संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ९२ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ९२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९२ Translation - भाषांतर श्रीराम उवाच ।एतानि तानि प्रोक्तानि त्वया बीजानि मानद ।कतमस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥१॥श्रीवसिष्ठ उवाच ।एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् ।तस्य तस्य प्रयोगेण शीघ्रमासाद्यते पदम् ॥२॥सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि ।पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥३॥स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् ।क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥४॥सत्तासामान्यरूपे वा करोषि स्थितिमङ्ग चेत् ।तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् ॥५॥संवित्तत्त्वे कृतध्यानो यदि तिष्ठसि चानघ ।तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥६॥संवेद्ये केवले ध्यानं न संभवति राघव ।सर्वत्र संभवादस्याः संवित्तेरेव सर्वदा ॥७॥यच्चिन्तयसि यद्यासि यत्तिष्ठसि करोषि च ।तत्र तत्र स्थिता संवित्संविदेव तदेव सा ॥८॥वासनासंपरित्यागे यदि यत्नं करोषि च ।तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात् ॥९॥पूर्वेभ्यस्तु प्रयत्नेभ्यो विषमोऽयं हि संस्मृतः ।दुःसाध्यो वासनात्यागः सुमेरून्मूलनादपि ॥१०॥यावद्विलीनं न मनो न तावद्वासनाक्षयः ।न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ॥११॥यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ।यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ॥१२॥यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः ।यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनाक्षयः ॥१३॥तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।मिथः कारणतां गत्वादुःसाध्यानि स्थितान्यतः ॥१४॥तस्माद्राघव यत्नेन पौरुषेण विवेकिना ।भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रयेत् ॥१५॥सर्वथा ते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः ।तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः ॥१६॥वासनाक्षयविज्ञानमनोनाशा महामते ।समकालं चिराभ्यस्ता भवन्ति फलदा मुने ॥१७॥एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् ।तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीलिता इव ॥१८॥चिरकालोपरचिता अप्येते सुधियापि च ।एकशः परमभ्येतुं न शक्ताः सैनिका इव ॥१९॥सममुद्योगमानीताः सन्त एते हि धीमता ।संसाराब्धिं निकृन्तन्ति जलान्यद्रितटानिव ॥२०॥वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः ।समं सेव्यास्तव चिरं तेन तात न लिप्यसे ॥२१॥त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः ।निःशेषमेव त्रुट्यन्ति विसच्छेदाद्गुणा इव ॥२२॥जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः ।सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥२३॥गच्छन्शृण्वन्स्पृशञ्जिघ्रंस्तिष्ठञ्जाग्रत्स्वपंस्तथा ।श्रेयसे परमायास्य त्रयस्याभ्यासवान्भव ॥२४॥वासनासंपरित्यागसमं प्राणनिरोधनम् ।विदुस्तत्त्वविदस्तस्मात्तदाप्येवं समाहरेत् ॥२५॥वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् ।प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥२६॥प्राणायामचिराभ्यासैर्युक्त्या च गुरुदत्तया ।आसनाशनयोगेन प्राणस्पन्दो निरुद्ध्यते ॥२७॥यथाभूतार्थदर्शित्वाद्वासना न प्रवर्तते ।आदावन्ते च वस्तूनामविसंवादि यत्स्थितम् ॥२८॥रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना ।निःसङ्गव्यवहारित्वाद्भवभावनवर्जनात् ॥२९॥शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ।वासनाविभवे नष्टे न चित्तं संप्रवर्तते ॥३०॥संशान्ते पवनस्पन्दे यथा पांसुर्नभस्तले ।यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि ॥३१॥तस्माज्जगति जायन्ते पांसवोऽवकरादिव ।प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः ॥३२॥उपविश्योपविश्यैकचित्तकेन मुहुर्मुहुः ।अथवैनं क्रमं त्यक्त्वा चित्ताक्रमणमेव चेत् ॥३३॥रोचते तत्तदाप्नोषि कालेन बहुना पदम् ।न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥३४॥अङ्कुशेन विना मत्तं यथा दुष्टं मतङ्गजम् ।अध्यात्मविद्याधिगमः साधुसङ्गम एव च ॥३५॥वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥३६॥याभिस्तज्जीयते क्षिप्रं धाराभिरिव भूरजः ।सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये ॥३७॥चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः ।विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ॥३८॥ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ।चित्तं चित्तस्य वाऽदूरं संस्थितं स्वशरीरकम् ॥३९॥साधयन्ति समुत्सृज्य युक्तिं ये तान्हठान्विदुः ।भयाद्भयमुपायान्ति क्लेशात्क्लेशं व्रजन्ति ते ॥४०॥निर्धृतिं नाधिगच्छन्ति दुर्भगा इव जन्तवः ।भ्रमन्ति गिरिकूटेषु फलपल्लवभोजनाः ॥४१॥मुग्धमुग्धधियो भीता वराका हरिणा इव ।मतिरालूनशीर्णाङ्गी तदीया पेलवाङ्गिका ॥४२॥न क्वचिद्याति विश्वासं मृगी ग्रामगता यथा ।कल्लोलकलितं चेतस्तेषां जल इवाऽहिते ॥४३॥प्रोह्यते प्रपतद्दूरं तृणं गिरिनदीष्विव ।कालं यज्ञतपोदानतीर्थदेवार्चनभ्रमैः ॥४४॥चिरमाधिशतोपेताः क्षपयन्ति मृगा इव ।आत्मतत्त्वं विधिवशात्कदाचित्केचिदेव ते ॥४५॥दुःखदोषशतादग्धा विदन्ति न विदन्ति वा ।आगमापायिनोऽनित्या नरकस्वर्गमानुषैः ॥४६॥पातोत्पातकराकाराः क्षीयन्ते कन्दुका इव ।इतो गच्छन्ति नरकं ततः स्वर्गमिहैव च ॥४७॥आवृत्तिभिर्निवर्तन्ते सरसीव तरङ्गकाः ।तस्माच्चैतां परित्यज्य दुर्दृष्टिं रघुनन्दन ॥४८॥शुद्धां संविदमाश्रित्य वीतरागः स्थिरो भव ।ज्ञानवानेव सुखवान्ज्ञानवानेव जीवति ।ज्ञानवानेव बलवांस्तस्माज्ज्ञानमयो भव ॥४९॥संवेद्यवर्जितमनुत्तममाद्यमेकंसंवित्पदं विकलनं कलयन्महात्मन् ।हृद्येव तिष्ठ कलनारहितः क्रियां तुकुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिनिराकरणक्रमयोगोपदेशो नाम द्विनवतितमः सर्गः ॥९२॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP