संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५० उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५० Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवमेषातिवितता दुर्ज्ञाना रघुनन्दन ।महामोहमयी माया विषमा पारमात्मिकी ॥१॥क्व मुहूर्तद्वयस्वप्नसंभ्रमाल्लोकदृष्टता ।क्वानेकवर्षसंभुक्तश्वपचावनिपभ्रमः ॥२॥क्व संभ्रमोपलब्धत्वं क्व प्रत्यक्षनिदर्शनम् ।क्वासत्यत्वमसंदिग्धं क्व सत्यपरिणामिता ॥३॥अतो वच्मि महाबाहो मायेयं विषमान्वहम् ।असावधानमनसं संयोजयति संकटे ॥४॥श्रीराम उवाच ।एवमस्य कथं ब्रह्मन्मायाचक्रस्य रोधनम् ।कुर्युः प्रवहतो वेगात्सर्वाङ्गच्छेदकारिणः ॥५॥श्रीवसिष्ठ उवाच ।अस्य संसाररूपस्य मायाचक्रस्य राघव ।चित्तं विद्धि महानाभिं भ्रमतो भ्रमदायिनः ॥६॥तस्मिन्द्रुतमवष्टब्धे धिया पुरुषयत्नतः ।गृहीतनाभिवहनान्मायाचक्रं निरुध्यते ॥७॥अवष्टब्धमनोनाभिमोहचक्रं न गच्छति ।यथा रज्ज्वां निरुद्धायां कीलकं रज्जुवेष्टितम् ॥८॥चक्रयुद्धैकतज्ज्ञोऽसि कस्माज्जानासि नानघ ।चक्रं नाभाववष्टब्धं वशमायाति नान्यथा ९॥चित्तं नाभिमवष्टभ्य तस्माद्यत्नेन राघव ।संसारचक्रं वहनादात्मनः परिरोधय ॥१०॥एतां युक्तिं विना दुःखमनन्तमितमात्मनः ।अस्यां दृष्टौ क्षणादन्तं गतमेवावलोकय ॥११॥चित्ताक्रमणमात्रात्तु परमादौषधादृते ।प्रयत्नेनापि संसारमहारोगो न शाम्यति ॥१२॥तस्माद्राघव संत्यज्य तीर्थदानतपःक्रियाः ।श्रेयसे परमायान्तश्चित्तमेव वशं कुरु ॥१३॥चित्तान्तरेव संसारः कुम्भान्तः कुम्भखं यथा ।चित्तनाशे न संसारः कुम्भनाशे न कुम्भखम् ॥१४॥चिरं संसरणाकाशकोटरं चित्तकुम्भखम् ।विनाश्यातुलिताकाशस्वरूपं रूपमाविश ॥१५॥वर्तमानमनायासं भजद्वाह्यधिया क्षणम् ।भूतं भविष्यदभजद्याति चित्तमचित्तताम् ॥१६॥संकल्पांशानुसंधानवर्जनं चेत्प्रतिक्षणम् ।करोषि तदचित्तत्वं प्राप्त एवासि पावनम् ॥१७॥यावत्संकल्पकलना तावच्चित्तविभूतयः ।यावज्जलदविस्तारस्तावत्खजलबिन्दवः ॥१८॥सचित्तं चेतनं यावत्तावत्संकल्पकल्पनम् ।सचन्द्रांशु जगद्यावत्तावत्प्रालेयलेशकाः ॥१९॥चेतनं चित्तरिक्तं चेद्भावितं तत्स्वसंसृतेः ।आमूलमेव दग्धानि विद्धि मूलानि सिद्धवत् ॥२०॥चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते ।निर्मनस्कस्वभावं तन्न तत्र कलनामलः ॥२१॥सा सत्यता सा शिवता सावस्था पारमात्मिकी ।सर्वज्ञता सा सा दृष्टिर्नतु यत्र मनः क्षतम् ॥२२॥मनो यत्र तु तत्राशास्तत्र दुःखसुखानि च ।सदा संनिधिमायान्ति श्मशान इव वायसाः ॥२३॥वस्तुतत्त्वावबोधेन सर्वभावव्यवस्थितेः ।ससृतिव्रततेर्बीजं संकल्पेनोपजायते ॥२४॥शास्त्रसज्जनसंपर्कसंतताभ्यासयोगतः ।जागतानामवस्तुत्वं भावानामवगम्यते ॥२५॥अविवेकादुपाहृत्य चेतसोद्यमनिश्चयैः ।बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमैः ॥२६॥मुख्यं कारणमात्मैव परमात्मावलोकने ।अगाधे पतितं रत्नं रत्नेनैवावलोक्यते ॥२७॥स्वानुभूतानि दुःखानि स्वात्मैव त्यक्तुमिच्छति ।तेनात्मैवात्मविज्ञाने हेतुरेकः परः स्मृतः ॥२८॥प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।निरस्तमननानन्तसंविन्मात्रपरो भव ॥२९॥जायमानस्तथा जीवन्म्रियमाणः क्रियारतः ।स्वात्मन्यमलतां प्राप्ते संविदंशे स्थिरो भव ॥३०॥ममेदं तदयं सोऽहमिति संत्यज्य वासनाः ।एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव ॥३१॥वर्तमानभविष्यन्त्योः स्थित्योरादेहमेकधीः ।स्वसंवित्त्यानुसंधानसमाधानपरो भव ॥३२॥बाल्ययौवनवृद्धेषु दुःखेषु च सुखेषु च ।जाग्रत्स्वप्नसुषुप्तेषु स्वसंवित्तिपरो भव ॥३३॥मलं संवेद्यमुत्सृज्य मनो निर्गलयन्परम् ।आशापाशमलं छित्त्वा स्वसंवित्तिपरो भव ॥३४॥शुभाशुभस्वसंकेतसंशान्ताशाविषूचिकः ।नष्टेष्टानिष्टदृष्टिस्त्वं संवित्सारपरो भव ॥३५॥सकर्तृकर्मकरणान्स्वास्पर्शानन्तरा स्पृशन् ।निर्विकल्पनिरालम्बः स्वचिन्मात्रपरो भव ॥३६॥जाग्रत्येव हि संसुप्तां भावयन्सुस्थिरां स्थितिम् ।सर्वमस्मीति संचिन्त्य सत्तैकात्मवपुर्भव ॥३७॥नानाऽनानादशामुक्तो युक्तो मुक्ततया समे ।समग्रकलनादीपः स्वचिन्मात्रपरो भव ॥३८॥आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरो भव ॥३९॥स्थित्वान्तर्मानसान्पाशानाशारूपानुदारया ।धिया धैर्यैकधर्मिण्या निर्धर्माधर्मता व्रज ॥४०॥समास्वादयतस्तत्त्वं स्वसंवेदनधर्मिणः ।विषं हालाहलमपि यास्यत्यमृततामथ ॥४१॥तदोदेति महामोहः संसृतिभ्रमकारणम् ।निर्मलाया निरंशायाः संवित्तेश्चामतिर्यदा ॥४२॥तदा संक्षीयते मोहः संसारभ्रमकारणम् ।निर्मलायां निरंशायां स्वसंवित्तौ स्थितिर्यदा ॥४३॥स्वरूपमनुयातस्य तीर्णस्याशामहार्णवम् ।प्रसरिष्यति ते संवित्सर्यांशुरिव सर्वतः ॥४४॥स्वभावमालोकयत आनन्दाद्वयसंस्थितेः ।रसायनमपि स्वादु राम प्रतिविषायते ॥४५॥तैर्नो भजामहे पुंभिर्ये स्वभावमुपागताः ।शेषाः पुरुषनामानो गर्दभा दीर्घबाहवः ॥४६॥पर्वतात्पर्वतं यान्ति पुरोऽद्रेरिव दन्तिनः ।परां कोटिं प्रयातस्य स्वसंवित्त्युन्नतस्थितेः ॥४७॥अदृष्टादृश्यसीम्नोऽन्तः सूर्यादीन्यखिलान्यपि ।न तेजांस्युपकुर्वन्ति स्वसंविद्दिव्यचक्षुषः ॥४८॥अवस्तुतां व्रजन्त्येते माध्याह्ना इव दीपकाः ।अर्कादयो महालोका विद्ययाधिगतात्मनः ॥४९॥तेजोंशुषु प्रभावेषु बलिष्वपि महत्स्वपि ।सर्वेषून्नतियुक्तेषु तत्त्वज्ञः परमोन्नतः ॥५०॥भान्तीह भासा यस्यार्कवह्नीन्दुमणितारकाः ।तथा जगति राजन्ते ज्ञातज्ञेया नरोत्तमाः ॥५१॥धराविवरकीटेभ्यो गर्दभेभ्योऽपि मानवः ।तिर्यग्भ्यश्चाप्यतत्त्वज्ञा राम तुच्छतराः स्मृताः ॥५२॥तावत्संमोहवेतालो देही यावदनात्मवान् ।आत्मज्ञ एव संयुक्तश्चेतनेनेति तद्विदः ॥५३॥अनात्मज्ञो हि दुःखेहः प्रस्फुरन्नपि भूतले ।शव एव भ्रमत्युच्चैरात्मज्ञस्तु सचेतनः ॥५४॥दूरादात्मज्ञता याति चित्ते पीवरतां गते ।आलोकलक्ष्मीरभितो महामेघ इवोत्थिते ॥५५॥भोगाभोगतिरस्कारैः कार्श्यं नेयं शनैर्मनः ।रसापहारैस्तज्ज्ञेन कालेनाजीर्णपर्णवत् ॥५६॥अन्यात्मन्यात्मभावेन देहमात्रास्थयानया ।पुत्रदारकुटुम्बैश्च चेतो गच्छति पीनताम् ॥५७॥अहंकारविकारेण ममतामलहेलया ।इदं ममेति भावेन चेतो गच्छति पीनताम् ॥५८॥जरामरणदुःखेन व्यर्थमुन्नतिमीयुषा ।दोषाशीविषकोशेन चेतो गच्छति पीनताम् ॥५९॥आधिव्याधिविलासेन समाश्वासेन संसृतेः ।हेयादेयप्रयत्नेन चेतो गच्छति पीनताम् ॥६०॥स्नेहेन धनलोभेन लाभेन मणियोषिताम् ।आपातरमणीयेन चेतो गच्छति पीनताम् ॥६१॥दुराशाक्षीरपानेन भोगानिलबलेन च ।आस्थादानेन चारेण चित्ताहिर्याति पीनताम् ॥६२॥आगमापायवपुषा विषवैषम्यशंसिना ।भोगाभोगेन भीमेन चेतो गच्छति पीनताम् ॥६३॥शरीरदुःश्वभ्रचिरप्ररूढंचिन्ताचयोच्चाकृतिमञ्जरीकम् ।जरामृतिव्याधिफलौघनम्रंकामोपभोगौघविकासिपुष्पम् ॥६४॥विचारसारक्रकचेन चित्त-विषद्रुमं त्वद्भुतमद्रिकल्पम् ।आशामहाशाखमशङ्कमेनंछिन्धि प्रसह्यात्र विकल्पपत्रम् ॥६५॥मत्तेक्षणं चैकतटोपवेशंविश्रान्तिसौख्येष्वसमर्थमुग्रम् ।आलोकनोत्कं सुजनक्रमाल्ल-खण्डस्य चण्डं सुखदुःखगण्डम् ॥६६॥चेतोगजं कायकुकाननस्थंसुतीक्ष्णया धीकरजाग्रपङ्क्त्या ।विदारयादीर्घविकारदन्तंक्रियाकरं राघव राजसिंह ॥६७॥रतिं गतं नित्यमसत्प्रदेशेशरीरमांसग्रसनेन पुष्टम् ।दुष्टक्रियाकर्कशचञ्चुदण्ड-मेकेक्षणं पुष्टतमोंशुकृष्णम् ॥६८॥दूरे समुत्सारय भारभूतंदुश्चेष्टितं कर्कशमारटन्तम् ।गन्धोद्गतं कायकुलायकोशा-द्दोषोपशान्त्यै निजचित्तकाकम् ॥६९॥तृष्णापिशाच्या परिचर्यमाणंविश्रान्तमज्ञानमहावटेषु ।भ्रान्तं चिरं देहशतेष्वटव्यांस्वसंसृतौ चेतनवर्जितेषु ॥७०॥विवेकवैराग्यगुरुप्रयत्न-मन्त्रैः स्वतन्त्रैः स्वचिदात्मगेहात् ।नोत्सादयेच्चित्तपिशाचमेनंयावत्कुतस्तावदिहात्मसिद्धिः ॥७१॥शुभाशुभास्यं हतमानवौघंचिन्ताविषं कायकुकञ्चुकं च ।अजस्रमच्छश्वसनाशनं चसर्वस्य नानाभयनाशदं च ॥७२॥हृदज्जदुःशाल्मलिकोटरस्थ-ममोघया चित्खगमन्त्रशक्त्या ।नीत्वा शमं राम मनोमहाहिंभयं भृशं प्रोज्झ्य भवाभयात्मा ॥७३॥अमङ्गलाकारधरः शरीर-शवावलीसंततसेवनेन ।दिगावलीसंभ्रमणश्रमार्तःश्मशानसेवी वपुषा क्षतेन ॥७४॥भोगमिषो दिक्ष्वभिधावमानउत्कन्धरो धीरविवृद्धगर्धः ।उड्डीय वै गच्छति चित्तगृध्रोदेहद्रुमात्तन्निपुणं जयस्ते ॥७५॥भ्रान्तं वनान्तेषु दिगन्तरेषुफलार्थिनं चञ्चलमाकुलाङ्गम् ।जन्मावनेर्जन्ममहिं प्रयातंसंसारबन्धं जनतां हसन्तम् ॥७६॥द्रुमेऽक्षिनासाकुसुमे भुजादि-शाखे विलोलाङ्गुलिजालपत्रे ।समुल्लसन्तं परिमारयान्त-र्मनोमहामर्कटमङ्ग सिद्ध्यै ॥७७॥अभ्युत्थितं सत्फलसंक्षयायलसन्मुखासङ्गितडित्प्रकाशम् ।वर्षन्तमासारमनर्थसार्थ-मान्दोलितं वासनवात्ययान्तः ॥७८॥संकल्पसंकल्पनवर्जनोग्र-मन्त्रप्रभावाद्हृदयाम्बरस्थम् ।सोत्साहमुत्सादय चित्तमेघंबृहत्फलं प्राप्य भवालमाद्यः ॥७९॥ग्रन्थीकृतं कर्मभिरात्मसृष्टे-र्मन्त्रैरभेद्यं ज्वलनैरदग्धम् ।पीडां परामात्मनि कल्पयन्तंसमस्तजात्यन्तरदीर्घदाम ॥८०॥संप्रोतनिःसंख्यशरीरमालंबलादसंकल्पनमात्रशस्त्रैः ।छित्त्वा स्वयं राघव चित्तपाशंयथासुखं त्वं विहरास्तशङ्कः ॥८१॥फूत्कारदग्धाखिलपान्थलोक-मत्यन्तदुष्प्रापपरप्रबोधम् ।आशीविषं शोषितलोकखण्डंव्यात्त्यामिषोद्धूतशरीरदण्डम् ॥८२॥आमन्थरं देहगुहासु गुप्तंसंकल्पघोराजगरं जवेन ।अकामनानाममहानलेनबलेन दग्ध्वा विभवो भव त्वम् ॥८३॥चित्तेन चेतः शममाशु नीत्वाशुद्धेन घोरास्त्रमिवास्त्रयुक्त्या ।चिराय साधो त्यज चञ्चलत्वंविमर्कटो वृक्ष इवाक्षतश्रीः ॥८४अमलमिति च कृत्वा चेतसा वीतशङ्क-मुपशमितमनोऽन्तः सर्वमादेहमेव ।तृणलवलघु पश्यँल्लीलया हेयदृष्ट्यापिव विहर रमस्व प्राप्तसंसारपारः ॥८५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे राघवाशयविनियोगो नाम पञ्चाशः सर्गः ॥५०॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP