संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः १९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः १९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।भ्रात्रोस्त्रिपथगातीरे संवादं मुनिपुत्रयोः ॥१॥अयं बन्धुरयं नेति कथाप्रस्तावतः स्मृतम् ।इतिहासमिमं पुण्यमाश्चर्यं श्रृणु राघव ॥२॥अस्त्यस्य जम्बूद्वीपस्य कस्मिंश्चिद्गिरिकुञ्जके ।वनव्यूहमहोत्तंसो महेन्द्रो नाम पर्वतः ॥३॥कल्पद्रुमवनच्छायाविश्रान्तमुनिकिन्नरः ।श्रृङ्गैराततमाकाशं जितवान्यः समुन्नतैः ॥४॥ब्रह्मलोकान्तरप्राप्तश्रृङ्गकन्दरचारिभिः ।सामवेदप्रतिध्वानघुंघुमैर्गायतीव यः ॥५॥यः पयोमेदुरैर्मेघैर्लसितैः श्रृङ्गकोटिषु ।लताकुसुमसंप्रोतैः कुन्तलैरिव राजते ॥६॥यस्तदोड्डयनोत्कानां शरभाणां विजृम्भितैः ।विस्फूर्जति गुहावक्रैः कल्पाभ्राणि हसन्निव ॥७॥येन निर्झरनिर्ह्रादैः कन्दरान्तरचारिभिः ।समुद्रजलकल्लोलविलासो विजितोऽभितः ॥८॥तस्यैकदेशे वितते रत्नसानौ मनोरमे ।मुनिभिः स्नानपानार्थं व्योमगङ्गावतारिता ॥९॥तस्यास्त्रिपथगायास्तु तीरे विकसितद्रुमे ।रत्नाद्रितटविद्योते कचत्कनकपिञ्जरे ॥१०॥आसीदभ्युदितज्ञानस्तपोराशिरुदारधीः ।मुनिर्दीर्घतपा नाम तपो मूर्तमिवापरम् ॥११॥मुनेर्बभूवतुस्तस्य पुत्रौ द्वाविन्दुसुन्दरौ ।पुण्यपावननामानौ द्वौ कचाविव वाक्पतेः ॥१२॥स ताभ्यां सह पुत्राभ्यां भार्यया च सहैकया ।उवास सरितस्तीरे तस्मिन्सफलपादपे ॥१३॥अथ काले तयोस्तस्य पुत्रयोर्ज्ञानवानभूत् ।पुण्यो नाम च यो ज्येष्ठो गुणज्येष्ठश्च राघव ॥१४॥पावनोर्धप्रबुद्धोऽभूत्पूर्वसंध्याम्बुजं यथा ।मौर्ख्यादधिगतो नाप्तः पदे दोलायितः स्थितः ॥१५॥ततो वहत्यकलिते काले कलितकारणे ।संवत्सरशते जीर्णदीर्घदेहलतायुषि ॥१६॥अस्माद्भङ्गुरभूताढ्याद्वृत्तान्तशतभीषणात् ।रतिमुत्सृज्य संसाराज्जराजर्जरजीवितः ॥१७॥कलनापक्षिणी नीडं देहं दीर्घतपा मुनिः ।जहौ गिरिगुहागेहे भारं वैवधिको यथा ॥१८॥प्रशान्तकलनारम्भं चेत्यरिक्तचिदास्पदम् ।पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम् ॥१९॥अथ भार्या मुनेर्देहं प्राणापानविवर्जितम् ।दृष्ट्वा विलुलितं भूमौ विनालमिव पङ्कजम् ॥२०॥चिरमभ्यस्तया योगयुक्त्या पतिवितीर्णया ।तत्याज तनुमम्लानां षट्पदी पद्मिनीमिव ॥२१॥भर्तारमेवानुययौ जनस्यादृष्टतां गता ।प्रभागगनकोशस्थमस्तं यातमिवोडुपम् ॥२२॥मातापित्रोस्तु गतयोरौर्ध्वदेहिककर्मणि ।पुण्य एव स्थितोऽव्यग्रः पावनो दुःखमाययौ ॥२३॥शोकोपहतचित्तोऽसो भ्रमन्काननवीथिषु ।ज्यायांसमनवेक्ष्यैव पावनो विललाप ह ॥२४॥अथौर्ध्वदेहिकं कृत्वा मातापित्रोरुदारधीः ।आययौ विपिने पुण्यः पावनं शोकलालसम् ॥२५॥पुण्य उवाच ।किं पुत्र घनतां शोकं नयस्यान्ध्यैककारणम् ।वाष्पधाराधरं घोरं प्रावट्काल इवाम्बुजम् ॥२६॥पिता तव महाप्राज्ञ गतः सार्धं त्वदम्बया ।स्वामेव परमात्मात्मपदवीं मोक्षनामिकाम् ॥२७॥तत्स्थानं सर्वजन्तूनां तद्रूपं विजितात्मनाम् ।स्वभावमभिसंपन्ने किं पितर्यनुशोचसि ॥२८॥ईदृशी तु त्वया बद्धा भावनेह विमोहजा ।संसारे यदशोच्योऽपि त्वया तातोनुशोच्यते ॥२९॥न सैव भवतो माता नासावेव पिता तव ।न भवानेष तनयस्तयोर्निःसंख्यपुत्रयोः ॥३०॥मातापितृसहस्राणि समतीतानि ते सुत ।बहून्यम्बुप्रवाहस्य निम्नानीव वने वने ॥३१॥असंख्यपुत्रयोर्नैव भवानेव सुतस्तयोः ।सरित्तरङ्गवत्पुत्र गताः पुत्रगणा नृणाम् ॥३२॥अस्मत्पित्रोरतीतानि पुत्रलक्षाण्यनेकशः ।पत्रकोरकवृन्तानि लताविटपयोरिव ॥३३॥मित्रबान्धववृन्दानि जन्तोर्जन्मनि जन्मनि ।ऋतावृतावतीतानि फलानीव महातरोः ॥३४॥शोचनीया यदि स्नेहान्मातापितृसुताः सुत ।तदतीता न शोच्यन्ते किमजस्रं सहस्रशः ॥३५॥प्रपञ्चोऽयं महाभाग दृश्यते जागते भ्रमे ।परमार्थेन ते प्राज्ञ नास्ति मित्रं न बान्धवाः ॥३६॥न नाश इव हि भ्रातः परमार्थेन विद्यते ।महत्यपि चिरातप्ते मराविव पयोलवाः ॥३७॥एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः ।स्वप्न एव महाबुद्धे दिनानि त्रीणि पञ्च वा ॥३८॥दृष्ट्या तु पारमार्थिक्या पुत्र सत्यं विचारय ।नैव त्वं न वयं चैव भ्रान्तिमन्तः परित्यज ॥३९॥अयं गतो मृतश्चायमिति दुर्दृष्टयः पुरः ।स्वसंकल्पोपतापोत्था दृश्यन्ते नतु सत्यतः ॥४०॥अज्ञानविस्तीर्णमरौ विलोलंशुभाशुभस्यन्दमयैस्तरङ्गैः ।सवासनानाममरीचिवारिपरिस्फुरत्येतदनन्तरूपम् ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे पावनबोधनं नामैकोनविशः सर्गः ॥१९॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP