संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ७८

उपशमप्रकरणम् - सर्गः ७८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
यथालातपरिस्पन्दादग्निचक्रं प्रदृश्यते ।
असदेव सदाभासं चित्तस्पन्दात्तथा जगत् ॥१॥
यथा जलपरिस्पन्दाद्व्यतिरिक्त इवाम्भसः ।
दृश्यते वर्तुलावर्तश्चित्तस्पन्दात्तथा जगत् ॥२॥
यथा व्योम्नीक्षणस्पन्दात्पिच्छमौक्तिकमण्डलम् ।
दृश्यते सदिवासत्यं चित्तस्पन्दात्तथा जगत् ॥३॥
श्रीराम उवाच ।
येन प्रस्पन्दते चित्तं येन न स्पन्दते तथा ।
तद्ब्रह्मन्ब्रूहि मे येन चिकित्सेयं तदेव हि ॥४॥
श्रीवसिष्ठ उवाच ।
यथा शौक्ल्यहिमे राम तिलतैललवौ यथा ।
यथा कुसुमसौगन्ध्ये तथौष्ण्यदहनौ यथा ॥५॥
तथा राघव संश्लिष्टौ चित्तस्पन्दौ तथैव हि ।
अभिन्नौ केवलं मिथ्या भेदः कल्पित एतयोः ॥६॥
चित्तचित्तपरिस्पन्दपक्षयोरेकसंक्षये ।
स्वयं गुणगुणी स्थित्वा नश्यतो द्वौ न संशयः ॥७॥
द्वौ क्रमो चित्तनाशस्य योगो ज्ञानं च राघव ।
योगस्तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥८॥
श्रीराम उवाच ।
कदा कीदृक्कया युक्त्या प्राणापाननिबन्धया ।
योगनाम्न्या मनः शान्तिमेत्यनन्तसुखप्रदाम् ॥९॥
श्रीवसिष्ठ उवाच ।
देहेऽस्मिन्देहनाडीषु वातः स्फुरति योऽभितः ।
स्पन्देष्विव भुवो वारि स प्राण इति कीर्तितः ॥१०॥
तस्य स्पन्दवशादन्तः क्रियावैचित्र्यमीयुषः ।
अपानादीनि नामानि कल्पितानि कृतात्मभिः ॥११॥
आमोदस्य यथा पुष्पं शौक्ल्यस्य तुहिनं यथा ।
तथैष रस आधारश्चित्तस्याभिन्नतां गतः ॥१२॥
अन्तःप्राणपरिस्पन्दात्संकल्पकलनोन्मुखी ।
संवित्संजायते यैषा तच्चित्तं विद्धि राघव ॥१३॥
प्राणस्पन्दाच्चितः स्पन्दस्तत्स्पन्दादेव संविदः ।
चक्रावर्तविधायिन्यो जलस्पन्दादिवोर्मयः ॥१४॥
चित्तं प्राणपरिस्पन्दमाहुरागमभूषणाः ।
तस्मिन्संरोधिते नूनमुपशान्तं भवेन्मनः ॥१५॥
मनःस्पन्दोपशान्त्यायं संसारः प्रविलीयते ।
सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा ॥१६॥
श्रीराम उवाच ।
अनिशं चरतां देहगेहे गगनगामिनाम् ।
प्राणादीनां परिस्पन्दो वायूनां रोध्यते कथम् ॥१७॥
श्रीवसिष्ठ उवाच ।
शास्त्रसज्जनसंपर्कवैराग्याभ्यासयोगतः ।
अनास्थायां कृतास्थायां पूर्वसंसारवृत्तिषु ॥१८॥
यथाभिवाञ्छितध्यानाच्चिरमेकतयोदितात् ।
एकतत्त्वघनाभ्यासात्प्राणस्पन्दो निरुद्ध्यते ॥१९॥
पूरकादिनिजायामादृढाभ्यासादखेदजात् ।
एकान्तध्यानसंयोगात्प्राणस्पन्दो निरुद्ध्यते ॥२०॥
ओंकारोच्चारणप्रान्तशब्दतत्त्वानुभावनात् ।
सुषुप्ते संविदो जाते प्राणस्पन्दो निरुद्ध्यते ॥२१॥
रेचके नूनमभ्यस्ते प्राणे स्फारे खमागते ।
न स्पृशत्यङ्गरन्ध्राणि प्राणस्पन्दो निरुद्ध्यते ॥२२॥
पूरके नूनमभ्यस्ते पूराद्गिरिघनस्थिते ।
प्राणे प्रशान्तसंचारे प्राणस्पन्दो निरुद्ध्यते ॥२३॥
कुम्भके कुम्भवत्कालमनन्तं परितिष्ठति ।
अभ्यासात्स्तम्भिते प्राणे प्राणस्पन्दो निरुद्ध्यते ॥२४॥
तालुमूलगतां यत्नाज्जिह्वयाक्रम्य घण्टिकाम् ।
ऊर्ध्वरन्ध्रगते प्राणे प्राणस्पन्दो निरुद्ध्यते ॥२५॥
समस्तकलनोन्मुक्ते न किंचिन्नामसूक्ष्मखे ।
ध्यानात्संविदि लीनायां प्राणस्पन्दो निरुद्ध्यते ॥२६॥
द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे ।
संविद्दृशि प्रशाम्यन्त्यां प्राणस्पन्दो निरुद्ध्यते ॥२७॥
अभ्यासादूर्ध्वरन्ध्रेण तालूर्ध्वं द्वादशान्तगे ।
प्राणे गलितसंवृत्ते प्राणस्पन्दो निरुद्ध्यते ॥२८॥
भ्रूमध्ये तारकालोकशान्तावन्तमुपागते ।
चेतने केतने बुद्धे प्राणस्पन्दो निरुद्ध्यते ॥२९॥
झटित्येव यदुद्भूतं ज्ञानं तस्मिन्दृढाश्रिते ।
असंश्लिष्टविकल्पांशे प्राणस्पन्दो निरुद्ध्यते ॥३०॥
चिरं कालं हृते कान्तव्योमसंवेदनान्मुने ।
अवासनान्मनोध्यानात्प्राणस्पन्दो निरुद्ध्यते ॥३१॥
श्रीराम उवाच ।
ब्रह्मन् जगति भूतानां हृदयं तत्किमुच्यते ।
इदं सर्वं महादर्शे यस्मिंस्तत्प्रतिबिम्बति ॥३२॥
श्रीवसिष्ठ उवाच ।
साधो जगति भूतानां हृदयं द्विविधं स्मृतम् ।
उपादेयं च हेयं च विभागोऽयं तयोः शृणु ॥३३॥
इयत्तया परिच्छिन्ने देहे यद्वक्षसोऽन्तरम् ।
हेयं तद्धृदयं विद्धि तनावेकतटे स्थितम् ॥३४॥
संविन्मात्रं तु हृदयमुपादेयं स्थितं स्मृतम् ।
तदन्तरे च बाह्ये च न च बाह्ये न चान्तरे ॥३५॥
तत्तु प्रधानं हृदयं तत्रेदं समवस्थितम् ।
तदादर्शः पदार्थानां तत्कोशः सर्वसंपदाम् ॥३६॥
सर्वेषामेव जन्तूनां संविद्धृदयमुच्यते ।
न देहावयवैकांशो जडजीर्णोपलोपमः ॥३७॥
तस्मात्संविन्मये शुद्धे हृदये हृतवासनः ।
बलान्नियोजिते चित्ते प्राणस्पन्दो निरुध्यते ॥३८॥
एभिः क्रमैस्तथान्यैश्च नानासंकल्पकल्पितैः ।
नानादेशिकवक्रस्थैः प्राणस्पन्दो निरुध्यते ॥३९॥
अभ्यासेन निराबाधमेतास्ता योगयुक्तयः ।
उपायतामुपायान्ति भव्यस्य भवभेदने ॥४०॥
अभ्यासाद्दृढतां यातो वैराग्यपरिलाञ्छितः ।
यथावासनमायामः प्राणानां सफलः स्मृतः ॥४१॥
भ्रूनासातालुसंस्थासु द्वादशाङ्गुलिकोटिषु ।
अभ्यासाच्छाम्यति प्राणो दूरे गिरिनदी यथा ॥४२॥
भूयोभूयश्चिराभ्यासाज्जिह्वाप्रान्तेन तालुनि ।
घण्टिका स्पृश्यते प्राणो येनोच्चैर्निवहत्यलम् ॥४३॥
विकल्पबहुलास्त्वेते स्वाभ्यासेन समाधयः ।
परमोपशमायाशु संप्रयान्त्यविकल्पताम् ॥४४॥
आत्मारामो वीतशोको भवत्यन्तःसुखः पुमान् ।
अभ्यासादेव नान्यस्मात्तस्मादभ्यासवान्भव ॥४५॥
अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते ।
मनः प्रशममायाति निर्वाणमवशिष्यते ॥४६॥
वासनावलितं जन्म मोक्षं निर्वासनं मनः ।
प्राणं च राम गृह्णाति यथेच्छसि तथा कुरु ॥४७॥
प्राणस्पन्दो मनोरूपं तस्मात्संसृतिविभ्रमः ।
तस्मिन्नेव शमं याते दीयते संसृतिज्वरः ॥४८॥
विकल्पांशक्षयाज्जन्तोः पदं तदवशिष्यते ।
यतो वाचो निवर्तन्ते समस्तकलनान्विताः ॥४९॥
यत्र सर्वं यतः सर्वे यत्सर्वं सर्वतश्च यत् ।
यत्र नेदं यतो नेदं यन्नेदं नेदृशं जगत् ॥५०॥
विनाशित्वाद्विकल्पत्वाद्गुणित्वान्निर्गुणात्मनः ।
यस्य नो सदृशो दृष्टो दृष्टान्तः कश्चिदेव हि ॥५१॥
स्वादनी सर्वशालीनां दीपिका सर्वतेजसाम् ।
कलना सर्वकामानामन्तश्चिच्चन्द्रिकोदिता ॥५२॥
यस्मात्कल्पतरोर्बह्व्यः संसारफलपङ्क्तयः ।
अनारतं बहुरसा जायन्ते च पतन्ति च ॥५३॥
तत्पदं सर्वसीमान्तमवलम्ब्य महामतिः ।
यः स्थितः स्थिरधीस्तज्ज्ञः स जीवन्मुक्तउच्यते ॥५४॥
विगतसर्वसमीहितकौतुकः समुपशान्तहिताहितकल्पनः ।
सकलसंव्यवहारसमाशयो भवति मुक्तमनाः पुरुषोत्तमः ॥५५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे योगवर्णनं नामाष्टसप्ततितमः सर्गः ॥७८॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP