संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५६ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।क्रमेणानेन विहरन्विचार्यात्मानमात्मना ।विश्रान्तिमेहि वितते पदे पद्मदलेक्षण ॥१॥शास्त्रार्थगुरुचेतोभिस्तावत्तावद्विचार्यते ।सर्वदृश्यक्षयाभ्यासाद्यावदासाद्यते पदम् ॥२॥वैराग्याभ्यासशास्त्रार्थप्रज्ञागुरुमयक्रमैः ।पदमासाद्यते पुण्यं प्रज्ञयैवैकयाथवा ॥३॥संप्रबोधवती तीक्ष्णा कलङ्करहिता मतिः ।सर्वसामग्र्यहीनापि पदं प्राप्नोति शाश्वतम् ॥४॥श्रीराम उवाच ।भगवन्भूतभव्येश कश्चिज्जातसमाधिकः ।प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽपि सन् ॥५॥कश्चिदेकान्तमाश्रित्य समाधिनियतः स्थितः ।तयोस्तु कतरः श्रेयानिति मे भगवन्वद ॥६॥श्रीवसिष्ठ उवाच ।इमं गुणसमाहारमनात्मत्वेन पश्यतः ।अन्तःशीतलता यासौ समाधिरिति कथ्यते ॥७॥दृश्यैर्मनसि संबन्ध इति निश्चित्य शीतलः ।कश्चित्संव्यवहारस्थः कश्चिद्ध्याने व्यवस्थितः ॥८॥द्वावेतौ राम सुखितावन्तश्चेत्परिशीतलौ ।अन्तःशीतलता या स्यात्तदनन्ततपःफलम् ॥९॥समाधिस्थानकस्थस्य चेतश्चेद्वृत्तिचञ्चलम् ।तत्तस्य तत्समाधानं सममुन्मत्तताण्डवैः ॥१०॥उन्मत्तताण्डवस्थस्य चेतश्चेत्क्षीणवासनम् ।तदस्योन्मत्तवृत्तं तत्समं बुद्धसमाधिना ॥११॥व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः ।द्वावेतौ सुसमौ नूनमसंदेहं पदं गतौ ॥१२॥अकर्तृ कुर्वदप्येतच्चेतः प्रतनुवासनम् ।दूरं गतमना जन्तुः कथासंश्रवणे यथा ॥१३॥अकुर्वदपि कर्तेव चेतः प्रघनवासनम् ।निस्पन्दाङ्गमपि स्वप्ने श्वभ्रपातस्थिताविव ॥१४॥चेतसो यदकर्तृत्वं तत्समाधानमुत्तमम् ।तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा ॥१५॥चेतश्चलाचलत्वेन परम कारणं स्मृतम् ।ध्यानाध्यानदृशोस्तेन तदेवानङ्कुरं कुरु ॥१६॥अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव तु ।स एव केवलीभावः शान्ततैव च सा सदा ॥१७॥तनुवासनमत्युच्चैः पदायोद्यतमुच्यते ।अवासनं मनो कर्तृपदं तस्मादवाप्यते ॥१८॥घनवासनमेतत्तु चेतः कर्तृत्वभाजनम् ।सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥१९॥प्रशान्तजगदास्थोऽन्तर्वीतशोकभयैषणः ।स्वस्थो भवति येनात्मा स समाधिरिति स्मृतः ॥२०॥चेतसा संपरित्यज्य सर्वभावात्मभावनाम् ।यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहेऽथवा ॥२१॥गृहमेव गृहस्थानां सुसमाहितचेतसाम् ।शान्ताहंकृतिदोषाणां विजनावनभूमयः ॥२२॥अरण्यसदने तुल्ये समाहितमनोदृशाम् ।भवतामिह भूतानां भूतानां महतामिव ॥२३॥शान्तचित्तमहाभ्रस्य जनज्वालोज्ज्वलान्यपि ।नगराण्यपि शून्यानि वनान्यवनिपात्मज ॥२४॥वृत्तिमच्चित्तमत्तस्य विजनानि वनान्यपि ।नगराणि महालोकपूर्णानि परवीरहन् ॥२५॥व्युत्थितं चित्तमभ्येति भ्रमस्यान्तः सुषुप्तताम् ।निर्वाणमेति निर्वाणं यथेच्छसि तथा कुरु ॥२६॥सर्वभावपदातीतं सर्वभावात्मकं च वा ।यः पश्यति सदात्मानं स समाहित उच्यते ॥२७॥ईहितानीहिते क्षीणे यस्यान्तर्वितताकृतेः ।सर्वे भावाः समा यस्य स समाहित उच्यते ॥२८॥सदात्मना सदेवेदं जगत्पश्यति नो मनः ।यथा स्वप्ने तथैवास्मिञ्जाग्रत्यपि जनेश्वर ॥२९॥यथा विपणिकालोका विहरन्तोऽप्यसत्समाः ।असंबन्धात्तथा ज्ञस्य ग्रामोपि विपिनोपमः ॥३०॥अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन्नपि ।पुरं जनपदं ग्राममरण्यमिव पश्यति ॥३१॥सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ।सर्वथानुपयोग्यत्वाद्भूताकुलमिदं जगत् ॥३२॥अन्तःशीतलतायां तु लब्धायां शीतलं जगत् ।विज्वराणामिव नृणां भवत्याजीवितस्थितेः ॥३३॥अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।भवत्यखिलजन्तूनां यदन्तस्तद्वहिः स्थितम् ॥३४॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः ॥३५॥वटधाना वट इव यदन्तःस्थं सदात्मनः ।तद्बहिर्भासते भास्वद्विकासे पुष्पगन्धवत् ॥३६॥न बहिष्ठं न चान्तःस्थं क्वचित्किंचन विद्यते ।यद्यथा कचितं चित्त्वात्तत्तथा तत्त्वमुत्थितम् ॥३७॥आत्मतत्त्वान्तरं भाति बहिष्ट्वेन जगत्तया ।कर्पूरमिव गन्धेन संकोचे प्रविकासि च ॥३८॥आत्मैव स्फुरति स्फारं जगत्त्वेनाप्यहंतया ।बाह्यत्वेनान्तरत्वेन स च नासन्न सन्विभुः ॥३९॥बहिष्ठेनान्तरं बाह्यमन्तःस्थेनान्तरस्थितम् ।यथाविदितमात्मायं स्वचित्तमनुपश्यति ॥४०॥सबाह्याभ्यन्तरं शान्तमात्मनो भेदितं जगत् ।अहन्त्वादिस्थिते भेदे भूरिभङ्गभयं तु तत् ॥४१॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।कल्पादिरेव ज्वलितं सर्वमाधिहतात्मनः ॥४२॥यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः ।न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥४३॥यः सर्वगतमात्मानं पश्यन्समुपशान्तधीः ।न शोचति ध्यायति वा स समाहित उच्यते ॥४४॥स पूर्वापरपर्यन्तां यः पश्यञ्जागतीं गतिम् ।दृष्टिष्वेतासु हसति स समाहित उच्यते ॥४५॥समे परेऽपि नाहंता न जगज्जन्मनो मयि ।वीचिवृन्देष्विवातप्ता नाकाशे फलधातवः ॥४६॥यस्यान्तरस्थिताहन्त्वं न विभागादि नो मनः ।न चेतनाचेतनत्वे सोऽस्ति नास्तीतरो जनः ॥४७॥व्योमस्वच्छो बहिष्ठेहां सम्यगाचरतीह यः ।हर्षामर्षविकारेषु काष्ठलोष्टसमः शमः ॥४८॥आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् ।स्वभावादेव न भयाद्यः पश्यति स पश्यति ॥४९॥अर्थोऽतनुस्तनुर्वापि नासद्रूपेण चेत्यते ।सद्रूपो नानुभूतोऽज्ञे न ज्ञेनैव न तत्तया ॥५०॥ईदृशाशयसंपन्नो महासत्त्वपदं गतः ।तिष्ठतूदेतु वा यातु मृतिमेतु न तत्स्थितिम् ॥५१॥वसतूत्तमभोगाढ्ये स्वगृहे वा जनाकुले ।सर्वभोगोज्झिताभोगे सुमहत्यथवा वने ॥५२॥उद्दाममन्मथं पानतत्परो वापि नृत्यतु ।सर्वसङ्गपरित्यागी सममायातु वा गिरौ ॥५३॥चन्दनागुरुकर्पूरैर्वपुर्वा परिलिम्पतु ।ज्वालाजटिलविस्तारे निपतत्वथवाऽनले ॥५४॥पापं करोतु सुमहद्बहुलं पुण्यमेव च ।अद्य वा मृतिमायातु कल्पान्तनिचयेन वा ॥५५॥नासौ किंचिन्न तत्किंचित्कृतं तेन महात्मना ।नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥५६॥संवित्पुरुषशब्दार्थैः स कलङ्कैः कलंक्यते ।अहंत्वंवासनारूपैः शुक्तिकारजतोपमैः ॥५७॥समस्तवस्तुप्रशमात्सम्यग्ज्ञानाद्यथास्थितेः ।स्वभावस्योपशान्तोन्तःकलङ्कोऽसत्तया स्वतः ॥५८॥अहंत्ववासनानर्थप्रसूतेः संविदात्मनः ।पुरुषस्य विचित्राणि सुखदुःखानि जन्मनि ॥५९॥रज्ज्वां सर्पभ्रमे शान्तेऽहिर्नेति निर्वृतिर्यथा ।अहंत्वभावसंशान्तौ तथान्तः समता मता ॥६०॥यत्करोति यदश्नाति यद्ददाति जुहोति वा ।न तज्ज्ञस्य न तत्र ज्ञो मा करोतु करोतु वा ॥६१॥कर्मणास्ति न तस्यार्थो नार्थस्तस्यास्त्यकर्मणा ।यथास्वभावावगमात्स आत्मन्येव संस्थितः ॥६२॥इच्छास्ततः समुद्यन्ति न मञ्जर्य इवोपलात् ।याश्चोद्यन्ति च ताः सर्वाः स एवाप्स्विव वीचयः॥सकलमिदमसावसौ च सर्वंजगदखिलं न विभागितात्र काचित् ।परमपुरुषपावनैकरूपीस सदिति तत्सदकिंचिदेव नासौ ॥६४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे ध्यानविचारो नाम षट्पञ्चाशः सर्गः ॥५६॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP