संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः १४ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः १४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।संसारसागरासारकल्लोलैरुह्यमानया ।मतेर्मानद मूकत्वं यया जनतयार्जितम् ॥१॥आत्मलाभमयोदारकलाभिरिह सा मया ।विचारोक्तिभिरेताभिः शास्त्रेऽस्मिन्नोपदिश्यते ॥२॥न पश्यत्येव योऽत्यर्थं तस्य कः खलु दुर्मतिः ।विचित्रमञ्जरी चित्रं संदर्शयति काननम् ॥३॥कः कुष्ठघर्घरघ्राणं नानामोदविचारणे ।मूर्खमात्मोपदेशेन प्रमाणीकुरुतेऽमतिः ॥४॥विपर्यस्तेन्द्रियं मत्तं मदिराघूर्णितेक्षणम् ।धर्मनिर्णयसाक्षित्वे कः प्रमाणीकरोत्यधीः ॥५॥कः शवं वा श्मशानस्थं समवायकथाशतम् ।परिपृच्छति संदेहे कश्च मूर्खं प्रशास्ति च ॥६॥येनाशयबिलस्थोऽपि मूकोन्धोऽपि न निर्जितः ।मनोव्यालः सदुर्बुद्धिः कथं नामोपदिश्यते ॥७॥जितमेव मनो विद्धि वस्तुतो यन्न विद्यते ।निकटात्सा चिरास्तैव या शिला नैव विद्यतेव ॥८॥मनो न विजितं राम येनासदपि दुर्धिया ।तेनाग्रस्तविषेणैव म्रियते विषमूर्च्छया ॥९॥ज्ञः पश्यति सदैवात्मा स्पन्दने प्राणशक्तयः ।इन्द्रियाणि स्वधर्मेषु मनो राम किमुच्यते ॥१०॥प्राणानां स्पन्दनी शक्तिर्ज्ञानशक्तिः परात्मनः ।इन्द्रियाणां निजा शक्तिरेकः कोऽत्र निबध्यते ॥११॥सर्वास्तदंशवस्तस्य सर्वशक्तेः किलात्मनः ।पृथक्ता वाच्यता चेयं कुतो नाम तवोत्थिता ॥१२॥किं नाम जीव इत्युक्तं येनेहान्धीकृतं जगत् ।चित्तं चैवासदेव त्वं विद्धि का तस्य शक्तता ॥१३॥मनोनिर्दग्धदृष्टीनां दृष्ट्वा दुःखपरम्पराम् ।मतिर्मे करुणाक्रान्ता राम मुग्धेव तप्यते ॥१४॥कः किलात्र कुतः खेदो यन्मूर्खः परितप्यते ।दुःखायैव हि जायन्ते करभाः प्राकृतास्तथा ॥१५॥विनाशायैव जायन्ते जडा देहेष्वबुद्धयः ।अनारतोदयाः पापा बुद्बुदा जलधेरिव ॥१६॥कियन्तः पश्य पशवः प्रत्यहं प्रतिमण्डलम् ।सूनावद्भिर्निहन्यन्ते कैवात्र परिदेवना ॥१७॥अर्बुदान्यनिलो हन्ति क्षमाजातेषु चान्वहम् ।दंशानां मशकानां च कैवात्र परिदेवना ॥१८॥दिशं प्रति गिरीन्द्रेषु पुलिन्दाद्या वने वने ।निघ्नन्ति मृगलक्षाणि कैवात्र परिदेवना ॥१९॥जले जलचरव्यूहान्सूक्ष्मान्स्थूलो निकृन्तति ।ग्रासार्थं निर्दयो मत्स्यः कैवात्र परिदेवना ॥२०॥लिक्षामणुकणक्षामां क्षुधा खादति मक्षिका ।तां कोशकारः क्षुधितो दंशस्तमपि चञ्चलम् ॥२१॥तं दंशं दर्दुरो भुङ्क्ते व्यालस्तमपि दर्दुरम् ।सर्पमुग्रं खगो हन्ति बभ्रुश्चैनं निकृन्तति ॥२२॥बभ्रुं हिनस्ति मार्जारो मार्जारं श्वा निकृन्तति ।ऋक्षः कौलेयकं हन्ति ऋक्षं व्याघ्रो निकृन्तति ॥२३॥सिंहोऽभिभवति व्याघ्रं शरभः सिंहमत्ति च ।शरभो नाशमायाति मत्तमेघविलङ्घने ॥२४॥मेघा वातैर्विधूयन्ते वायवो गिरिभिर्जिताः ।गिरयो वज्रनिष्पिष्टाः शक्रस्य वशगः पविः ॥२५॥विष्णुना क्रियते शक्रो विष्णुर्गच्छति जन्तुताम् ।सुखदुःखदशामेतां जरामरणपालिताम् ॥२६॥जन्तवोऽपि महाकाया अपि विद्यायुधान्विताः ।लिक्षाभिरङ्गलग्नाभिरुपजीव्यन्त एव हि ॥२७॥अजस्रमेवमालूनविशीर्णं भूतजङ्गलम् ।परस्परमलं मोहादद्यते रक्ष्यतेऽपि च ॥२८॥अनारतं विनश्यन्ति विविधा भूतजातयः ।अनारतं च जायन्ते लिक्षायूकापिपीलिकाः ॥२९॥जलकोशेषु जायन्ते मत्स्येभमकरादयः ।भूमावन्तः प्रजायन्ते कीटौघा वृश्चिकादयः ॥३०॥अन्तरिक्षेऽपि जायन्ते आकाशविहगादयः ।वनवीथिषु जायन्ते सिंहव्याघ्रमृगादयः ॥३१॥प्राण्यङ्गेष्वपि जायन्ते विचित्राः ककुभं प्रति ।स्थावरेष्वपि जायन्ते घुणा जघनकादयः ॥३२॥शिलान्तरेषु जायन्ते कीटभेकघुणादयः ।विष्ठायामपि जायन्ते नानाकीटगणास्तथा ॥३३॥एवमेतेष्वसंख्येषु जन्मस्वपचयेषु च ।अजस्रं करुणावन्तो नन्दन्तु प्ररुदन्तु वा ॥३४॥अनारतमृतावस्मिन्ननारतसमुद्भवे ।संसारसंभ्रमे युक्ता न तुष्टिर्न च दुःखिता ॥३५॥पङ्क्तयस्त्वेवमेवेमा वृक्षपर्णगणैः समाः ।उत्पत्योत्पत्य लीयन्ते भूतानां भूरिसंभवाः ॥३६॥यः प्रवृत्तः कुबुद्धीनां दयावान्दुःखमार्जने ।स्वगतच्छत्रनिर्मृष्टसूर्यांशु खिद्यते नभः ॥३७॥न तिर्यक्समधर्माण उपदेश्या नरा भुवि ।कथार्थकथनेनार्थः कः स्थाणुनिकटे वने ॥३८॥किं किल स्फारमनसां पशूनां च विशेषणम् ।कृष्यन्ते पशवो रज्ज्वा मनसा मूढचेतसः ॥३९॥स्वचित्तपङ्कमग्नानां स्वनाशारब्धकर्मणाम् ।मूर्खाणामापदं दृष्ट्वा प्ररुदन्त्युपला अपि ॥४०॥अनिर्जितात्मचित्तानां समन्ताद्दुःखदा दशाः ।तन्मार्जनं कृतप्रज्ञो नाऽतः संप्रतिपद्यते ॥४१॥विनिर्जितात्मचित्तानां दुःखानि रघुनन्दन ।सुविचार्याणि तेनात्र ज्ञातज्ञेयः प्रवर्तताम् ॥४२॥मनो नास्ति महाबाहो मा मुधोप प्रकल्पय ।अनेन कल्पितेन त्वं वेतालेनेव हन्यसे ॥४३॥यावद्विस्मृतवानात्मतत्त्वं मूढो भवद्भवान् ।तावत्तव मनोव्यालो बभूवाभ्युदितस्ततः ॥४४॥इदानीं भवता ज्ञातं यथाभूतमरिंदम ।संकल्पाद्वर्धते चित्तं तदेवाशु परित्यज ॥४५॥दृश्यमाश्रयसीदं चेत्तत्सचित्तोऽसि बान्धवान् ।दृश्यं संत्यजसीदं चेत्तत्सचित्तोसि मोक्षवान् ॥४६॥अयं गुणसमाहारो बन्धायैव समाश्रितः ।संत्यक्तो भव मोक्षाय यथेच्छसि तथा कुरु ॥४७॥नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः ।अनन्ताकाशसंकाशहृदयो हृदयेश्वरः ॥४८॥आत्मनो जगतश्चास्य त्वमङ्ग कलनामलम् ।राम द्वित्वमयीं त्यक्त्वाशेषस्थः सुस्थिरो भव ॥४९॥आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे ।दर्शनाख्ये स्वमात्मानं सर्वदा भावयन्भव ॥५०॥स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् ।स्वादनं केवलं ध्यायन्नित्यमात्ममयो भव ॥५१॥रामानुभवनीयस्य तथानुभवितुः स्वयम् ।अवलम्ब्य निरालम्बं मध्यं मध्ये स्थिरो भव ॥५२॥भवभावनया हीनं भावाभावदशोज्झितम् ।भावयन्नेवमात्मानमात्मसंस्थः स्वयं भव ॥५३॥आत्मसत्तां त्यजन्नेतां चेत्यं भावयसि स्वयम् ।यदा राम तदा यासि चित्ततामतिदुःखदाम् ॥५४॥चित्ततां शृङ्खलामेतां स्वरूपज्ञानयुक्तितः ।बिलाच्चित्तान्महाबाहो स्वात्मसिंहं विमोचय ॥५५॥परमात्मदशां त्यक्त्वा चेत्यं परिपतन्नलम् ।यदा गच्छसि संकल्पं चेत्यं संपश्यसे तदा ॥५६॥आत्मनो व्यतिरिक्तं सच्चित्तमित्यङ्ग संविदा ।मनः संपद्यते दुःखि क्षीयते त्यक्तया तया ॥५७॥आत्मैवेदं जगत्सर्वमित्यन्तः संविदोदये ।क्व चेता क्वच वा चित्तं किं चेत्यं चेतनं च किम् ॥५८॥अहमात्मेति जीवोऽस्मीत्येतावच्चित्तकं विदुः ।अनेनेत्थमनाद्यन्तं दुःखं राघव तन्यते ॥५९॥अहमात्मा न जीवाख्याः सत्ताः सन्तीतराः क्वचित् ।इत्येव चित्तोपशमः परमं सुखमुच्यते ॥६०॥आत्मैवेदं जगदिति जाते राघव निश्चये ।असत्ता चेतसो जाता भवत्येव न संशयः ॥६१॥एवं सत्यावबोधेन स्वात्मैवेदमिति स्थितिः ।मनः सुगलितं विद्धि सूर्यभासा तमो यथा ॥६२॥मनःसर्पः शरीरस्थो यावत्तावन्महद्भयम् ।तस्मिन्नुत्सारिते योगाद्भयस्यावसरः कुतः ॥६३॥भ्रान्तिमात्रोत्थितश्चित्ते वेतालोऽतिबलोऽनघ ।सम्यग्ज्ञानेन मन्त्रेण प्रसभं विनिपात्यताम् ॥६४॥देहगेहाद्गते चित्तयक्षे बलवतां वरे ।निराधिर्विगतोद्वेगस्तिष्ठ नास्ति भयं तव ॥६५॥नीराग एव निरुपार्जन एव चास्मी-त्येतावतैव गलिता तव चित्तसत्ता ।निर्दुःखमुत्तमपदं परमं गतोऽसितिष्ठोपशान्तपरमैषण एवमन्तः ॥६६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु उपशमप्रकरणे स्वचित्तनिरूपणं नाम चतुर्दशः सर्गः ॥१४॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP