संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ६६ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ६६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अतिशोकपराभूतौ तस्थतुर्दृढतापसौ ।तापसंशुष्कसर्वाङ्गौ तावरण्यद्रुमाविव ॥१॥विरक्तौ विपिने कालं क्षेपयामासतुर्द्विजौ ।वियूथाविव सारङ्गावनास्थामागतौ पराम् ॥२॥जग्मुर्दिनानि मासाश्च वर्षाण्यथ तयोस्तदा ।क्रमाद्वावपि संयातौ जरां श्वभ्रद्रुमाविव ॥३॥अप्राप्तविमलज्ञानौ चिराज्जर्जरतापसौ ।तावेकदा संघटिताविदमन्योन्यमूचतुः ॥४॥विलास उवाच ।जीविताग्र्यद्रुमफल हृदावासामृताम्बुधे ।जगत्यस्मिन्महाबन्धो भास स्वागतमस्तु ते ॥५॥एतावत्यो दिनावल्लयो मद्वियोगवता त्वया ।वद क्व क्षपिताः साधो कच्चित्ते सफलं तपः ॥६॥कच्चित्ते विज्वरा बुद्धिः कञ्चिज्जातस्त्वमात्मवान् ।कच्चित्फलितविद्यस्त्वं कच्चित्कुशलवानसि ॥७॥श्रीवसिष्ठ उवाच ।इत्युक्तवन्तं संसारसमुद्विग्नमलं तथा ।प्राहाप्राप्तमहाज्ञानं सुहृत्सुहृदमादरात् ॥८॥भास उवाच ।साधो स्वागतताद्यैव दिष्ट्या दृष्टोऽसि मानद ।कुशलं तु कुतोऽस्माकं संसारे तिष्ठतामिह ॥९॥यावन्नाधिगतं ज्ञेयं यावत्क्षीणा न चित्तभूः ।यावत्तीर्णो न संसारस्तावन्मे कुशलं कुतः ॥१०॥आशा यावदशेषेण न लूनाश्चित्तसंभवाः ।वीरुधो दात्रकेणेव तावन्नः कुशलं कुतः ॥११॥यावन्नाधिगतं ज्ञानं यावन्न समतोदिता ।यावन्नाभ्युदितो बोधस्तावन्नः कुशलं कुतः ॥१२॥आत्मलाभं विना साधो विना ज्ञानमहौषधम् ।उदेति पुनरेवेयं दुःसंसृतिविषूचिका ॥१३॥शैशवाङ्कुरितोज्जृम्भान्नवयौवनपल्लवः ।जराकुसुमितोऽभ्येति पुनः संसारदुर्द्रुमः ॥१४॥कायजीर्णतरोरस्माद्बान्धवाक्रन्दषट्पदा ।जराकुसुमितोदेति पुनर्मरणमञ्जरी ॥१५॥भुक्तकर्मर्तुविरसा पुराणदिवसोम्भिता ।नीयते नीरसप्राया पुनः संवत्सरावली ॥१६॥महादरीषु देहाद्रेस्तृष्णाकण्टकितास्वपि ।फलव्यालासु च पुनः क्रियासु परिलुठ्यते ॥१७॥दुःखैः सुखलवाकारैर्दीर्घादीर्घैः शुभाशुभैः ।अपर्याप्तागमापायाः प्रयान्त्यायान्ति रात्रयः ॥१८॥अयथार्थक्रियारम्भैः कदाशावेशपल्लवैः ।क्षीयते कर्मभिस्तुच्छैरायुराहतकर्मभिः ॥१९॥उन्मूलिताश्रयालानो मनोमत्तमतङ्गजः ।तृष्णाकरेणुकोन्निद्रो दूरं विपरिधावति ॥२०॥जिह्वाचपलतालग्नः कायद्रुममहालये ।पतच्चिन्तामणौ वृद्धो गर्द्धगृध्रो विवर्धते ॥२१॥नीरसा निःसुखा लघ्वी पतत्पेलवगात्रिका ।जीर्णपर्णसवर्णेयं क्षीयते दिवसावली ॥२२॥अवमानरजोध्वस्तमस्तंगतवपुःश्रियम् ।मुखं धूसरतामेति हिमैः पद्ममिवाहतम् ॥२३॥शुष्यतः कायसरसः प्रगलद्यौवनाम्भसः ।राजहंसः क्षणादायुरनिवर्ति पलायते ॥२४॥कालानिलबलोद्धूताज्जर्जराज्जीवितद्रुमात् ।भोगपुष्पाणि दिवसपर्णानि निपतन्त्यधः ॥२५॥भोगभोगिश्रितेष्वन्तर्दुःखदर्दुरधारिषु ।मनोमोहान्धकूपेषु पूरेषु विनिमज्जति ॥२६॥नानानुरञ्जनास्पृष्टा तृष्णा तरलपेलवा ।चैत्यमग्रपताकेव दूरं समधिरोहति ॥२७॥अस्य संसारतन्त्रस्य बृहत्कालविलास्पदः ।जीविताशामयं तन्तुमन्तकाखुर्निकृन्तति ॥२८॥यौवनोत्कटकल्लोला वहल्लोलासिफेनिला ।परावर्तमहावर्ता याति जीवितदुर्नदी ॥२९॥कलाकुलजगत्कार्यकल्लोलाकुलसंकुला ।क्रियासरिदपर्यन्ता वहत्याकुलकोटरा ॥३०॥अनन्ता बन्धुजनतानद्यो गम्भीरकोटरे ।अजस्रं निपतन्त्येता वितते कालसागरे ॥३१॥देहरत्नशलाकेयं नाशपङ्कार्णवोदरे ।न ज्ञायते क्व मग्नेति तात जन्मनि जन्मनि ॥३२॥चिन्ताचक्रे चिरं बद्धं कुक्रियाचारचञ्चुरम् ।चेतो भ्रमति सामुद्रे गर्तावर्ते तृणं यथा ॥३३॥उह्यमानमनन्तेषु चेतः कार्यमहोर्मिषु ।क्षणमेति न विश्रान्तिं चिन्ताताण्डविताशयम् ॥३४॥इदं कृतं करोमीदं करिष्यामीदमित्यलम् ।कलनाजालवलिता मूर्च्छिता मतिपक्षिणी ॥३५॥अयं सुहृदयं शत्रुरिति द्वन्द्वमहाद्विपः ।विनिकृन्तति मर्माणि यथा नीलोत्पलानि मे ॥३६॥चिन्तानद्या महावर्ते वीचिकानिचये चिरम् ।क्षणादुच्छूनतामेति मनोमीनः क्षणाद्गतिः ॥३७॥अनात्मीयानि दुःखानि बहून्येवंविधान्ययम् ।आत्मबुद्ध्या विचिन्वानो जनो गच्छति दीनताम् ॥३८॥बहुविधसुखदुःखमध्यपातीविततजरामरणप्रवातभग्नः ।जगदुदरगिरौ लुठञ्जनोऽयंगतरसपर्णवदेति जर्जरत्वम् ॥३९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० उपशमप्रकरणे भासविलासवृत्तान्ते अनित्यताप्रतिपादनं नाम षट्षष्टितमः सर्गः ॥६६॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP