सूत उवाच
उक्तः पुण्यः स्तवो ब्रह्मन् हरेरेभिश्च नामभिः ।
पुनरन्यानि नामानि यानि तानि निबोध मे ॥१॥
गङ्गा तु प्रथमं पुण्या यमुना गोमती पुनः ।
सरयूः सरस्वती च चन्द्रभागा चर्मण्वती ॥२॥
कुरुक्षेत्रं गया चैव पुष्कराणि तथार्बुदम् ।
नर्मदा च महापुण्या तीर्थान्येतानि चोत्तरे ॥३॥
तापी पयोष्णी पुण्ये द्वे तत्सङ्गात्तीर्थमुत्तमम् ।
तथा ब्रह्मगिरेश्चापि मेखलाभिः समन्विताः ॥४॥
विरजं च तथा तीर्थं सर्वपापक्षयंकरम् ।
गोदावरी महापुण्यां सर्वत्र चतुरानन ॥५॥
तुङ्गभद्रा महापुण्या यत्राहं कमलोद्भव ।
हरेण सार्धं प्रीत्या तु वसामि मुनिपूजितः ॥६॥
दक्षिणगङ्गा कृष्णा तु कावेरी च विशेषतः ।
सह्ये त्वामलकग्रामे स्थितोऽहं कमलोद्भव ॥७॥
देवदेवस्य नाम्ना तु त्वया ब्रह्मन् सदार्चितः ।
तत्र तीर्थान्यनेकानि सर्वपापहराणि वै ॥
येषु स्नात्वा च पीत्वा च पापान्मुच्यति मानवः ॥८॥
सूत उवाच
इत्येवं कथयित्वा तु तीर्थानि मधुसूदनः ।
ब्रह्मणे गतवान् ब्रह्मन् ब्रह्मापि स्वपुरं गतः ॥९॥
भरद्वाज उवाच
तस्मिन्नामलकग्रामे पुण्यतीर्थानि यानि वै ।
तानि मे वद धर्मज्ञ विस्तरेण यथार्थतः ॥१०॥
क्षेत्रोत्पत्तिं च माहात्म्यं यात्रापर्व च यत्र तत् ।
तत्रासौ देवदेवेशः पूज्यते ब्रह्मणा स्वयम् ॥११॥
सूत उवाच
श्रृणु विप्र प्रवक्ष्यामि पुण्यं पापप्रणाशनम् ।
सह्यामलकतीर्थस्य उत्पत्त्यादि महामुने ॥१२॥
पुरा सह्यवनोद्देशे तरुरामलको महान् ।
आसीदब्रह्मन् महोग्रोऽयं नाम्नायं चोच्यते बुधैः ॥१३॥
फलानि तस्य वृक्षस्य महान्ति सुरसानि च ।
दर्शनीयानि दिव्यानि दुर्लभानि महामुने ॥१४॥
परेषां ब्राह्मणानां तु परेण ब्रह्मणा पुरा ।
स दृष्टस्तु महावृक्षो महाफलसमन्वितः ॥१५॥
किमेतदिति विप्रेन्द्र ध्यानदृष्टिपरोऽभवत् ।
ध्यानेन दृष्टवांस्तत्र पुनरामलकं तरुम् ॥१६॥
तस्योपरि तु देवेशं शङ्खचक्रगदाधरम् ।
उत्थाय च पुनः पश्येत्प्रतिमामेव केवलाम् ॥१७॥
तत्पादं भूतले देवः प्रविवेश महातरुः ।
ततस्त्वाराधयामास देवदेवेशमव्ययम् ॥१८॥
गन्धपुष्पादिभिर्नित्यं ब्रह्मा लोकपितामहः ।
द्वादशभिः सप्तभिस्तु संख्याभिः पूजितो हरिः ॥१९॥
तस्मिन् क्षेत्रे मुनिश्रेष्ठ माहात्म्यं तस्य को वदेत् ।
श्रीसह्यामलकग्रामे देवदेवेशमव्ययम् ॥२०॥
आराध्य तीर्थे सम्प्राप्ता द्वादश प्रति चतुर्मुखम् ।
तस्य पादतले तीर्थं निस्सृतं पश्चिमामुखम् ॥२१॥
तच्चक्रतीर्थमभवत्पुण्यं पापप्रणाशनम् ।
चक्रतीर्थं नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥२२॥
बहुवर्षसहस्त्राणि ब्रह्मलोके महीयते ।
शङ्खतीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥२३॥
पौषे माते तु पुष्यार्के तद्यात्रादिवसं मुने ।
ब्रह्मणः कुण्डिका पूर्वं गङ्गातोयप्रपूरिता ॥२४॥
तस्याद्रौ पतिता ब्रह्मंस्तत्र तीर्थेऽशुभं हरेत् ।
नाम्ना तत्कुण्डिकातीर्थं शिलागृहसमन्वितम् ॥२५॥
तत्तीर्थे मनुजः स्नात्वा तदानीं सिद्धिमाप्नुयात् ।
त्रिरात्रोपोषितो भूत्वा यस्तत्र स्नति मानवः ॥२६॥
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।
कुण्डिकातीर्थादुत्तरे पिण्डस्थानाच्च दक्षिणे ॥२७॥
ऋणमोचनतीर्थं हि तीर्थानां गुह्यमुत्तमम् ।
त्रिरात्रमुषितो यस्तु तत्र स्नानं समाचरेत् ॥२८॥
ऋणैस्त्रिभिरसौ ब्रह्मन् मुच्यते नात्र संशयः ।
श्राद्धं कृत्वा पितृभ्यश्च पिण्डस्थानेषु यो नरः ॥२९॥
पितृनुद्दिश्य विधिवत्पिण्डान्निर्वापयिष्यति ।
सुतृप्ताः पितरो यान्ति पितृलोकं न संशयः ॥३०॥
पञ्चरात्रोषितस्नायी तीर्थे वै पापमोचने ।
सर्वपापक्षयं प्राप्य विष्णुलोके स मोदते ॥३१॥
तत्रैव महतीं धारां शिरसा यस्तु धारयेत् ।
सर्वक्रतुफलं प्राप्य नाकपृष्ठे महीयते ॥३२॥
धनुः पाते महातीर्थे भक्त्या यः स्नानमाचरेत् ।
आयुर्भोगफलं प्राप्य स्वर्गलोके महीयते ॥३३॥
शरबिन्दौ नरः स्त्रात्वा शतक्रतुपुरं व्रजेत् ।
वाराहतीर्थे विप्रेन्द्र सह्ये यः स्नानमाचरेत् ॥३४॥
अहोरात्रोषितो भूत्वा विष्णुलोके महीयते ।
आकाशगङ्गानाम्ना च सह्याग्रे तीर्थमुत्तमम् ॥३५॥
शिलातलात्ततो ब्रह्मन्निर्गता श्वेतमृत्तिका ।
तस्यां भक्त्या तु यः स्नाति नरो द्विजवरोत्तम ॥३६॥
सर्वक्रतुफलं प्राप्य विष्णुलोके महीयते ।
ब्रह्मन्नमलसह्याद्रेर्यद्यत्तोयविनिर्गमः ॥३७॥
तत्र तीर्थं विजानीहि स्नात्वा पापात्प्रमुच्यते ।
सह्याद्रिं गतवान्नित्यं स्नात्वा पापात्प्रमुच्यते ॥३८॥
एतेषु तीर्थेषु नरो द्विजेन्द्र पुण्येषु सह्याद्रिसमुद्भवेषु ।
दत्त्वा सुपुष्पाणि हरि स भक्त्या विहाय पापं प्रविशेत्स विष्णुम् ॥३९॥
सकृत्तीर्थाद्रितोयेषु गङ्गायां तु पुनः पुनः ।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥४०॥
सर्वशास्त्रमयी गीता सर्वधर्मो दयापरः ।
एवं ते कथितं विप्र क्षेत्रमाहात्म्यमुत्तमम् ॥४१॥
श्रीसह्यामलकग्रामे तीर्थे स्नात्वा फलानि च ।
तीर्थानामपि यत्तीर्थं तत्तीर्थ द्विजसत्तम ।
देवदेवस्य पादस्य तलाद्भुवि विनिस्सृतम् ॥४२॥
अम्भोयुगं तुरगमेधसहस्त्रतुल्यं तच्चक्रतीर्थमिति वेदविदो वदन्ति ।
स्नानच्च तत्र मनुजा न पुनर्भवन्ति पादौ प्रणम्य शिरसा मधुसूदनस्य ॥४३॥
गङ्गाप्रयागगमनैमिषपुष्कराणि पुण्यायुतानि कुरुजाङ्गलयामुनानि ।
कालेन तीर्थसलिलानि पुनन्ति पापात् पादोदकं भगवतस्तु पुनाति सद्यः ॥४४॥
इति नरसिंहपुराणे तीर्थप्रशंसायां षटषष्टितमोऽध्यायः ॥६६॥