उपशमप्रकरणम् - सर्गः २१
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
एवं प्रबोधितस्तेन तदा पुण्येन पावनः ।
प्रबोधमाप प्राकाश्यं प्रभात इव भूतलम् ॥१॥
उभावपि ततः सिद्धौ ज्ञानविज्ञानपारगौ ।
विचेरतुर्वने तस्मिन्यावदिच्छमनिन्दितौ ॥२॥
ततः कदाचित्कालेन निर्वाणपदमागतौ ।
तौ विदेहौ गतस्नेहौ दीपाविव शमं गतौ ॥३॥
एवं प्राग्भुक्तदेहानामनन्ता जनबन्धुता ।
आः कैः किं गृह्यते ताभ्यः किं वा संत्यज्यतेऽनघ ॥४॥
तस्मादासामनन्तानां तृष्णानां रघुनन्दन ।
उपायस्त्याग एवैको न नाम परिपालनम् ॥५॥
चिन्तनेनैधते चिन्ता त्विन्धनेनेव पावकः ।
नश्यत्यचिन्ततेनैव विनेन्धनमिवानलः ॥६॥
ध्येयत्यागरथारूढः करुणोदारया दृशा ।
लोकमालोकयन्दीनमातिष्ठोत्तिष्ठ राघव ॥७॥
एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा विगतामया ।
एनां प्राप्य महाबाहो विमूढोऽपि न मुह्यति ॥८॥
एकं विवेकं सुहृदमेकां प्रौढसखीं धियम् ।
आदाय विहरन्नेव संकटेषु न मुह्यति ॥९॥
विनिवारितसर्वार्थादपहस्तितबान्धवात् ।
न स्वधैर्यादृते कश्चिदभ्युद्धरति संकटात् ॥१०॥
वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि ।
यत्नेनापद्विघातार्थं स्वयमेवोन्नयेन्मनः ॥११॥
न तत्त्रिभुवनैश्वर्यान्न कोशाद्रत्नधारिणः ।
फलमासाद्यते चित्ताद्यन्महत्त्वोपबृंहितात् ॥१२॥
तदेतस्मिञ्जगत्कुक्षौ पातोत्पातनदोलनैः ।
पतन्ति पुरुषा ये वै मनस्तेषां गतज्वरम् ॥१३॥
पूर्णे मनसि संपूर्णं जगत्सर्वं सुधाद्रवैः ।
उपानद्रूढपादस्य ननु चर्मास्तृतैव भूः ॥१४॥
वैराग्यात्पूर्णतामेति मनो नाशावशानुगम् ।
आशया रिक्ततामेति शरदेव सरोमलम् ॥१५॥
हृदयं शून्यतामेति प्रकटीकृतकोटरम् ॥
अगस्तिपीतार्णववदाशाविवशचेतसाम् ॥१६॥
यस्य चित्ततरौ स्फारे तृष्णाचपलमर्कटी ।
न वल्गति महत्तस्य राजते हृद्वनं ततम् ॥१७॥
पद्माक्षकोशं त्रिजगद्गोष्पदं योजनव्रजम् ।
निमेषार्धं महाकल्पः स्पृहारहितचेतसाम् ॥१८॥
शीतता सा न शीतांशोर्न हिमाचलकन्दरे ।
न रम्भाचन्दनावल्यां निःस्पृहेषु मनःसु या ॥१९॥
न तथा भाति पूर्णेन्दुर्न पूर्णः क्षीरसागरः ।
न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः ॥२०॥
यथाब्दलेखा शशिनं सुधालेपं मषी यथा ।
दूषयत्येवमेवान्तर्नरमाशापिशाचिका ॥२१॥
आशाख्याश्चित्तवृक्षस्य शाखाः स्थगितदिक्तटाः ।
तासु च्छिन्नास्वरूपत्वं याति चित्तमहाद्रुमः ॥२२॥
छिन्नतृष्णामहाशाखे चित्तस्थाणौ स्थितिं गते ।
एकरूपतया धैर्यं प्रयाति शतशाखताम् ॥२३॥
अनस्तमितधैर्येण तेन चित्ते क्षयं गते ।
तत्पदं प्राप्यते राम यत्र नाशो न विद्यते ॥२४॥
एतासां चित्तवृत्तीनामाशानामुत्तमाशयः ।
न ददासि प्ररोहं चेत्तद्भयं नास्ति राघव ॥२५॥
चित्तं वृत्तिविहीनं ते यदा यातमचित्तताम् ।
तदा मोक्षमयीमन्तः सत्तामाप्नोषि तां तताम् ॥२६॥
चित्तकौशिकपक्षिण्या तृष्णया क्षुब्धयान्तरे ।
अमङ्गलानि विस्तारमलमायान्ति राघव ॥२७॥
चिन्तनं वृत्तिरित्युक्तं वर्तते चित्तमाशया ।
चित्तवृत्तिमतो ह्याशां त्यक्त्वा निश्चित्ततां व्रज॥२८॥
यो यया वर्तते वृत्त्या स तयैव विना क्षयी ।
अतश्चित्तोपशान्त्यर्थं तद्वृत्तिं प्रक्षयं नय ॥२९॥
प्रशमितसकलैषणो महात्म-
न्भव भवबन्धमपास्य मुक्तचित्तः ।
मनसि निगडरज्जवः कदाशाः
परिगलितासु च तासु को न मुक्तः ॥३०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे तृष्णाविचिकित्सायोगोत्पत्तिर्नामैकविंशः सर्गः ॥२१॥
N/A
References : N/A
Last Updated : September 20, 2021
TOP