संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति सिद्धगणोद्गीता गीताः श्रुत्वा महीपतिः ।विषादमाजगामाशु भीरू रणरवादिव ॥१॥जगाम परिवारं स्वमाकर्षन्स्वगृहं प्रति ।स्वतीरवृक्षानुगतः सरिदोघ इवार्णवम् ॥२॥परिवारमशेषेण विसृज्य स्वं स्वमालयम् ।एक एवारुरोहाग्र्यं गृहमर्क इवाचलम् ॥३॥तत्र प्रोड्डयनालोलखगपक्षतिचञ्चलाः ।आलोकयंल्लोकगतीर्विललापेदमाकुलः ॥४॥हा कष्टमतिकष्टासु लोकलोलदशास्वयम् ।पाषाणेष्विव पाषाणा आलुठामि बलादहम् ॥५॥अपर्यन्तस्य कालस्य कोऽप्यंशो जीव्यते मया ।तस्मिन्भावं निबध्नामि धिङ्नामधमचेतनम् ॥६॥कियन्मात्रमिदं नाम राज्यमाजीवितं मम ।किमेतेन विना दुःखं तिष्ठामि हतधीर्यथा ॥७॥आदावन्तेऽप्यनन्तोऽहं मध्ये पेलवजीवितः ।बालश्चित्रेन्दुनेवाहं किं मुधा धृतिमास्थितः ॥८॥प्रपञ्चरहितेनाहमिन्द्रजालेन जालिना ।हा कष्टमतिमुह्यामि केनास्मि परिमोहितः ॥९॥यद्वस्तु यच्च वा रम्यं यदुदारमकृत्रिमम् ।किंचित्तदिह नास्त्येव किंनिष्ठेह मतिर्मम ॥१०॥दूरस्थमप्यदूरस्थं यन्मे मनसि वर्तते ।इति निश्चित्य बाह्यार्थभावनां संत्यजाम्यहम् ॥११॥लोकाजवं जवीभावः सलिलावर्तभङ्गुरः ।दृष्टोऽद्यापि हि दुःखाय केयमास्था सुखं प्रति ॥१२॥प्रत्यब्दं प्रतिमासं च प्रत्यहं च प्रतिक्षणम् ।सुखानि दुःखपिण्डानि दुःखानि तु पुनः पुनः ॥१३॥परामृष्टं विशिष्टं हि दृष्टं नष्टं न भावितम् ।अत्रस्थं न तदस्तीह सतां यत्रास्तु संस्थितिः ॥१४॥अद्य ये महतां मूर्ध्नि ते दिनैर्निपतन्त्यधः ।हतचित्तमहत्तायां कैषा विश्वस्तता वत ॥१७॥अरज्जुरेव बद्धोऽहमपङ्कोऽस्मि कलङ्कितः ।पतितोस्म्युपरिस्थोपि हा ममात्मन्हता स्थितिः ॥१६॥कस्मादकस्मान्मोहोयमागतो धीमतोऽपि मे ।असितः पिहितालोको भास्कराग्रमिवाम्बुदः ॥१७॥क इमे मे महाभोगाः क इमे मम बान्धवाः ।बालो भूतमयेनेव संकेतेनाहमाकुलः ॥१८॥स्वयमेव निबध्नामि जरामरणरागिणीम् ।किमिमामहमेतेषु धृतिमुद्वेगकारिणीम् ॥१९॥यातु तिष्ठतु वा सम्यङ् ममैतां प्रति को ग्रहः ।बुद्बुदश्रीरिवैषा हि मिथ्यैवेत्थमुपस्थिता ॥२०॥ते महाविभवा भोगास्ते सन्तः स्निग्धबान्धवाः ।सर्वं स्मृतिपथं प्राप्तं वर्तमानेऽपि का धृतिः ॥२१॥क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा ।प्राक्तनानि प्रयातानि केयं विश्वस्तता मम ॥२२॥गिलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि ।मां जीवितनिबद्धास्थं विहसिष्यन्ति साधवः ॥२३॥ब्रह्मणां कोटयो याता गताः सर्गपरम्पराः ।प्रयाताः पांसुवद्भूपाः का धृतिर्मम जीविते ॥२४॥संसाररात्रिदुःस्वप्ने चेत्ये देहमये भ्रमे ।आस्थां चेदनुबध्नामि तत्रेमां तु धिगस्थितिम् ॥२५॥अयं सोऽहमिति व्यर्थकल्पनाऽसत्स्वरूपिणी ।अहंकारपिशाचेन किमज्ञवदहं स्थितः ॥२६॥हतं हतमिदं कस्मादायुराततयानया ।पश्यन्नपि न पश्यामि सूक्ष्मया काललेखया ॥२७॥पादपीठे कृतेशानाः शार्ङ्गिक्रीडनकन्दुकाः ।कालकापालिकाग्रस्ताः किमास्थे मयि वल्गसि ॥२८॥अजस्रमुपयान्त्येते यान्ति चाद्यापि वासराः ।अविनष्टैकसद्वस्तुर्दृष्टो नाद्यापि वासरः ॥२९॥सारसाः सरसीवैते सर्वस्मिञ्जनचेतसि ।भोगा एव स्फुरन्त्यन्तर्न तु स्वपददृष्टयः ॥३०॥कष्टात्कष्टतरं प्राप्तो दुःखाद्दुःखतरं गतः ।अद्यापि न विरक्तोस्मि हा धिङ्मामधमाशयम् ॥३१॥येषु येषु दृढा बद्धा भावना भव्यवस्तुषु ।तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥३२॥यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् ।सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम् ॥३३॥येषु येषु पदार्थेषु धृतिं बध्नाति मानवः ।तेषु तेष्वेव तस्यायं दृष्टो नाशोदयो भृशम् ॥३४॥श्वःश्वः पापीयसीमेष श्वःश्वः क्रूरतरामपि ।श्वःश्वः स्वेदकरीमेति दशामिह जडो जनः ॥३५॥अज्ञानैकहतो बाल्ये यौवने मदनाहतः ।शेषे कलत्रचिन्तार्तः किं करोति कदा जडः ॥३६॥आगमापायि विरसं दशावैषम्यदूषितम् ।असारसारं संसारं किं तत्पश्यति दुर्मतिः ॥३७॥राजसूयाश्वमेधाद्यैरिष्ट्वा यज्ञशतैरपि ।महाकल्पान्तमप्यंशं स्वर्गं प्राप्नोति नाधिकम् ॥३८॥कोऽसौ स्वर्गोऽस्ति भूमौ वा पाताले वा प्रदेशकः ।न यत्राभिभवन्त्येता दुर्भ्रमर्य इवापदः ॥३९॥निजचेतोविलव्यालाः शरीरस्थलपल्लवाः ।आधयो व्याधयश्चैते निवार्यन्ते कथं किल ॥४०॥सतोऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्वरम्यता ।सुखेषु मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् ॥४१॥जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः ।धरा तैरेव नीरन्ध्रा दुर्लभाः साधुसाधवः ॥४२॥नीलोत्पलालिनयनाः परमप्रेमभूषणाः ।हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः ॥४३॥येषां निमेषणोन्मेषैर्जगतां प्रलयोदयौ ।तादृशाः पुरुषाः सन्ति मादृशां गणनैव का ॥४४॥सन्ति रम्यतराद्रम्याः सुस्थिरादपि सुस्थिराः ।चिन्तापर्यवसानेयं पदार्थश्रीः किमीहसे ॥४५॥संपदश्च विचित्रा यास्ताश्चेच्चित्तेन संमताः ।तत्ता अपि महारम्भा हन्त मन्ये महापदः ॥४६॥आपदोऽपि विचित्रा यास्ताश्चेन्मनसि संमताः ।तत्ता अपि महारम्भा मन्ये मनसि संपदः ॥४७॥मनोमात्रविवर्तेऽस्मिञ्जगत्यब्धीन्दुभङ्गुरे ।ममेदमित्यपूर्वेयं कुतस्त्याऽक्षरमालिका ॥४८॥काकतालीययोगेन संपन्नायां जगत्स्थितौ ।धूर्तेन कल्पिता व्यर्थं हेयोपादेयभावना ॥४इयत्ताच्छिन्नतप्तासु सुखनाम्नीषु दृष्टिषु ।कास्वेतास्वनुरक्तोऽस्मि पतङ्गोऽग्निशिखास्विव ॥५०॥वरमेकान्तदाहेषु लुठनं रौरवाग्निषु ।नत्वालूनविवर्तासु स्थितं संसारवृत्तिषु ॥५१॥संसार एव दुःखानां सीमान्त इति कथ्यते ।तन्मध्यपतिते देहे सुखमासाद्यते कथम् ॥५२॥अकृत्रिममहादुःखे संसारे ये व्यवस्थिताः ।त एतेऽन्यानि दुःखानि जानते मधुराण्यलम् ॥५३॥अहमप्यधमोत्कृष्टकाष्ठलोष्टसमस्थितिः ।अज्ञैरेवागतः साम्यं परमामृष्टवस्तुभिः ॥५४॥सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ।अस्य संसारवृक्षस्य मनो मूलमहाङ्कुरः ॥५५॥संकल्पमेव तन्मन्ये संकल्पोपशमेन तत् ।शोषयामि यथा शोषमेति संसारपादपः ॥५५॥आकारमात्ररम्यासु मनोमर्कटवृत्तिषु ।परिज्ञातास्विहाद्यैव न रमे नाशनीष्वहम् ॥५७॥आशापाशशतप्रोताः पातोत्पातोपतापदाः ।संसारवृत्तयो भुक्ता इदानीं विश्रमाम्यहम् ॥५८॥हा हतोऽस्मि विनष्टोऽस्मि मृतोऽस्मीति पुनःपुनः ।शोचितं गतमेवाहमिदानीं नानुरोदिमि ॥५९॥प्रबुद्धोऽस्मि प्रहृष्टोऽस्मि दृष्टश्चोरोऽयमात्मनः ।मनो नाम निहन्म्येनं मनसास्मि चिरं हतः ॥६०॥एतावन्तमिमं कालं मनोमुक्ताफलं मम ।अविद्धमासीदधुना विद्धं तु गुणमर्हति ॥६१॥मनस्तुषारकणिका विवेकार्कातपेन मे ।चिरप्रवृत्तये नूनमचिराल्लयमेष्यति ॥६२॥विविधैः साधुभिः सिद्धैरहं साधु प्रबोधितः ।आत्मानमनुगच्छामि परमानन्दसाधनम् ॥६३॥आत्मानं मणिमेकान्ते लब्ध्वैवालोकयन्सुखम् ।तिष्ठाम्यस्तमितान्येहः शारदीवाचलेऽम्बुदः ॥६४॥अयमहमिदमाततं ममेतिस्फुरितमपास्य बलादसत्यमन्तः ।रिपुमतिबलिनं मनो निहत्यप्रशममुपैमि नमोऽस्तु ते विवेक ॥६५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो. उपशमप्रकरणे जनकवितर्को नाम नवमः सर्गः ॥९॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP