संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इदमुत्तमसिद्धान्तसुन्दरं सुन्दराकृते ।उपशान्तिप्रकरणं श्रृणुष्वावहितो हितम् ॥१॥दीर्घसंसारमायेयं राम राजसतामसैः ।धार्यते जन्तुभिर्नित्यं सुस्तम्भैरिव मण्डपः ॥२॥सत्त्वस्यजातिभिर्धीरैस्त्वादृशैर्गुणबृंहितैः ।हेलया त्यज्यते पक्वा मायेयं त्वगिवोरगैः ॥३॥ये सत्त्वजातयः प्राज्ञास्तथा राजससात्त्विकाः ।विचारयन्ति ते साधो जगत्पूर्वपरम्पराम् ॥४॥शास्त्रसज्जनसत्कार्यसङ्गेनोपहतैनसाम् ।सारावलोकिनी बुद्धिर्जायते दीपिकोपमा ॥५॥स्वयमेव विचारेण विचार्यात्मानमात्मना ।यावन्नाधिगतं ज्ञेयं न तावदधिगम्यते ॥६॥प्रज्ञावतां नयवतां धीराणां कुलशालिनाम् ।जात्या राजससत्त्वानां मुख्यस्त्वं रघुनन्दन ॥७॥स्वयमालोकय प्राज्ञ संसारारम्भदृष्टिषु ।किं सत्यं किमसत्यं वा भव सत्यपरायणः ॥८॥आदावन्ते च यन्नास्ति कीदृशी तस्य सत्यता ।आदावन्ते च यन्नित्यं तत्सत्यं नाम नेतरत् ॥९॥आद्यन्तासन्मये यस्य वस्तुन्यासज्जते मनः ।तस्य मुग्धपशोर्जन्तोर्विवेकः केन जन्यते ॥१०॥जायते मन एवेह मन एव विवर्धते ।सम्यग्दर्शनदृष्ट्या तु मन एव हि मुच्यते ॥११॥श्रीराम उवाच ।ज्ञातमेतन्मया ब्रह्मन्यथास्मिन्भुवनत्रये ।मन एव हि संसारिजरामरणभाजनम् ॥१२॥यस्तस्योत्तरणोपायस्तन्मे ब्रूहि सुनिश्चितम् ।हार्दं तमस्त्वयार्केण राघवाणां विनाश्यते ॥१३॥श्रीवसिष्ठ उवाच ।पूर्वं राघव शास्त्रेण वैराग्येण परेण च ।तथा सज्जनसङ्गेन नीयतां पुण्यतां मनः ॥१४॥सौजन्योपहितं चेतो यदा वैराग्यमागतम् ।तदानुगम्या गुरवो विज्ञानगुरवोऽपि ये ॥११॥ततस्तस्योपदिष्टेन कृत्वा ध्यानार्चनादिकम् ।क्रमेण पदमाप्नोति तद्यत्परमपावनम् ॥१६॥विचारेणावदातेन पश्यत्यात्मानमात्मना ।इन्दुना शीतलेनान्तर्विश्वं खमिव तेजसा ॥१७॥तावद्भवमहाम्भोधौ जनस्तृणवदुह्यते ।विचारतटविश्रान्तिमेति यावन्न चेतसा ॥१८॥विचारेण परिज्ञातवस्तुनोऽस्य जनस्य धीः ।सर्वानधःकरोत्याधीन्सौम्याम्भ इव वालुकाः ॥१९॥इदं रुक्ममिदं भस्म परिज्ञातमिति स्फुटम् ।न यथा हेमकारस्य हेमज्ञानात्मनस्तथा ॥२०॥अक्षयोऽयं मनागात्मा स्वात्मन्यवगते चिरम् ।भवतीति नरस्येह मोहस्यावसरः कुतः ॥२१॥अपरिज्ञातसारे हि मनोऽन्तर्यदि मुह्यते ।ज्ञातसारे त्वसंदिग्धमसती किल मूढता ॥२२॥हे जना अपरिज्ञात आत्मा वो दुःखसिद्धये ।परिज्ञातस्त्वनन्ताय सुखायोपशमाय च ॥२३॥मिश्रीभूतमिवानेन देहेनोपहतात्मना ।व्यक्तीकृत्य स्वमात्मानं स्वस्था भवत मा चिरम् ॥२४॥देहेनास्य न संबन्धो मनागेवामलात्मनः ।हेम्नः पङ्कलवेनेव तद्गतस्यापि मानवाः ॥२५॥पृथगात्मा पृथग्देही जलपद्मलवोपमौ ।ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ॥२६॥जडधर्मि मनो यावद्गर्तकच्छपवत्स्थितम् ।भोगमार्गवदामूढं विस्मृतात्मविचारणम् ॥२७॥तावत्संसारतिमिरं सेन्दुनापि सवह्निना ।अर्कद्वादशकेनापि मनागपि न भिद्यते ॥२८॥संप्रबुद्धे हि मनसि स्वां विवेचयति स्थितिम् ।नैशमर्कोदय इव तमो हार्दं पलायते ॥२९॥नित्यमुत्तमबोधाय योगशय्यागतं मनः ।बोधयेद्भवभेदाय भवो ह्यत्यन्तदुःखदः ॥३०॥यथा रजोभिर्गगनं यथा कमलमम्बुभिः ।न लिप्यते हि संश्लिष्टैर्देहैरात्मा तथैव च ॥३१॥कर्दमादि यथा हेम्ना श्लिष्टिमेति पृथक्स्थितम् ।नान्तःपरिणतिं याति जडो देहस्तथात्मना ॥३२॥सुखदुःखानुभावित्वमात्मनीत्यवबुध्यते ।असत्यमेव गगने बिन्दुताम्लानते यथा ॥३३॥सुखदुःखे न देहस्य सर्वातीतस्य नात्मनः ।एते ह्यज्ञानकस्यैव तस्मिन्नष्टे न कस्यचित् ॥३४॥न कस्यचित्सुखं किंचिद्दुःखं च नच कस्यचित् ।सर्वमात्ममयं शान्तमनन्तं पश्य राघव ॥३५॥इमा याः परिदृश्यन्ते वितताः सृष्टिदृष्टयः ।पयसीव तरङ्गास्ते पिच्छं व्योम्नीव चात्मनि ॥३६॥यथा मणिर्ददात्यात्मच्छायाः स्वयमकारणम् ।तेजोमयीस्तथैवायमात्मा सृष्टीः प्रयच्छति ॥३७॥आत्मा जगच्च सुमते नैकं न द्वैतमप्यसत् ।आभासमात्रमेवेदमित्थं संप्रति जृम्भते ॥३८॥समस्तं खल्विदं ब्रह्म सर्वमात्मैवमाततम् ।अहमन्यदिदं चान्यदिति भ्रान्तिं त्यजानघ ॥३९॥तते ब्रह्मघने नित्ये संभवन्ति न कल्पनाः ।विच्छित्तयः पयोराशौ यथा राम न सन्मयाः ॥४०॥एकस्मिन्नेव सर्वस्मिन्परमात्मनि वस्तुनि ।द्वितीया कल्पना नास्ति वह्नौ हिमकणा यथा ॥४१॥भावयन्नात्मनात्मानं चिद्रूपेणैव चिन्मयम् ।ऋजूज्ज्वलमये ह्यात्मा स्वयमात्मनि जृम्भते ॥४२॥न शोकोस्ति न मोहोस्ति न जन्मास्ति न जन्मवान् ।यदस्तीह तदेवास्ति विज्वरो भव राघव ॥४३॥निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।अद्वितीयो विशोकात्मा विज्वरो भव राघव ॥४४॥समः स्वस्थः स्थिरमतिः शान्तशोकमना मुनिः ।मौनी वरमणिस्वच्छो विज्वरो भव राघव ॥४५॥विविक्तः शान्तसंकल्पो धीरधीर्विजिताशयः ।यथाप्राप्तानुवर्ती च विज्वरो भव राघव ॥४६॥वीतरागो निरायासो विमलो वीतकल्मषः ।नादाता न परित्यागी विज्वरो भव राघव ॥४७॥विश्वातीतपदं प्राप्तः प्राप्तप्राप्तव्यपूरितः ।पूर्णार्णववदक्षुब्धो विज्वरो भव राघव ॥४८॥विकल्पजालनिर्मुक्तो मायाञ्जनविवर्जितः ।आत्मनात्मनि तृप्तात्मा विज्वरो भव राघव ॥४९॥अनन्तापारपर्यन्तवपुरात्मविदांवर ।धराधरशिरोधीरो विज्वरो भव राघव ॥५०॥यथाप्राप्तानुभवनात्सर्वत्रानभिवाञ्छनात् ।त्यागादानपरित्यागाद्विज्वरो भव राघव ॥५१॥आत्मन्येवात्मनौदार्यं भज पूर्णं इवार्णवः ।आत्मन्येवात्मनाह्लादं भज पूर्णन्दुबिम्बवत् ॥५२॥विश्वप्रपञ्चरचनेयमसत्यरूपानासत्यरूपमनुधावति राम तज्ज्ञः ।तज्ज्ञोऽसि शान्तकलनोऽसि निरामयोऽसिनित्योदितोऽसि भव सुन्दर शान्तशोकः॥५३॥एकातपत्रमवनौ गुरुणोपदिष्टंसम्यक्सुपालय चिरं समयेह दृष्ट्या ।राज्यं समस्तगुणरञ्जितराजलोक-स्त्वाशो न युक्तइह कर्मसु नापि रागः ॥५४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु उपशमप्रकरणे प्रशमोपदेशो नाम पञ्चमः सर्गः ॥५॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP