संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ३४ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ३४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३४ Translation - भाषांतर श्रीभगवानुवाच ।वरं गुणनिधे दैत्यकुलचूडामहामणे ।गृहाणाभिमतं भूयो जन्म दुःखोपशान्तये ॥१॥प्रह्लाद उवाच ।सर्वसंकल्पफलद सर्वलोकान्तरस्थित ।यदुदारतमं वेत्सि तदेवादिश मे विभो ॥२॥श्रीभगवानुवाच ।सर्वसंभ्रमसंशान्त्यै परमाय फलाय च ।ब्रह्मविश्रान्तिपर्यन्तो विचारोऽस्तु तवानघ ॥३॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा दितिपुत्रेन्द्रं विष्णुरन्तरधीयत ।कृतघर्घरनिर्ह्रादस्तरङ्गस्तोयधेरिव ॥४॥विष्णावन्तर्हिते देवे पूजायां कुसुमाञ्जलिम् ।पाश्चात्यं दानवस्त्वक्त्वा मणिरत्नपरिष्कृतम् ॥५॥पद्मासनस्थोऽतिमुदा ह्युपविश्य वरासने ।स्तोत्रपाठविधावन्तश्चिन्तयामास चेतसा ॥६॥विचारवानेव भवान्भवत्विति भवारिणा ।देवेनोक्तोऽस्मि तेनान्तः करोम्यात्मविचारणम् ॥७॥किमहं नाम तावत्स्यां योऽस्मिन्भुवनडम्बरे ।वच्मि गच्छामि तिष्ठामि प्रयत्नेनाहरामि च ॥८॥जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् ।यद्बाह्यमलमत्यन्तं तत्स्यां कथमहं किल ॥९॥असन्नभ्युदितो मूकः पवनैः स्फुरितः क्षणम् ।कालेनाल्पेन विलयी देहो नाहमचेतनः ॥१०॥जडया कर्णशष्कुल्या कल्प्यमानः क्षणक्षयी ।शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ॥११॥त्वचा क्षणविनाशिन्या प्राप्यमप्राप्यमप्यथ ।चित्प्रसादोपलब्धात्मस्पर्शनं नास्म्यचेतनम् ॥१२॥बद्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया ।स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतनः ॥१३॥दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः ।केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् ॥१४॥नासयाप्यन्धजडया क्षयिण्या परिकल्पितः ।पेलवोऽनियताकारो गन्धो नाहमचेतनः ॥१५॥निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ।शुद्धचेतन एवाहं कलाकलनवर्जितः ॥१६॥चेत्यवर्जितचिन्मात्रमहमेषोऽवभासकः ।सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः ॥१७॥अनेन चेतनेनेमे सर्वे घटपटादयः ।सूर्यान्ता अवभास्यन्ते दीपेनोत्तमतेजसा ॥१८॥आ इदानीं स्मृतं सत्यमेतत्तदखिलं मया ।निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः ॥१९॥अनेनैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः ।तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः ॥२०॥अनेनैताः स्फुरन्तीह विचित्रेन्द्रियपङ्क्तयः ।सर्वगेन निदाघेन यथा मरुमरीचिकाः ॥२१॥अनेनैतत्पदार्थानां वस्तुत्वं प्रतिपाद्यते ।शुक्लादिगुणवत्त्वं स्वं प्रदीपेनेव वाससाम् ॥२२॥असावेव हि भूतानां सर्वेषामेव जाग्रताम् ।सर्वानुभविताभूमिरात्मा मुकुरवत्स्थितः ॥२३॥तस्यैकस्याविकल्पस्य चिद्दीपस्य प्रसादतः ।उष्णोऽर्कः शिशिरश्चन्द्रो घनोऽद्रिर्विद्रुतं पयः ॥२४॥सातत्येनानुभूतानां सर्वेषां च जगत्स्थितौ ।एतत्कारणमाद्यं तत्कारणं नास्य विद्यते। ॥२५॥सातत्येनानुभूतानां पदार्थानामनेन तत् ।पदार्थत्वमुदेत्युच्चैः प्रतापेनेव तप्तता ॥२६॥अनाकारात्कारणाच्च सर्वकारणकारणात् ।एतस्मादिदमुत्पन्नं जगच्छैत्यं हिमादिव ॥२७॥ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ ।एतत्कारणमाद्यं तत्कारणं नास्य विद्यते ॥२८॥चिच्चेत्यद्रष्टदृश्यादिनामभिर्वर्जितात्मने ।स्वयं सकृद्विभाताय मह्यमस्मै नमो नमः ॥२९॥एतस्मिन्सर्वभूतानि निर्विकल्पचिदात्मनि ।गुणभूतानि भूतेशे तिष्ठन्ति विविशन्ति च ॥३०॥यत्किलानेन कलितं चेतनेनान्तरात्मना ।तत्तद्भवति सर्वत्र नेतरत्सदपि स्थितम् ॥३१॥यच्चिता कलितं किंचित्तदाप्नोति निजं पदम् ।यच्चिताकलितं नेह तत्सदप्यन्तमागतम् ॥३२॥इमे घटपटाकाराः पदार्थशतपङ्क्तयः ।जागत्यो विपुलादर्शे ह्यस्मिन्व्योमनि बिम्बिताः ॥३३॥एतद्वृद्धं वृद्धतरे क्षयि क्षयिणि जायते ।पदार्थे सदसच्चापि प्रतिबिम्बार्कवत्स्थितम् ॥३४॥अदृश्यं सर्वभूतानां प्राप्यं गलितचेतसाम् ।एतत्तद्दृश्यते सद्भिः परं व्योमातिनिर्मलम् ॥३५॥इयमभ्युदयं याति नानादृश्यसुमञ्जरी ।आचारचञ्चरीकाढ्या एतस्मात्कारणद्रुमात् ॥३६॥अस्मादियमुदेत्युच्चैः संसाररचनाचला ।विचित्रतरुगुल्माढ्या शैलादिव वनावली ॥३७॥सर्वेषामविभिन्नोऽसौ त्रैलोक्योदरवर्तिनाम् ।ब्रह्मादीनां तृणान्तानां चिदात्मा संप्रकाशकः ॥३८॥एकोऽसावहमाद्यन्तरहितः सर्वगाकृतिः ।चराचराणां भूतानामन्तः स्वानुभवः स्थितः ॥३९॥अस्य तस्य ममेमानि स्थावराणि चराणि च ।परिसंख्यादिहीनानि शरीराणि बहूनि च ॥४०॥एकोऽसावनुभूत्यात्मा स्वानुभूतिवशात्स्वयम् ।सर्वदृग्द्रष्टृदृश्यत्वात्सहस्रकरलोचनः ॥४१॥एषोऽसावहमाकाशे सूर्यदेहेन चारुणा ।विहरामीतरेणापि वायुदेहेन वायुना ॥४२॥ममैतद्वपुरानीलं शङ्खचक्रगदाधरम् ।सर्वसौभाग्यसीमान्तं ह्यस्मिञ्जगति वल्गति ॥४३॥अहमस्मिन्समुद्भूतः पद्मासनगतः सदा ।निर्विकल्पसमाधिस्थः परां निर्वृतिमागतः ॥४४॥अहं त्रिनेत्रयाऽऽकृत्या गौरीवक्त्राब्जषट्पदः ।सर्गान्ते संहरामीदं कूर्मोऽङ्गपटलं यथा ॥४५॥अहमिन्द्रेण रूपेण त्रिलोकीमखिलामिमाम् ।पालयामि क्रमप्राप्तां मठिकामिव तापसः ॥४६॥स्त्रीपुमानहमेवैतत्कुमारो ह्यहमित्यपि ।जीर्णोऽहं देहधारित्वाज्जातोऽहं विश्वतोमुखः ॥४७॥अहं तृणलतागुल्मजालं रसतया स्थितः ।उत्थापयामि चिद्भूमेः कूपोऽन्तरलतामिव ॥४८॥स्वलीलार्थमिदं चारु जगदाडम्बरं ततम् ।मयाभिजातबालेन पङ्कक्रीडनकं यथा ॥४९॥मयेदमाप्यते सर्वं सत्ता मां प्राप्य गच्छति ।मत्परित्यक्तमेतच्च सदप्येव न किंचन ॥५०॥मयि स्फारे चिदादर्शे प्रतिबिम्बं यदागतम् ।तदस्ति नेतरद्यस्मान्मत्तोऽन्यन्नेह विद्यते ॥५१॥कुसुमेष्वहमामोदः पुष्पपत्रेष्वहं छविः ।छविष्वहं रूपकला रूपेष्वनुभवोऽप्यहम् ॥५२॥यद्यत्किंचिदिदं दृश्यं जगत्स्थावरजङ्गमम् ।सर्वसंकल्परहितं तच्चित्तत्त्वमहं परम् ॥५३॥आद्या रसमयी शक्ती रसौघो विस्तृतो यया ।सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु ॥५४॥परमां तामहं सर्वपदार्थान्तरवर्तिताम् ।उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया ॥५५॥घृतं यथान्तः पयसो रसशक्तिर्यथा जले ।चिच्छक्तिः सर्वभावेषु तथान्तरहमास्थितः ॥५६॥इदं जगत्त्रिकालस्थं चिति मध्ये च संस्थितम् ।चेत्योपचाररहितं वस्तुजातमिवावनौ ॥५७॥भरिताशेषदिक्कुक्षिस्त्यक्तसंकोचविभ्रमः ।सर्वस्थः सर्वकर्ता च विराट् सम्राडहं स्थितः ॥५८॥अपूर्वमनिबद्धेन्द्रमशस्त्रदलितामरम् ।अप्रार्थितं मे संप्राप्तं जगद्राज्यमिदं ततम् ॥५९॥अहो नु विततात्मास्मि न माम्यप्यात्मनात्मनि ।कल्पान्तपवनाधूत एकार्णव इवार्णवे ॥६०॥नात्मन्यन्तमवाप्नोमि स्वस्थेऽन्तः स्वदिते स्वयम् ।क्षीरवारिनिधौ पङ्गुः सरीसृप इव स्फुरन् ॥६१॥स्वल्पेयं मठिका ब्राह्मी जगन्नाम्नी सुसंकटा ।गजो बिल्व इव स्वाङ्गे न माति विपुलं वपुः ॥६२॥विरिञ्चिभवनात्पारे तत्त्वान्तेऽप्याहरत्पदम् ।प्रसरत्येव मे रूपमद्यापि न निवर्तते ॥६३॥अयं नामाहमित्यन्तः कुतो निरवलम्बना ।अपर्यन्ताकृतेरेषा किलासीत्स्वल्पता मम ॥६४॥भवानयमयं चाहमिति मिथ्यैव विभ्रमः ।कोदेहः कोऽप्यदेहो वा को मृतः कश्च जीवति ॥६५॥वराकाः पेलवधियो बभूवुर्मे पितामहाः ।ये साम्राज्यमिदं त्यक्त्वा रेमिरे भवभूमिषु ॥६६॥क्वेयं किल महादृष्टिर्भरिता ब्रह्मबृंहिता ।क्व सरीसृपभीमाशा भीमा राज्यविभूतिभिः ॥६७॥अनन्तानन्दसंभोगा परोपशमशालिनी ।शुद्धेयं चिन्मयी दृष्टिजयत्यखिलदृष्टिषु ॥६८॥सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने ।प्रत्यक्चेतनरूपाय मह्यमेव नमो नमः ॥६९॥जयाम्यहमजो जातो जीर्णसंसारसंसृतिः ।प्राप्तप्राप्यो महात्मायं जीवामि च जयामि च ॥७०॥इदमुत्तमसाम्राज्यं बोधं संत्यज्य शाश्वतम् ।न रमेऽहमरम्यासु राज्यदुःखविभूतिषु ॥७१॥दारुवारिदृषन्मात्रे लुलितो यो धरातले ।धिग्वराकमनात्मज्ञं तं कुदानवकीटकम् ॥७२॥अविद्यैकात्मभिर्द्रव्यैरविद्यामयमङ्गकम् ।अज्ञेन संतर्पयता किं नाम गुरुणा कृतम् ॥७३॥वर्षाणि कतिचित्प्राप्य जगच्छ्रीमठिकामिमाम् ।किं नाम प्रापदुचितं हिरण्यकशिपुः किल ॥७४॥अनास्वाद्येदमानन्दं जगद्राज्यशतान्यपि ।समास्वादयता नेह किंचिदास्वादितं भवेत् ॥७५॥न किंचिद्येन संप्राप्तं तेनेदं परमामृतम् ।संप्राप्यान्तः प्रपूर्णेन सर्वं प्राप्तमखण्डितम् ॥७६॥त्यक्त्वा पदमिदं मूर्खो मितमेति न पण्डितः ।उष्ट्रो हि त्यक्तसुलतः कण्टकं याति नेतरः ॥७७॥परां दृष्टिमिमां त्यक्त्वा दग्धराज्ये रमेत कः ।कस्त्यक्त्वेक्षुरसं प्राज्ञः कटु निम्बपयः पिबेत् ॥७८॥मूर्खा एव हि ते सर्वे बभुवुर्मे पितामहाः ।इमां दृष्टिं परित्यज्य रेमिरे राज्यसंकटे ॥७९॥क्व फुल्लानन्दनस्थल्यः क्व दग्धमरुभूमयः ।क्वेमा बोधदृशः शान्ताः क्व भोगेष्वात्मबुद्धयः ॥८०॥न किंचिदपि त्रैलोक्ये यद्राज्यमपि वाञ्छते ।सर्वमस्त्येव चित्तत्त्वे तत्कस्मान्नानुभूयते ॥८१॥चिता सर्वस्थया स्वस्थसमया निर्विकारया ।सर्वया सर्वदा सर्वं सर्वतः साधु लभ्यते ॥८२॥भासिनी तैजसी शक्तिरमृतप्राप्तिरैन्दवी ।ब्राह्मी महत्ता महती शाक्री त्रैलोक्यराजता ॥८३॥परमा पूर्णता शार्वी जयलक्ष्मीश्च वैष्णवी ।मानसी शीघ्रगतिता बलवत्ता च वायवी ॥८४॥आग्नेयी दाहकलना पायसी रसनिर्वृतिः ।मौनी महातपःसिद्धिर्विद्या बार्हस्पती तथा ॥८५॥वैमानिकी व्योमगतिः स्थिरता चापि पार्वती ।गम्भीरताथ सामुद्री मैरवी च महोन्नतिः ॥८६॥शमश्रीः सौगती सौम्या मादिरी मदलोलता ।माधवी पुष्पमयता वार्षिकी घनशब्दिता ॥८७॥याक्षी च मायामयता नाभसी निष्कलङ्कता ।शीततापि च तौषारी नैदाघी तापतप्तता ॥८८॥एताश्चान्यास्तथा बह्वयो देशकालक्रियात्मिकाः ।नानाकारविकारोत्थास्त्रिकालोदरसंस्थिताः ॥८९॥विचित्राः शक्तयः स्वस्थसमया निर्विकारया ।चिता क्रियन्ते परया कलाकलनयुक्तया ॥९०॥विकल्पहीना चित्सर्वा पदार्थशतदृष्टिषु ।सममेवाभिपतति प्रभा प्राभाकरी यथा ॥९१॥सर्वाशाकोशविश्रान्तां पदार्थपटलीं महीम् ।कालत्रयेहाकलितां यथानुभवति क्षणात् ॥९२॥तथा समस्तसंसारबृहद्दृश्यदशाश्रियम् ।कालत्रयस्थाममला चिच्चेतति तदात्मिका ॥९३॥तुल्यकालपरामृष्टा त्रिकालकलनाशता ।अनन्तभुवनाभोगा परिपूर्णैव शुद्धचित् ॥९४॥परामृष्टत्रिकालाया दृष्टानन्तदृशश्चितः ।समतापरपर्याया पूर्णतैवावशिष्यते ॥९५॥तुल्यकालावबुद्धेन स्वादुना कटुनापि चित् ।समेन समतामेति मधुनिम्बानुभूतिवत् ॥९६॥त्यक्तसंकल्पकलया सूक्ष्मया चिद्व्यवस्थया ।सर्वभावानुगतया सत्ताद्वैतैकरूपया ॥९७॥विचित्रापि पदार्थश्रीरन्योन्यवलितान्तरा ।तुल्यकालानुभवना साम्येनैवानुभूयते ॥९८॥भावेनाभावमाश्रित्य भावस्त्यजति दुःखताम् ।प्रेक्ष्य भावमभावेन भावस्त्यजति दुष्टताम् ॥९९॥कालत्रयमपश्यन्त्या हीनायाश्चेत्यबन्धनैः ।चितश्चेत्यमुपेक्षिण्याः समतैवावशिष्यते ॥१००॥याति वाचामगम्यत्वादसत्तामिव शाश्वतीम् ।नैरात्म्यसिद्धान्तदशामुपयातेव तिष्ठति ॥१०१॥भवत्यात्मा तथा ब्रह्म न किंचिच्चाखिलं च वा ।परमोपशमेऽलीना मोक्षनाम्ना परोच्यते ॥१०२॥संकल्पकलिता त्वेषा मन्दाभासतया जगत् ।न सम्यक्पश्यतीदं चिदृष्टिः पटलिनी यथा ॥१०३॥ईहानीहामयैरन्तर्या चिदावलिता मलैः ।सा हि नोड्डयितुं शक्ता पाशबद्धेव पक्षिणी ॥१०४॥संकल्पकलनेनैव ये केचन जना इमे ।पतिता मोहजालेषु विनेत्रा इव पक्षिणः ॥१०५॥संकल्पजालवलितैर्विषयावटपातिभिः ।पदवी गतबाधेयं न दृष्टा मत्पितामहैः ॥१०६॥दिनैः कतिपयैरेव स्फुरिता धरणीतले ।वराकास्तेन ते नष्टा मशकाः कुहरेष्विव ॥१०७॥यद्यज्ञास्यन्निमे तत्त्वं भोगदुःखार्थिनस्तदा ।भावाभावान्धकूपेषु नापतिष्यन्हताशयाः ॥१०८॥इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः ।धराविवरमग्नानां कीटानां समतां गताः ॥१०९॥ईहितानीहिताकाराः कलनामृगतृष्णिकाः ।सत्यावबोधमेधेन यस्य शान्ताः स जीवति ॥११०॥कुतः किलास्याः शुद्धाया अविच्छिन्नामलाकृतेः ।चन्द्रिकाया रुचः कोष्णाः कलङ्काः कलनाश्चितः ॥१११॥आत्मनेऽस्तु नमो मह्यमविच्छिन्नचिदात्मने ।लोकालोकमणे देव चिरेणाधिगतोऽस्यहो ॥११२॥परामृष्टोऽसि लब्धोऽसि प्रोदितोऽसि चिराय च ।उद्धृतोसिविकल्पेभ्यो योसि सोसि नमोस्तु ते ॥११३॥मह्यं तुभ्यमनन्ताय मह्यं तुभ्यं शिवात्मने ।नमो देवाधिदेवाय पराय परमात्मने ॥११४॥गतघनपरिपूर्णमिन्दुबिम्बंगतकलनावरणं स्वमेव रूपम् ।स्ववषुषि मुदिते स्वयं स्वसंस्थंस्वयमुदितं स्ववशं स्वयं नमामि ॥११५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रह्लादात्मोपदेशयोगो नाम चतुस्त्रिंशः सर्गः ॥३४॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP