संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ९१

उपशमप्रकरणम् - सर्गः ९१

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
परमाकाशकोशाद्रिरूढलोकान्तरद्रुमम् ।
तारकापुष्पशबलं देवासुरविहंगमम् ॥१॥
विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् ।
सर्वर्तुरम्यचन्द्रार्कगणरम्यकदन्तुरम् ॥२॥
सप्ताब्धिवापीवलितं सरिच्छतमनोहरम् ।
चतुर्दशविधानन्तभूतजातोपजीवितम् ॥३॥
जगत्काननमाक्रम्य स्थितायाः कृतजालकम् ।
ब्रह्मन्संसृतिमृद्वीकालताया वितताकृतेः ॥४॥
जरामरणपर्वायाः सुखदुःखफलावलेः ।
आरूढमूलमालाया मोहसेकजलाञ्जलेः ॥५॥
किं बीजमथ बीजस्य तस्य किं बीजमुच्यते ।
अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत् ॥६॥
सर्वमेतत्समासेन पुनर्बोधविवृद्धये ।
सिद्धये ज्ञानसारस्य वद मे वदतांवर ॥७॥
श्रीवसिष्ठ उवाच ।
अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् ।
संसृतिव्रततेर्बीजं शरीरं विद्धि राघव ॥८॥
शाखाप्रतानगहना फलपल्लवशालिनी ।
तेनेयं भवति स्फीता शरदीव वसुन्धरा ॥९॥
भावाभावदशाकोशं दुःखरत्नसमुद्गकम् ।
बीजमस्य शरीरस्य चित्तमाशावशानुगम् ॥१०॥
चित्तादिदमुदेत्युच्चैः सदसच्चाङ्गजालकम् ।
तथा चैतत्स्वयं स्वप्नसंभ्रमेष्वनुभूयते ॥११॥
यथा गन्धर्वसंकल्पात्पुरमेवं हि चेतसः ।
सवातायनमाकारभासुरं जायते वपुः ॥१२॥
यदिदं किंचिदाभोगि जागतं दृश्यतां गतम् ।
रूपं तच्चेतसः स्फारं घटादित्वं मृदो यथा ॥१३॥
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥१४॥
यदा प्रस्पन्दते प्राणो नाडीसंस्पर्शनोद्यतः ।
तदा संवेदनमयं चित्तमाशु प्रजायते ॥१५॥
यदा न स्पन्दते प्राणः शिरासरणिकोटरे ।
असंवित्तिवशात्तेन चित्तमन्तर्न जायते ॥१६॥
प्राणस्पन्दनमेवेदं चित्तद्वारेण दृश्यते ।
जगन्नामागतं व्योम्नि नीलत्वादिवदीदृशम् ॥१७॥
प्राणस्पन्दनसुप्ता च तच्छान्तिं शान्तिरुच्यते ।
प्राणसंस्पन्दनात्संविद्याति वीटेव चोदिता ॥१८॥
संवित्स्फुरति देहेषु प्राणस्पन्दप्रबोधिता ।
चक्रावर्तैरङ्गणेषु वीटेव करताडिता ॥१९॥
सती सर्वगता संवित्प्राणस्पन्देन बोध्यते ।
सूक्ष्मात्सूक्ष्मतराकारा गन्धलेखेव वायुना ॥२०॥
संवित्संरोधने श्रेयः परमं विद्धि राघव ।
कारणाक्रमणं यत्र क्षोभस्तत्र न विद्यते ॥२१॥
संवित्समुदितैवाशु याति संवेद्यमादरात् ।
संवेदनादनन्तानि ततो दुःखानि चेतसः ॥२२॥
संसुप्तान्तरबोधाय संवित्संतिष्ठते यदा ।
लब्धं भवति लब्धव्यं तदा तदमलं पदम् ॥२३॥
तस्मात्प्राणपरिस्पन्दैर्वासनाचोदनैस्तथा ।
नो चेत्संविदमुच्छूनां करोषि तदजो भवान् ॥२४॥
संविदुच्छूनतां चित्तं विद्धि तेनेदमाततम् ।
अनर्थजालमालूनविशीर्णजनजीवकम् ॥२५॥
योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् ।
प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः ॥२६॥
चित्तोपशान्तिफलदं परमं साम्यकारणम् ।
सुभगं संविदः स्वास्थ्यं प्राणसरोधनं विदुः ॥२७॥
ज्ञानवद्भिः प्रकटितामनुभूतां च राघव ।
चित्तस्योत्पत्तिमपरां वासनाजीवितां श्रृणु ॥२८॥
दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥२९॥
भावितस्तीव्रसंवेगादात्मना यत्तदेव सः ।
भवत्याशु महाबाहो विगतेतरसंस्मृतिः ॥३०॥
तादृग्रूपः स पुरुषो वासनाविवशीकृतः ।
यत्पश्यति तदेतत्तत्सद्वस्त्विति विमुह्यति ॥३१॥
वासनावेगवैवश्यात्स्वरूपं प्रजहाति तत् ।
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥३२॥
असम्यग्ज्ञानवानेव भवत्याधिपरिप्लुतः ।
अन्तस्थया वासनया विषेणेव वशीकृतः ॥३३॥
असम्यग्दर्शनं यस्मादनात्मन्यात्मभावनम् ।
यदवस्तुनि वस्तुत्वं तच्चित्तं विद्धि राघव ॥३४॥
दृढाभ्यासपदार्थैकवासनादतिचञ्चलम् ।
चित्तं संजायते जन्मजरामरणकारणम् ॥३५॥
यदा न वास्यते किंचिद्धेयोपादेयरूपि यत् ।
स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥३६॥
अवासनत्वात्सततं यदा न मनुते मनः ।
अमनस्ता तदोदेति परमोपशमप्रदा ॥३७॥
यदा किंचिन्न संवित्तौ स्फुरत्यभ्रमिवाम्बरे ।
तदा पद्म इवाकाशे चित्तमन्तर्न जायते ॥३८॥
यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि ।
तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥३९॥
एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव ।
यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च ॥४०॥
न किंचित्कल्पनायोग्यं दृश्यं भावयतस्ततः ।
आकाशकोशस्वच्छस्य कुतश्चित्तोदयो भवेत् ॥४१॥
यदभावनमास्थाय यदभावस्य भावनम् ।
यद्यथावस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥४२॥
सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् ।
वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥४३॥
वासनाया रसाध्यानाद्रागो यस्य न विद्यते ।
तस्य चित्तमचित्तत्वं गतं सत्त्वं तदुच्यते ॥४४॥
घना न वासना यस्य पुनर्जननकारिणी ।
जीवन्मुक्तः स सत्त्वस्थश्चक्रभ्रमवदास्थितः ॥४५॥
भृष्टबीजोपमा येषां पुनर्जननवर्जिता ।
वासनारसनिर्हीना जीवन्मुक्ता हि ते स्थिताः ॥४६॥
सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः ।
अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥४७॥
द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥४८॥
मिथः कारणमेते हि बीजे जन्मनि चेतसः ।
जलाङ्गीकरणे राम जलाशयघटाविव ॥४९॥
घना न वासना यस्य पुनर्जननकारिणी ।
बीजाङ्कुरवदेते हि संस्थिते तिलतैलवत् ॥५०॥
अविनाभाविनी नित्यं कालाकाङ्क्षिक्रमे तथा ।
सर्वमुत्पादयत्येतच्चित्तकः संविदात्मकः ॥५१॥
यथाप्राणेन्द्रियानन्दमानन्दपवनावुभौ ।
चित्तस्योत्पादिके सार्धं यदैते वासने तदा ॥५२॥
आमोदपुष्पवत्तैलतिलवच्च व्यवस्थिते ।
वासनावशतः प्राणस्पन्दस्तेन च वासना ॥५३॥
जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ।
वासनोत्प्लवमानत्वात्संवित्प्रक्षोभकर्मणा ॥५४॥
प्राणस्पन्दं बोधयति तेन चित्तं प्रजायते ।
प्राणः स्पन्दनधर्मित्वात्स्पन्दते स्पृष्टहृद्गुणः ॥५५॥
संविदं बोधयंस्तेन चित्तबालः प्रजायते ।
एवं हि वासनाप्राणस्पन्दौ द्वौ तस्य कारणम् ॥५६॥
तयोरेकक्षये नाशो द्वयोश्चित्तस्य राघव ।
सुखदुःखमनःस्पन्द शारीरकवृहत्फलम् ॥५७॥
कार्यपल्लविताकारं कृतिव्रततिवेष्टितम् ।
तृष्णाकृष्णाहिवलितं रागरोगबकालयम् ॥५८॥
अज्ञानमूलं सुदृढं लीनेन्द्रियविहंगमम् ।
वासना क्षयमानीता चित्तवृक्षं क्षणेन हि ॥५९॥
प्रपातयति वातौघः कालपक्वफलं यथा ।
पाण्डुरीकृतसर्वाशं स्थगिताखिलदर्शनम् ॥६०॥
विलोलजलदाकारमज्ञानावकरोत्थितम् ।
तृष्णातृणलवव्याप्तं स्तम्भाकृति शरीरकम् ॥६१॥
स्फुरत्तनु तनुक्षुब्धं सुखमुत्प्लवनं प्रति ।
अन्तःस्थितमहालोकमपश्यत्प्रविलीयते ॥६२॥
पवनस्पन्दरोधाच्च राम चित्तरजः क्षणात् ।
वासनाप्राणपवनस्पन्दयोरनयोर्द्वयोः ॥६३॥
संवेद्यं बीजमित्युक्तं स्फुरतस्तौ यतस्ततः ।
हृदि संवेद्यमाप्यैव प्राणस्पन्दोऽथ वासना ॥६४॥
उदेति तस्मात्संवेद्यं कथितं बीजमेतयोः ।
संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने ॥६५॥
समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ।
संविदं विद्धि संवेद्यं बीजं धीरतया विना ॥६६॥
न संभवति संवेद्यं तैलहीनस्तिलो यथा ।
न बहिर्नान्तरे किंचित्संवेद्यं विद्यते पृथक् ॥६७॥
संवित्स्फुरन्ती संकल्पात्संवेद्यं पश्यति स्वतः ।
स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः ॥६८॥
स्वचमत्कारयोगेन संवेद्यं संविदस्तथा ।
स्ववेदनं स्वसंकल्पात्संविदो यत्र वर्तते ॥६९॥
जगज्जालमतो भाति तदिदं रघुनन्दन ।
यथा बालस्य वेतालः स्वसंकल्पोद्भवाद्भवेत् ॥७०॥
पुरुषत्वं यथा स्थाणोः संवेद्यं संविदस्तथा ।
यथा चन्द्रार्करश्मीनां दण्डता रेणुता तथा ॥७१॥
यथा नौस्थाचलस्पन्दः संवेद्यं संविदस्तथा ।
एतन्मिथ्या हि दुर्ज्ञानं सम्यग्ज्ञानाद्विलीयते ॥७२॥
रज्ज्वामिव भुजङ्गत्वं द्वीन्दुत्वं स्वीक्षितादिव ।
शुद्धैव संवित्त्रिजगत्सवेद्यं नान्यदस्त्यलम् ॥७३॥
इत्यन्तर्निश्चयो रूढः सम्यग्ज्ञानं विदुर्बुधाः ।
पूर्वं दृष्टमदृष्टं वा यदस्याः प्रतिभासते ॥७४॥
संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ।
तदमार्जनमात्रं हि महासंसारसंगतम् ॥७५॥
तत्प्रमार्जनमात्रं तु मोक्ष इत्यनुभूयते ।
संवेदनमनन्ताय दुःखाय जननात्मने ॥७६॥
असंवित्तिरजाड्यस्था सुखायाजननात्मने ।
अजडो गलितानन्दस्त्यक्तसंवेदनो भव ।
असंवेद्यप्रबुद्धात्मा यस्तु स त्वं रघूद्वह ॥७७॥
श्रीराम उवाच ।
अजडश्चाप्यसंवित्तिः कीदृशो भवति प्रभो ।
असंवित्तौ च जाड्यं तत्कथं वा विनिवर्तते ॥७८॥
श्रीवसिष्ठ उवाच ।
यः सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित् ।
जीवो न विन्दते किंचिदसंविदजडो हि सः ॥७९॥
संविद्वस्तुदृशालम्बः स यस्येह न विद्यते ।
सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि ॥८०॥
संवेद्येन हृदाकाशो मनागपि न लिप्यते ।
यस्यासावजडा संविज्जीवन्मुक्तश्च कथ्यते ॥८१॥
यदा न भाव्यते किंचिन्निर्वासनतयात्मनि ।
बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥८२॥
तदा जाड्यविनिर्मुक्तमच्छवेदनमाततम् ।
आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥८३॥
समस्तवासनात्यागी निर्विकल्पसमाधितः ।
नीलत्वमिव खात्स्फार आनन्दः संप्रवर्तते ॥८४॥
योगिनस्तत्र तिष्ठन्ति संवेदनमसंविदः ।
तन्मयत्वादनाद्यन्तं तदप्यन्तर्विलीयते ॥८५॥
गच्छंस्तिष्ठन्स्पृशञ्जिघ्रन्नपि तेन स उच्यते ।
अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी ॥८६॥
एतां दृष्टिमवष्टभ्य कष्टया यत्नचेष्टया ।
तर दुःखाम्बुधेः पारमपारगुणसागर ॥८७॥
यथा बीजाद्बृहद्वृक्षो व्योम व्याप्नोति कालतः ।
तथैवेदं स्वसंकल्पात्संवेद्यमसदुत्थितम् ॥८८॥
यदा संकल्प्य संकल्प्य संवित्स्वं विन्दते वपुः ।
तदास्य जन्मजालस्य सैव गच्छति बीजताम् ॥८९॥
जनयित्वात्मनात्मानं मोहयित्वा पुनःपुनः ।
स्वयं मोक्षं नयत्यन्तः संवित्स्वं विद्धि राघव ॥९०॥
यदेव भावयत्येषा तदेव भवति क्षणात् ।
न भवद्भूमिकामुक्ता समायाति चिराद्वपुः ॥९१॥
देवो नासौ सुरो रक्षो यक्षः किं किन्नरो जनः ।
आत्मैवाद्यविलासिन्या जगन्नाट्यं प्रनृत्यति ॥९२॥
बद्ध्वात्मानं रुदित्वा च कोशकारकृमिर्यथा ।
चिरात्केवलतामेति स्वयं संवित्स्वभावतः ॥९३॥
जगज्जलधिजालानां संविज्जलमलं गता ।
एषैवापूर्वदिक्चक्रं स्फुरत्यद्व्यादितां गता ॥९४॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इत्यस्या वीचयः प्रोक्ताः संवित्सलिलसंततेः ॥९५॥
संविन्मात्रं जगत्सर्वं द्वितीया नास्ति कल्पना ।
इत्येव सम्यग्ज्ञानेन संविद्गच्छति नान्यताम् ॥९६॥
यदा न विन्दते किंचित्स्पन्दते न न वेपते ।
स्वात्मन्येव स्थितिं याति संविन्नो लिप्यते तदा ॥९७॥
अथास्याः संविदो राम सन्मात्रं बीजमुच्यते ।
संविन्मात्रादुदेत्येषा प्राकाश्यमिव तेजसः ॥९८॥
द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम् ।
द्वितीयमेकरूपं तु विभागोऽयं तयोः श्रृणु ॥९९॥
घटता पटता चैव त्वत्ता मत्तेति कथ्यते ।
सत्तारूपविभागेन यत्तन्नानाकृति स्थितम् ॥१००॥
विभागं तु परित्यज्य सत्तैकात्मतया ततम् ।
सामान्येनैव सत्ताया रूपमेकमुदाहृतम् ॥१०१॥
विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् ।
एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥१०२॥
रूपं नानाकृतित्वेन सत्ताया न कदाचन ।
असंवेद्यं संभवति तस्मादेतदवस्तुकम् ॥१०३॥
एकरूपं तु यद्रूपं सत्ताया विमलात्मकम् ।
न कदाचन तद्याति नाशं नापि च विस्मृतिम् ॥१०४॥
कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि ।
विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥१०५॥
कालसत्ता स्वसत्ता च प्रोन्मुक्तकलना सती ।
यद्यप्युत्तमसद्रूपा तथाप्येषा न वास्तवी ॥१०६॥
विभागकलना यत्र विभिन्नपददायिनी ।
नानाताकारणं दृष्टा तत्कथं पावनं भवेत् ॥१०७॥
सत्तासामान्यमेवैकं भावयत्सकलं वपुः ।
परिपूर्णपरानन्दी तिष्ठाभरितदिग्भरः ॥१०८॥
सत्ता सामान्यमात्रस्य या कोटिः कोविदेश्वर ।
सैवास्य बीजतां याता तत एव प्रवर्तते ॥१०९॥
सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् ।
पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥११०॥
सत्ता लयं याति यत्र निर्विकारं च तिष्ठति ।
भूयो नावर्तते दुःखे तत्र लब्धपदः पुमान् ॥१११॥
तद्धेतुः सर्वहेतूनां तस्य हेतुर्न विद्यते ।
संसारः सर्वसाराणां तस्मात्सारं न विद्यते ॥११२॥
तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।
इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥११३॥
सर्वे भावा इमे तत्र स्वदन्ते साधुवारिधेः ।
षड्रसा इव जिह्वायाः प्रकटत्वं प्रयान्ति च ॥११४॥
तस्मादच्छतरस्यापि चिदाकाशस्य वै पदम् ।
सर्वेषां स्वादुजातीनामलमास्वादनं च तत् ॥११५॥
जायते वर्तते चैव वर्धते स्पृश्यतेऽथ वा ।
तिष्ठन्ति च गलन्तीह तत्राङ्ग जगतां गणाः ॥११६॥
तत्तद्गुरु गरिष्ठानां तत्तल्लघु लघीयसाम् ।
तत्तत्स्थूलं स्थविष्ठानामणीयस्तदणीयसाम् ॥११७॥
दवीयसां दविष्ठं तदन्तिकानां तदन्तिकम् ।
कनीयसां कनीयस्तत्तज्ज्येष्ठं ज्यायसामपि ॥११८॥
तेजसामपि तत्तेजस्तमसामपि तत्तमः ।
वस्तूनामपि तद्वस्तु दिशामप्यङ्ग दिक्परा ॥११९॥
तन्न किंचिच्च किंचिच्च तत्तदस्तीव नास्ति च ।
तत्तद्दृश्यमदृश्यं च तत्तदस्मि न चास्मि च ॥१२०॥
राम सर्वप्रयत्नेन तस्मिन्परमपावने ।
पदे स्थितिमुपायासि यथा कुरु तथानघ ॥१२१॥
तदमलमजरं तदात्मतत्त्वं
तदवगतावुपशान्तिमेति चेतः ।
अवगतविततैकतत्स्वरूपो
भवभयमुक्तपदोऽसि तच्चिराय ॥१२२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिबीजविचारयोगोपदेशो नामैकनवतितमः सर्गः ॥९१॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP