संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ८३ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ८३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।भूयो मुनिवरो धीरो धिया धवलमेधया ।स्वमिन्द्रियगणं गुप्तो बोधयामास साध्विदम् ॥१॥तच्चेन्द्रियगणस्यार्थे श्रृणु वक्ष्यामि ते स्फुटम् ।श्रुत्वा तद्भावनामेत्य परां निर्दुःखतां व्रज ॥२॥भवतामात्मसत्तैषा दुःखायैवान्तदायिनी ।असत्यामात्मनः सत्तां तद्भवन्तस्त्यजन्त्विति ॥३॥मदीयेनोपदेशेन सत्तैषा भवतां क्षयम् ।गतैवेति स्फुटं मन्ये यूयं ह्यज्ञानसंभवाः ॥४॥स्वसत्ता स्फुटतां याति दुःखाय तव चित्तक ।तप्तकाञ्चनरुल्लासो दाहायैव स्वपार्श्वयोः ॥५॥पश्य त्वयि सति भ्रान्तजलकल्लोलसंकुलाः ।विशन्ति कालजलधिं संसारसरितां गणाः ॥६॥पतन्त्यहमहमिकाविहितान्योन्यचिन्तिताः ।कुतोऽपि दुःखावलयो धारा आसारगा इव ॥७॥परिस्फुरत्यपर्यन्ता हृदयोन्मूलनोद्यता ।आक्रन्दकारिणी क्रूरा भावाभावविषूचिका ॥८॥कासश्वासरणद्भृङ्गा कलेवरजरद्द्रुमे ।विकसत्यमलोद्योता जरामरणमञ्जरी ॥९॥कल्लोलव्यालवलिते शरीरश्वभ्रकोटरे ।घननीहारखे स्वान्तश्चिन्ताचपलमर्कटी ॥१०॥लोभनाट्यारटत्पक्षी तीक्ष्णया द्वन्द्वतुण्डया ।कायजीर्णद्रुमादस्माद्गुणखण्डं निकृन्तति ॥११॥हृदयावकरं कीर्णमितश्चेतश्च कर्कशः ।अपवित्रो दुराचारः कुरुते कामकुक्कुटः ॥१२॥महत्यां मोहयामिन्यामुल्बणोऽज्ञानकौशिकः ।श्मशान इव वेतालः परिवल्गति हृद्द्रुमे ॥१३॥एताश्चान्याश्च बह्व्योऽपि त्वयीन्द्रियगणे सति ।पिशाच्य इव शर्वर्यां प्रवल्गन्त्यशुभश्रियः ॥१४॥त्वयि त्वसति हे साधो सर्वा एव शुभश्रियः ।प्रभात इव पद्मिन्यः सालोकं विलसन्त्यलम् ॥१५॥प्रशान्तमोहमिहिकं राजते हृदयाम्बरम् ।निर्मलालोकवलितं नीरजस्कतरान्तरम् ॥१५॥अशङ्कितनभःकोशपतिताकुलपूरवत् ।नापतन्ति विकल्पौघाश्चिरं वैकल्यकारिणः ॥१७॥सर्वस्याह्लादनी शान्ता मैत्री परमपावनी ।अभ्युदेति हृदो हृद्या सुतरोरिव मञ्जरी ॥१८॥अन्तश्छिद्रवती जाड्ययुक्तायुक्तगुणा स्वयम् ।चिन्ता शोषमुपायाति हिमदग्धेव पद्मिनी ॥१९॥आलोकः स्फुटतामन्तरायात्यज्ञानसंक्षये ।प्रशाम्यत्यम्बुदे व्योम्नि शरदीवार्कमण्डलम् ॥२०॥प्रसन्नं स्फारगाम्भीर्यमक्षुब्धमपराहतम् ।हृदयं समतामेति शान्तवात इवार्णवः ॥२१॥अमृतापूरपूर्णेन नित्यानन्दमयेन च ।स्थीयते पुरुषेणान्तः शीतेन शशिना यथा ॥२२॥संविदः स्फुटतामन्तरायान्त्यज्ञानसंक्षये ।संविदंशैकविश्रान्तं समग्रं सचराचरम् ॥२३॥भाव्यते भरिताकारं वपुरानन्दमन्थरम् ।न भवत्यसुसङ्गानामाशापाशविधायिनाम् ॥२४॥दग्धानामिव पर्णानां रसानां पुनरागतिः ॥पुंसां क्षपितसंसारजराजन्ममहाध्वनाम् ॥२५॥अपुनर्भ्रमणायात्मद्रुमे विश्रम्यते चिरम् ।एवंप्रायास्तथान्याश्च भवन्ति गुणसंपदः ॥२६॥असति त्वयि सर्वाशिन्सर्वाशाक्षयसंक्षये ।पक्षयोरेतयोश्चित्तसत्तासत्तास्वरूपयोः ॥२७॥येनैव पश्यसि श्रेयस्तमेवाङ्गीकुरु क्षणम् ।स्वात्मभावस्तव सुखं मन्ये मानवतां वर ॥२८॥तमेव भावयाभावं सुखत्यागो हि मूढता ।यदि त्वस्ति भवेत्सत्यमन्तर्भावितचेतनम् ॥२९॥जीवतस्तत्तवात्यन्तमभावं क इवेच्छति ।किंतु नास्त्यसि सत्येन वदामि तव सुन्दर ॥३०॥तेन मिथ्यैव जीवामीत्याशया मा सुखी भव ।पूर्वमेवासि नास्त्येव यावद्भ्रान्त्या त्वदस्तिता ॥३१॥सैवेदानीं विचारेण भृशं क्षयमुपागता ।एतावदेव ते रूपं साधो यदविचारणम् ॥३२॥विचारे विहिते सम्यक्समरूपं समं स्थितम् ।अविचारात्प्रजातं त्वमनालोकात्तमो यथा ॥३३॥विचारेणोपशान्तं त्वमालोकेन तमो यथा ।एतावन्तं सखे कालं बभूवाल्पविवेकिता ॥३४॥तवानेनाभिपीनत्वमभूद्दुःखैककारणम् ।मोहसंकल्पमात्रेण बालवेतालवद्भवेत् ॥३५॥द्वन्द्वं चाद्यन्तसंकल्पक्षीणं क्षयि भव स्थितम् ।इदानीमुदितं नित्यं स्वप्राग्रूपे क्षयं गते ॥३६॥विवेकस्य प्रसादेन विवेकाय नमो नमः ।बहुधापि प्रबुद्धस्त्वं चित्तकाप्यनुबोधितः ॥३७॥चित्ततायां प्रनष्टायां स्थितस्त्वं परमेश्वरः ।प्राक्स्वरूपविलासस्ते श्रेयसे स्थितिमागतः ॥३८॥समस्तवासनोन्मुक्तः संप्रत्यसि महेश्वरः ।यस्याविवेकादुत्पत्तिः स विवेकाद्विनश्यति ॥३९॥प्रकाशेन प्रयात्यन्तमनालोकोऽभवत्तमः ।अनिच्छतोऽपि ते साधो विचारे स्थितिमागते ॥४०॥सर्वतोऽयमुपायातो विनाशः सुखसिद्धये ।तस्मान्नास्त्यसि निर्णीतमिति सिद्धान्तयुक्तिभिः॥४१॥चित्तेन्द्रियेश्वर स्वस्ति भवते त्वन्तमागतः ।नित्यं पूर्वमभूताय नास्तिरूपाय संप्रति ॥४२॥भविष्यते च नोदर्कं स्वमनः स्वस्ति तेऽस्त्विति ।परिनिर्वामिशान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः ॥४३॥स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे स्थितः ।अतो नास्त्येव नास्त्येव संसारे चित्तमस्थिति ॥४४॥आत्मा त्वस्त्वेव चास्त्वेव यस्मादन्यत्र विद्यते ।अयमात्माहमेवासौ नास्त्यन्यन्मदृते क्वचित् ॥४५॥स्फुरच्चिदेव बोधात्मा सर्वत्राहं स्थितः सदा ।अयमात्मेति कलना मन्ये नो निर्मलान्तरे ॥४६॥प्रतियोगिव्यवच्छेदकलनैकस्य वै कुतः ।अहं तेनायमात्मेति कलनामनुदाहरन् ।मौनी स्वात्मनि तिष्ठामि तरङ्ग इव वारिणि ॥४७॥संशान्तवासनमनाश्रितचेतनांश-मप्राणसंचरणमस्तमितांशदोषम् ।संवेद्यवर्जितमुपेत्य सुसंविदंशंशाम्यामि मौनमहमेव निरीहमन्तः ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताविचारयोगोपदेशो नाम त्र्यशीतितमः सर्गः ॥८३॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP