संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ८६ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ८६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।दिनान्ते स समाधातुं पुनरेव मनो मुनिः ।विवेश कांचिद्विततां विज्ञातां विन्ध्यकन्दराम् ॥१॥तदेवात्मानुसंधानमत्यजन्सममिन्द्रियैः ।चेतसा कलयामास दृष्टलोकपरावरः ॥२॥पूर्वमेवेन्द्रियगणो मया परिहृतः स्फुटम् ।इदानीं चिन्तया नार्थः पुनर्विततया मम ॥३॥अस्तिनास्तीतिकलनां भङ्क्त्वा मृद्वीं लतामिव ।शेषं तु बद्धसंस्थानस्तिष्ठाम्यचलश्रृङ्गवत् ॥४॥उदितोऽस्तं गत इव स्वस्तं गत इवोदितः ।समः समरसाभासस्तिष्ठामि स्वच्छतां गतः ॥५॥प्रबुद्धोऽपि सुषुप्तस्थः सुषुप्तस्थः प्रबुद्धवत् ।तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः ॥६॥स्थितः स्थाणुरिवैकान्ते स्वान्तान्ते सर्वतः स्थिते ।सत्त्वसामान्यसाम्ये हि तिष्ठाम्यपगतामयः ॥७॥इति संचिन्त्य स ध्याने पुनस्तस्थौ दिनानि षट् ।ततः प्रबोधमापन्नः क्षणसुप्त इवाध्वगः ॥८॥ततः सिद्धः स भगवान्वीतहव्यो महातपाः ।विजहार चिरं कालं जीवन्मुक्ततया तदा ॥९॥वस्तु नाभिननन्दासौ निनिन्द न कदाचन ।न जगाम तथोद्वेगं न च हर्षमवाप सः ॥१०॥गच्छतस्तिष्ठतश्चैव तस्यैवमभवद्धृदि ।विनोदाय विचित्तस्य कथा स्वमनसा सह ॥१२॥अव्ययेन्द्रियवर्गेश मनः शमवता त्वया ।पश्यानन्दसुखं कीदृग्विधमासादितं ततम् ॥१२॥एषैवाविरतं तस्मान्नीरागैव दशा त्वया ।अवलम्ब्या परित्याज्यं चापलं चलतां वर ॥१३॥भो भो इन्द्रियचौरा हे हताशा हतनामकाः ।युष्माकं नायमात्मास्ति न भवन्तस्तथात्मनः ॥१४॥व्रजतां वो विनाशांशमाशा वो विफलीकृताः ।न समर्थाः समाक्रान्तौ भवन्तो भङ्गुराश्रयाः ॥१५॥वयमात्मेति यैषा वो बभूव किल वासना ।तत्त्वविस्मृतिजाता हि दृष्टरज्जुभुजङ्गवत् ॥१६॥अनात्मन्यात्मता सैषा सैषा वस्तुन्यवस्तुता ।अविचारेण वै जाता विचारेण क्षयं गता ॥१७॥भवन्तोऽन्ये वयं चान्ये ब्रह्मान्यत्कर्तृतापरा ।अन्यो भोक्तान्य आदत्ते को दोषः कस्य कीदृशः ॥१८॥वनेभ्यो दारु संजातं रज्जवो वेणुचर्मणः ।वासी चायःफलान्येव तक्षा ग्रासार्थमुद्यतः ॥१९॥इत्थं यथेह सामग्र्या स्वशक्तिस्थपदार्थया ।संपन्ना काकतालीया दृढा वरगृहाकृतिः ॥२०॥संपन्नाः काकतालीयात्स्वशक्तिनियतेन्द्रियाः ।तथैव कलिका लोलं केव कस्यात्र खण्डना ॥२१॥विस्मृतिर्विस्मृता दूरं स्मृतिः स्फुटमनुस्मृता ।सत्सज्जातमसच्चासत्क्षतं क्षीणं स्थितं स्थितम् ॥२२॥एवंविधेन भगवान्विचारेण महातपाः ।सोऽतिष्ठन्मुनिशार्दूलो बहून्वर्षगणानिह ॥२३॥अपुनर्भवनायैव यत्र चिन्तान्तमागता ।मूढता च सुदूरस्था तत्रासाववसत्सदा ॥२४॥यथाभूतपदार्थौघदर्शनोत्थमनर्थकम् ।ध्यानाश्वासनमालम्ब्य सोऽवसत्सुखगः सदा ॥२५॥हेयादेयसमासङ्गत्यागादानदृशोः क्षये ।वीतहव्यमुनेरासीदिच्छानिच्छातिगं मनः ॥२६॥विदेहकेवलीभावे सीमन्ते जन्मकर्मणाम् ।संसारसङ्गसंत्यागरसासवनवेच्छया ॥२७॥विवेश स तथैवान्ते सह्याद्रौ हेमकन्दरम् ।अपुनःसङ्गमायाशु जगज्जालमवेक्ष्य सः ॥२८॥बद्धपद्मासनः स्थित्वा तत्रोवाचात्मनात्मनि ।राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज ॥२९॥भवद्भ्यां सुचिरं कालमिह प्रक्रीडितं मया ।भोगा नमोस्तु युष्मभ्यं जन्म कोटिशतान्यहम् ॥३०॥भवद्भिर्लालितो लोके लालकैरिव बालकः ।इमामपि परां पुण्यां निर्वाणपदवीमहम् ॥३१॥येन विस्मारितस्तस्मै सुखायास्तु नमो नमः ।त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् ॥३२॥तस्मात्त्वदुपदिष्टोऽयं मार्गो मम नमोऽस्तु ते ।त्वत्प्रसादेन लब्धेयं शीतला पदवी मया ॥३३॥दुःखनाम्ने दुःखतत्त्व सुखदात्मन्नमोस्तु ते ।कल्याणमस्तु ते मित्र संसारासारजीवित ॥३४॥देह स्थितिरियं यामो वयमात्मीयमास्पदम् ।प्रयोजनानां जन्तूनामहो नु विषमा गतिः ॥३५॥देहेनापि वियुज्येऽहं भूत्वा जन्मशतान्यपि ।मित्रकाय मया यत्त्वं त्यज्यसे चिरबान्धवः ॥३६॥त्वयैवात्मन्युपानीता सात्मज्ञानवशात्क्षतिः ।अधिगम्यात्मविज्ञानमात्मनाशः कृतस्त्वया ॥३७॥देह नान्येन भग्नोऽसि त्वयैवैतदुपासितम् ।एकाकिन्यापि शुष्यन्त्या प्रशान्ते मयि दीनया ॥३८॥त्वया दुःखं न कर्तव्यं मातस्तृष्णे व्रजाम्यहम् ।क्षन्तव्याः काम भगवन्विपरीतापराधजाः ॥३९॥दोषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम् ।चिराच्चिराय चेदानीमम्ब तृष्णे किलावयोः ॥४०॥वियोगो योगदोषेण प्रणामोऽयं स पश्चिमः ।नमः सुकृतदेवाय भवतेऽस्तु त्वया पुरा ॥४१॥नरकेभ्यः समुत्तार्य स्वर्गेऽहमभियोजितः ।कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने ॥४२॥शासनापुष्पभाराय नमो दुष्कृतशाखिने ।येन सार्धं चिरं बह्व्यो भुक्ताः प्राकृतयोनयः ॥४३॥अद्यप्रभृत्यदृश्याय तस्मै मोहात्मने नमः॥प्रध्वनद्वंशमधुरवचसे पत्रवाससे ॥४४॥नमो गुहातपस्विन्यै वयस्यायै समाधिषु ।संसाराध्वनि खिन्नस्य त्वं ममाश्वासकारणम् ॥४५॥आसीर्वयस्या सुस्निग्धा सर्वलोभापहारिणी ।सर्वसंकटखिन्नेन दोषेभ्यो द्रवता मया ॥४६॥त्वमेका शोकनाशार्थमाश्रिता परमा सखी ।संकटावटकुञ्जेषु हस्तालम्बनदायिने ॥४७॥वार्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः ।अस्थिपञ्जरमात्मीयं तथा रक्तान्त्रतन्तुकम् ॥४८॥एतावन्मात्रसारैकं गृहीत्वा गच्छ देहक ।पयःक्षोभप्रकारेभ्यः स्नानेभ्योऽपि नमोस्तु ते ॥४९॥नमोस्तु व्यवहारेभ्यः संसृतिभ्यो नमोस्तु ते ।एते भवन्तः सहजाः प्राक्तनाः सुहृदो मया ॥५०॥क्रमेणाद्योत्कृताः प्राणाः स्वस्ति वोऽस्तु व्रजाम्यहम् ।भवद्भिः सह चित्रासु मया बह्वीषु योनिषु ॥५१॥विश्रान्तं गिरिकुञ्जेषु श्रान्तं लोकान्तरेषु च ।क्रीडितं पुरपीठान्तरुषितं पर्वतेषु च ॥५२॥स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु ।न तदस्ति जगत्कोशे भवद्भिः सह यन्मया ॥५३॥न कृतं न हृतं यातं न दत्तं नावलम्बितम् ।इदानीं स्वां दिशं यान्तु भवन्तो याम्यहं प्रियाः ॥५४॥सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ताः सर्वे संसारवर्त्मनि ॥५५॥अयं चाक्षुष आलोको विशत्वादित्यमण्डलम्॥विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः ॥५६॥प्राणानिलस्तथा स्पन्दं विशत्वद्य प्रभञ्जनम् ।विशन्त्वाकाशकुहरं शब्दश्रवणशक्तयः ॥५७॥इन्दुमण्डलमायान्तु रसनारसशक्तयः ।निर्मन्दर इवाम्भोधिर्गतार्क इव वासरः ॥५८॥शरदीव घनः स्वैरं प्राप्तः कल्पान्तसर्गवत् ।ओंकारान्ते स्वमननं प्रशाम्याम्यात्मनात्मनि ।दग्धेन्धन इवार्चिष्मान्निःस्नेह इव दीपकः ॥५९॥व्यपगताखिलकार्यपरम्परःसकलदृश्यदशातिगतस्थितिः ।प्रणवशान्त्यनुसंसृतिशान्तधी-र्विगतमोहमलोऽयमहं स्थितः ॥६०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे इन्द्रियवर्गनिराकरणोपदेशो नाम षडशीतितमः सर्गः ॥८६॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP