचसि ॥१३॥बभूविथ दशार्णेषु कपिलो वनवानरः ।राजपुत्रस्तुषारेषु पुण्ड्रेषु वनवायसः ॥१४॥हैहयेषु च मातङ्गस्त्रिगर्तेषु च गर्दभः ।शाल्वेषु सरमापुत्रः पतत्री सरलद्रुमे ॥१५॥विन्ध्याद्रौ पिप्पलो भूत्वा घुणो भूत्वा महावटे ।मन्दरे कुक्कुटो भूत्वा विप्रो जातोऽसि कन्दरे ॥१६॥कोसलेषु द्विजो भूत्वा भूत्वा वङ्गेषु तित्तिरिः ।अश्वो भूत्वा तुषारेषु जातस्त्वं ब्रह्मणोऽध्वरे ॥१७॥यः कीटस्तालकन्दान्तर्मशको य उदुम्बरे ।यः प्राग्बको विन्ध्यवने स त्वं पुत्र ममानुजः ॥१८॥हिमवत्कन्दरे भूर्जतनुत्वग्ग्रन्थिकोटरे ।पिपीलिको यः षण्मासान्सोऽयं त्वमनुजो मम ॥१९॥स्थितः सीमान्तकुग्रामगोमये यश्च वृश्चिकः ॥सार्धसंवत्सरं साधो सोऽयं त्वमनुजो मम ॥२०॥पुलिन्दीस्तनपीठेषु निलीनं येन कानने ।षट्पदेनेव पद्मेषु सोऽयं त्वमनुजो मम ॥२१॥एतास्वन्यासु बह्वीषु जनयोनिषु पुत्रक ।जातोऽसि जम्बूद्वीपेऽस्मिन्पुरा शतसहस्रशः ॥२२॥इत्थं तवात्मनश्चैव प्राक्तनं वासनाक्रमम् ।पश्यामि सूक्ष्मया बुद्ध्या सम्यग्दर्शनशुद्धया ॥२३॥ममापि बह्व्यो बहुधा योनयो मोहमन्थराः ।समतीताः स्मराम्यद्य ता ज्ञानोदितया दृशा ॥२४॥त्रिगर्तेषु शुको भूत्वा भेको भूत्वा सरित्तटे ।वनेषु लावको भूत्वा जातोऽहमिह कानने ॥२५॥ भुक्त्वा पुलिन्दतां विन्ध्ये कृत्वा वङ्गेषु वृक्षताम् ।उष्ट्रत्वमपि विन्ध्याद्रौ जातोऽहमिह कानने ॥२६॥यश्चातको हिमगिरौ यो राजा पौण्ड्रमण्डले ।व्याघ्रो यः सह्यकुञ्जेषु स एवाहं तवाग्रजः ॥२७॥यो गृध्रो दशवर्षाणि यो ग्राहो मासपञ्चकम् ।यः समानां शतं सिंहः स एवेह तवाग्रजः ॥२८॥आन्ध्रग्रामचकोरेण तुषारनृपराजिना ।श्रीशैलाचार्यपुत्रेण दम्भवत्कथ्यते मया ॥२९॥सर्वे विविधसंसारा विविधाचारचेष्टिताः ।विलासा जन्मनो भ्रान्तेः स्मर्यन्ते प्राक्तना मया ॥३०॥एवं स्थिते जगज्जाता बान्धवाः शतशो गताः ।पितरो मातरश्चैव भ्रातरः सुहृदस्तथा ॥३१॥कांस्तान्समनुशोचावो न शोचावश्च कानपि ।बन्धूनिहातिशोचाव ईदृश्येव जगद्गतिः ॥३२॥अनन्ताः पितरो यान्ति यान्त्यनन्ताश्च मातरः ।इह संसारिणां पुंसां वनपादपपर्णवत् ॥३३॥किं प्रमाणमतः पुत्र दुःखस्यात्र सुखस्य च ।तस्मात्सर्वं परित्यज्य तिष्ठावः स्वच्छतां गतौ ॥३४॥प्रपञ्चभावनां त्यक्त्वा मनस्यहमिति स्थिताम् ।तां गतिं गच्छ भद्रं ते यां यान्ति गतिकोविदाः ॥३५॥इहाजवं जवीभावं पतनोत्पतनात्मकम् ।न च शोचन्ति सुधियश्चिरं वल्गन्ति केवलम् ॥३६॥भावाभावविनिर्मुक्तं जरामरणवर्जितम् ।संस्मरात्मानमव्यग्रो मा विमूढमना भव ॥३७॥न ते दुःखं न ते जन्म न ते माता न ते पिता ।आत्मैवासि न सद्बुद्धे त्वमन्यः कश्चिदेव हि ॥३८॥अस्यां संसारयात्रायां नानाभिनयदायिनः ।अज्ञा एव नराः साधुरसभावसमन्विताः ॥३९॥मध्यस्थदृष्टयः स्वस्था यथाप्राप्तार्थदर्शिनः ।तज्ज्ञास्तु प्रेक्षका एव साक्षिधर्मे व्यवस्थिताः ॥४०॥कर्तारोऽपि न कर्तारो यथा दीपा निशागमे ।आलोककर्मणामेवं तज्ज्ञा लोकस्थिताविह ॥४१॥प्रतिबिम्बे न दृश्यन्ते स्वात्मबिम्बगतैरपि ।यथा दर्पणरत्नाद्यास्तथा कार्ये महाधियः ॥४२॥सर्वैषणामयकलङ्कविवर्जितेन स्वस्थात्मभावकलितेन हृदब्जमध्ये ।पुत्रात्मनात्मनि महामुनिनामुनैव संत्यज्य संभ्रममलं परितोषमेहि ॥४३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु उपशमप्रकरणे पावनबोधो नाम विंशः सर्गः ॥२०॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP