भरद्वाज उवाच
कथं स्तुतो गणाध्यक्षस्तेन राज्ञा महात्मना ।
यथा तेन तपस्तप्तं तन्मे वद महामते ॥१॥
सूत उवाच
चतुर्थीदिवसे राजा स्नात्वा त्रिषवणं द्विज ।
रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥२॥
सुरक्तकुसुमैर्हेद्यैर्विनायकमथार्चयत् ।
रक्तचन्दनतोयेन स्नानपूर्वं यथाविधि ॥३॥
विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयत् ।
ततोऽसौ दत्तवान् धूपमाज्ययुक्तं सचन्दनम् ।
नैवेद्यं चैव हारिद्रं गुडखण्डघृतप्लुतम् ॥४॥
एवं सुविधिना पूज्य विनायकमथास्तवीत् ।
इक्ष्वाकुरुवाच
नमस्कृत्य महादेवं स्तोष्येऽहं तं विनायकम् ॥५॥
महागणपतिं शूरमजितं ज्ञानवर्धनम् ।
एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ॥६॥
त्र्यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम् ।
आम्बिकेयं शूर्पकर्णं प्रचण्डं च विनायकम् ॥७॥
आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम् ।
अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥८॥
तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम् ।
मदमत्तं विरुपाक्षं भक्तिविघ्ननिवारकम् ॥९॥
सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम् ।
बुद्धं सुनिर्मलं शान्तं नमस्यामि विनायकम् ॥१०॥
नमोऽस्तु गजवक्त्राय गणानां पतये नमः ।
मेरुमन्दररुपाय नमः कैलासवासिने ॥११॥
विरुपाय नमस्तेऽस्तु नमस्ते ब्रह्मचारिणे ।
भक्तस्तुताय देवाय नमस्तुभ्य्णं विनायक ॥१२॥
त्वया पुराण पूर्वेषां देवानां कार्यसिद्ध्यये ।
गजरुपं समास्थाय त्रासिताः सर्वदानवाः ॥१३॥
ऋषीणां देवतानां च नायकत्वं प्रकाशितम् ।
यतस्ततः सुरैरग्रे पूज्यसे त्वं भवात्मज ॥१४॥
त्वामाराध्य गणाध्यक्षं सर्वज्ञं कामरुपिणम् ।
कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥१५॥
रक्ताम्बरधरो भूत्वा चतुर्थ्यामर्चयेज्जपेत् ।
त्रिकालमेककालं वा पूजयेन्नियताशनः ॥१६॥
राजानं राजपुत्रं वा राजमन्त्रिणमेव वा ।
राज्यं च सर्वविघ्नेश वशं कुर्यात् सराष्ट्रकम् ॥१७॥
अविघ्नं तपसो मह्यं कुरु नौमि विनायक ।
मयेत्थं संस्तुतो भक्त्या पूजितश्च विशेषतः ॥१८॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।
तत्फलं पूर्णमाप्नोति स्तुत्वा देवं विनायकम् ॥१९॥
विषमं न भवेत् तस्य न च गच्छेत् पराभवम् ।
न च विघ्नो भवेत् तस्य जातो जातिस्मरो भवेत् ॥२०॥
य इदं पठते स्तोत्रं षडभिर्मासैर्वरं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥२१॥
सूत उवाच
एवं स्तुत्वा पुरा राजा गणाध्यक्षं द्विजोत्तम ।
तापसं वेषमास्थाय तपश्चर्तुं गतो वनम् ॥२२॥
उत्सृज्य वस्त्रं नागत्वक्सदृशं बहुमूल्यकम् ।
कठिनां तु त्वचं वाक्षीं कट्यां धत्ते नृपोत्तमः ॥२३॥
तथा रत्नानि दिव्यानि वलयानि निरस्य तु ।
अक्षसूत्रमलंकारं फलैः पद्मस्य शोभनम् ॥२४॥
तथोत्तमाङ्गे मुकुटं रत्नहाटकशोभितम् ।
त्यक्त्वा जटाकलापं तु तपोऽर्थे बिभृयान्नृपः ॥२५॥
कृत्वेत्थं स तपोवेषं वसिष्ठोक्तं तपोवनम् ।
प्रविश्य च तपस्तेपे शाकमूलफलाशनः ॥२६॥
ग्रीष्मे पञ्चाग्निमध्यस्थोऽतपत्काले महातपाः ।
वर्षाकाले निरालम्बो हेमन्ते च सरोजले ॥२७॥
इन्द्रियाणि समस्तानि नियम्य हदये पुनः ।
मनो विष्णौ समावेश्य मन्त्रं वै द्वादशाक्षरम् ॥२८॥
जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः ।
आविर्बभूव भगवान् ब्रह्मा लोकपितामहः ॥२९॥
तमागतमथालोक्य पद्मयोनिं चतुर्मुखम् ।
प्रणम्य भक्तिभावेन स्तुत्या च पर्यतोषयत् ॥३०॥
नमो हिरण्यगर्भाय जगत्स्त्रष्ट्रे महात्मने ।
वेदशास्त्रार्थविदुषे चतुर्वक्त्राय ते नमः ॥३१॥
इति स्तुतो जगत्स्त्रष्टा ब्रह्मा प्राह नृपोत्तमम् ।
तपस्यभिरतं शान्तं त्यक्तराज्यं महासुखम् ।
ब्रह्मोवाच
लोकप्रकाशको राजन् सूर्यस्तव पितामहः ॥३२॥
मुनीनामपि सर्वेषां सदा मान्यो मनुः पिता ।
कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ ॥३३॥
किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम ।
तपः करोषि घोरं त्वं समाचक्ष्व महामते ॥३४॥
इत्युक्तो ब्रह्मणा राजा तं प्रणम्याब्रवीद्वचः ।
द्रष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ॥३५॥
करोम्येवं तपो ब्रह्मन् शङ्खचक्रगदाधरम् ।
इत्युक्तः प्राह राजानं पद्मजन्मा हसन्निव ॥३६॥
न शक्यस्तपसा द्रष्टुं त्वया नारायणो विभुः ।
मादृशैरपि नो दृश्यः केशवः क्लेशनाशनः ॥३७॥
पुरातनीं पुण्यकथां कथयामि निबोध मे ।
निशान्ते प्रलये लोकान् निनीय कमलेक्षणः ॥३८॥
अनन्तभोगशयने योगनिद्रां गतो हरिः ।
सनन्दनाद्यैर्मुनिभिः स्तूयमानो महामते ॥३९॥
तस्य सुप्तस्य नाभौ तु महत्पद्ममजायत ।
तस्मिन् पद्मे शुभे राजन् जातोऽहं वेदवित् पुरा ॥४०॥
ततो भूत्वा त्वधोदृष्टिर्दृष्टवान् कमलेक्षणम् ।
अनन्तभोगपर्यङ्के भिन्नाञ्जननिभं हरिम् ॥४१॥
अतसीकुसुमाभासं शयानं पीतवाससम् ।
दिव्यरत्नविचित्राङ्गं मुकुटेन विराजितम् ॥४२॥
कुन्देन्दुसदृशाकारमनन्तं च महामते ।
सहस्त्रफणमध्यस्थैर्मणिभिर्दीप्तिमत्तरम् ॥४३॥
क्षणमात्रं तु तं दृष्ट्वा पुनस्तत्र न दृष्टवान् ।
दुःखेन महताऽऽविष्टो बभूवाहं नृपोत्तम ॥४४॥
ततो न्ववातरं तस्मात् पद्मनालं समाश्रितः ।
कौतूहलेन तं द्रष्टुं नारायणमनामयम् ॥४५॥
ततस्त्वन्विष्य राजेन्द्र सलिलान्ते न दृष्टवान् ।
श्रीशं पुनस्तमेवाहं पद्ममाश्रित्य चिन्तयन् ॥४६॥
तद्रूपं वासुदेवस्य द्रष्टुं तेपे महत्तपः ।
ततो मामन्तरिक्षस्था वागुवाचाशरीरिणी ॥४७॥
वृथा किं क्लिश्यते ब्रह्मन् साम्प्रतं कुरु मे वचः ।
न दृश्यो भगवान् विष्णुस्तपसा महतापि ते ॥४८॥
सृष्टिं कुरु तदाज्ञसो यदि द्रष्टुमिहेच्छसि ।
शुद्धस्फटिकसंकाशनागपर्यङ्कशायिनम् ॥४९॥
यददृष्टं शार्ङ्गिणो रुपं भिन्नाञ्जनसमप्रभम् ।
प्रतिभानियतं रुपं विमानस्थं महामते ॥५०॥
भज नित्यमनालस्यस्ततो द्रक्ष्यासि माधवम् ।
तयेत्त्थं चोदितो राजंस्त्यक्त्वा तप्तमनुक्षणम् ॥५१॥
सृष्टवान् लोकभूतानां सृष्टिं सृष्ट्वा स्थितस्य च ।
आविर्बभूव मनसि विश्वकर्मा प्रजापतिः ॥५२॥
अनन्तकृष्णायोस्तेन द्वे रुपे निर्मिते शुभे ।
विमानस्थो यथापूर्वं मया दृष्टो जले नृप ॥५३॥
तथैव तं ततो भक्त्या सम्पूज्याहं हरिं स्थितः ।
तत्प्रसादात्तपः श्रेष्ठं मया ज्ञानमनुत्तमम् ॥५४॥
लब्ध्वा मुक्तिं च पश्यामि अविकारक्रियासुखम् ।
तदहं ते प्रवक्ष्यामि हितं नृपवरेश्वर ॥५५॥
विसृज्यैतत्तपो घोरं पुरीं व्रज निजां नृप ।
प्रजानां पालनं धर्मस्तपश्चैव महीभृताम् ॥५६॥
विमानं प्रेषयिष्यामि सिद्धद्विजगणान्वितम् ।
तत्राराधय देवेशं बाह्यार्थैरखिलैः शुभैः ॥५७॥
नारायणमनन्ताख्ये शयानं क्रतुभिर्यजन् ।
निष्कामो नृपशार्दूल प्रजा धर्मेण पालय ॥५८॥
प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप ।
इत्युक्त्वा तं जगामाथ ब्रह्मलोकं पितामहः ॥५९॥
इक्ष्वाकुश्चिन्तयन्नास्ते पद्मयोनिवचो द्विज ।
आविर्बभूव पुरतो विमानं तन्महीभृतः ॥६०॥
ब्रह्मदत्तं द्विजयुतं माधवानन्तयोः शुभम् ।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥६१॥
ऋषीन् प्रणम्य विप्रांश्च तदादाय ययौ पुरीम् ।
पौरैर्जनैश्च नारीभिर्दृष्टः शोभासमन्वितैः ॥६२॥
लाजा विनिक्षिपद्भिश्च नीतो राजा स्वकं गृहम् ।
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥६३॥
संस्थाप्याराधयामास तैर्द्विजैरचिंतं हरिम् ।
महिष्यः शोभना यास्तु पिष्ट्वा तु हरिचन्दनम् ॥६४॥
मालां कृत्वा सुगन्धाढ्यां प्रीतिस्तस्य ववर्ध ह ।
पौराः कर्पूरश्रीखण्डं कुङ्कुमाद्यगुरुं तथा ॥६५॥
कृस्त्रं विशेषतो वस्त्रं महिषाख्यं च गुग्गुलम् ।
पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ॥६६॥
विमानस्थं हरि पूज्य गन्धपुष्पादिभिः क्रमात् ।
त्रिसंध्यं परया भक्त्या जपैः स्तोत्रैश्च वैष्णवेः ॥६७॥
गीतैः कोलाहलैः शब्दैः शङ्खवादिनत्रनादितैः ।
प्रेक्षणैरपि शास्त्रोक्तैः प्रीतैश्च निशिजागरैः ॥६८॥
कारयामास सुचिरमुत्सवं परमं हरेः ।
यागैश्च तोषयित्वा तं सर्वदेवमयं हरिम् ॥६९॥
निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान् ।
यजन् यज्ञं महीं रक्षन् स कुर्वन् केशवार्चनम् ॥७०॥
उत्पाद्य पुत्रान् पित्रर्थं ध्यानात्त्यक्त्वा कलेवरम् ।
ध्यायन् वै केवलं ब्रह्म प्राप्तवान् वैष्णवं पदम् ॥७१॥
अजं विशोकं विमलं विशुद्धं शान्त सदानन्दचिदात्मकं ततः ।
विहाय संसारमनन्तदुः खं जगाम तद्विष्णुपदं हि राजा ॥७२॥
इति श्रीनरसिंहपुराणे इक्ष्वाकुचरिते पञ्चविंशोऽध्यायः ॥२५॥