संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः २६ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः २६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति संचिन्त्य बलवान्बलिरामीलितेक्षणः ।दध्यौ कमलपत्राक्षं शुक्रमाकाशमन्दिरम् ॥१॥सर्वस्थं चिन्तयानं तु नित्यध्यानोऽथ भार्गवः ।चेतःस्थं ज्ञातवान् शिष्यं बलिं गुर्वर्थिनं पुरे ॥२॥अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः ।आनिनाय स देहं स्वं रत्नवातायनं बलेः ॥३॥गुरुदेहप्रभाजालपरिमृष्टतनुर्बलिः ।बुबुधे प्रातरर्कांशुसंबोधितमिवाम्बुजम् ॥४॥तत्र रत्नार्घ्यदानेन मन्दारकुसुमोत्करैः ।पादाभिवन्दनैरेनं पूजयामास भार्गवम् ॥५॥रत्नार्घ्यपरिपूर्णाङ्गं कृतमन्दारशेखरम् ।महार्हासनविश्रान्तमथोवाच गुरुं बलिः ॥६॥बलिरुवाच ।भगवंस्त्वत्प्रसादोत्था प्रतिभेयं पुरस्तव ।नियोजयति मां वक्तुं कार्यं कर्तुमिवार्कभाः ॥७॥भोगान्प्रति विरक्तोऽस्मि महासंमोहदायिनः ।तत्तत्त्वं ज्ञातुमिच्छामि महासंमोहहारि यत् ॥८॥कियन्मात्रमिदं भोगजालं किमयमेव वा ।कोऽहं कस्त्वं किमेते वा लोका इति वदाशु मे ॥९॥शुक्र उवाच ।बहुनात्र किमुक्तेन खं गन्तुं यत्नवानहम् ।सर्वदानवराजेन्द्र सारं संक्षेपतः शृणु ॥१०॥चिदिहास्ति हि चिन्मात्रमिदं चिन्मयमेव च ।चित्त्वं चिदहमेते च लोकाश्चिदिति संग्रहः ॥११॥भव्योऽसि चेत्तदेतस्मात्सर्वमाप्नोषि निश्चयात् ।नो चेत्तद्वह्वपि प्रोक्तं त्वयि भस्मनि हूयते ॥१२॥चिच्चेत्यकलनाबन्धस्तन्मुक्तिर्मुक्तिरुच्यते ।चिदचेत्याखिलात्मेति सर्वसिद्धान्तसंग्रहः ॥१३॥एनं निश्चयमादाय विलोकयसि हेलया ।स्वयमेवात्मनात्मानमनन्तं पदमाप्स्यसि ॥१४॥खं व्रजाम्यहमत्रैव मुनयः सप्त संगताः ।केनापि सुरकार्येण वस्तव्यं तत्र वै मया ॥१५॥राजन्यावदयं देहस्तावन्मुक्तधियामपि ।यथाप्राप्तक्रियात्यागो रोचते न स्वभावतः ॥१६॥इति कथितवताथ भार्गवेणस्फुटजलराशिपथा महाजवेन ।प्लुतमलिशबले नभोन्तरालेतरलतरङ्गवदाकुले ग्रहौघैः ॥१७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे बल्युपदेशयोगो नाम षड्विंशः सर्गः ॥२६॥ N/A References : N/A Last Updated : September 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP