मार्कण्डेय उवाच
अथागतं ते प्रह्लादं दृष्ट्वा दैत्याः सुविस्मिताः ।
शशंसुर्दैत्यपतये यैः क्षिप्तः स महार्णवे ॥१॥
स्वस्थ तमागतं श्रुत्वा दैत्यराडविस्मयाकुलः ।
आहूयतां च इत्याह क्रोधान्मृत्युवशे स्थितः ॥२॥
तथासुरैर्दुरानीतः समासीनं स दिव्यदृक् ।
आसन्नमृत्युं दैत्येन्द्र ददर्शात्यूर्जितश्रियम् ॥३॥
नीलांशुमिश्रमाणिक्यद्युतिच्छन्नविभूषणम् ।
सधूमाग्निमिव व्याप्तमुच्चासनचितिस्थितम् ॥४॥
दंष्ट्रोत्कटैर्घोरतरैर्घनच्छविभिरुद्भटैः ।
कुमार्गदर्शिभिर्दैर्यमदूतैरिवावृत्तम् ॥५॥
दूरात् प्रणम्य पितरं प्राञ्जलिस्तु व्यवस्थितः ।
अथाहाकारणक्रोधः स खलो भर्त्सयन् सुतम् ॥६॥
भगवत्प्रियमत्युच्चैर्मृत्युमेवाश्रयन्निव ।
मूढ रे श्रृणु मद्वाक्यमेतदेवान्तिमं ध्रुवम् ॥७॥
इतो न त्वां प्रवक्ष्यामि श्रुत्वा कुरु यथेप्सितम् ।
उक्त्वेति द्रुतमाकृष्य चन्द्रहासासिमद्भुतम् ॥८॥
सम्भ्रमाद्वीक्षितः सर्वेश्चालयन्नाह तं पुनः ।
क्व चास्ति मूढ ते विष्णुः स त्वामद्य प्ररक्षतु ॥९॥
त्वयोक्तं स हि सर्वत्र कस्मात्स्तम्भे न दृश्यते ।
यदि पश्यामि तं विष्णुमधुना स्तम्भमध्यगम् ॥१०॥
तर्हि त्वां न वधिष्यामि भविष्यसि द्विधान्यथा ।
प्रह्लादोऽपि तथा दृष्ट्वा दध्यौ तं परमेश्वरम् ॥११॥
पुरोक्तं तद्वचः स्मृत्वा प्रणनाम कृताञ्जलिः ।
तावत्प्रस्फुटितस्तम्भो वीक्षितो दैत्यसूनुना ॥१२॥
आदर्शरुपो दैत्यस्य खङ्गतो यः प्रतिष्ठितः ।
तन्मध्ये दृश्यते रुपं बहुयोजनमायतम् ॥१३॥
अतिरौद्रं महाकायं दानवानां भयंकरम् ।
महानेत्र महावक्त्रं महादंष्ट्रं महाभुजम् ॥१४॥
महानखं महापादं कालाग्निसदृशाननम् ।
कर्णान्तकृतविस्तारवदनं चातिभीषणम् ॥१५॥
कृत्वेथ्यं नारसिंह तु ययौ विष्णुस्त्रिविक्रमः ।
नरसिंहः स्तम्भमध्यान्निर्गत्य प्रणनाद च ॥१६॥
निनादश्रवणाद्दैत्या नरसिंहमवेष्टयन् ।
तान् हत्वा सकलांस्तत्र स्वपौरुषपराक्रमात् ॥१७॥
बभञ्ज च सभां दिव्यां हिरण्यकशिपोर्नृप ।
वारयामासुरभ्येत्य नरसिंहं महाभटाः ॥१८॥
ते तु राजन् क्षणादेव नरसिंहेन वै हताः ।
ततः शस्त्राणि वर्षन्ति नरसिंहे प्रतापिनि ॥१९॥
स तु क्षणेन भगवान् हत्वा तद्वलमोजसा ।
ननाद च महानादं दिशः शब्देन पूरयन् ॥२०॥
तान्मृतानापि विज्ञाय पुनरन्यान्महासुरः ।
अष्टाशीतिसहस्त्राणि हेतिहस्तान् समादिशत ॥२१॥
तेऽप्यागत्य च तं देवं रुरुधुः सर्वतोदिशम् ।
हत्वा तानखिलान् युद्धे युध्यमानो ननाद सः ॥२२॥
पुनः सभां बभञ्जासौ हिरण्यकशिपोः शुभाम् ।
तान् हतानपि विज्ञाय क्रोधसंरक्तलोचनः ॥२३॥
ततो हिरण्यकशिपुर्निश्चकाम महाबलः ।
उवाच च महीपाल दानवान् बलदर्पितान् ॥२४॥
हन्यतां हन्यतामेष गृह्यतां गृह्यतामयम् ।
इत्येवं वदतस्तस्य प्रमुखे तु महासुरान् ॥२५॥
युध्यमानान् रणे हत्वा नरसिंहो ननाद च ।
ततोऽतिदुद्रुव्रर्दैत्या हतशेषा दिशो दश ॥२६॥
तावद्धता युध्यमाना दैत्याः कोटिसहस्त्रशः ।
नरसिंहेन यावच्य नभोभागं गतो रविः ॥२७॥
शस्त्रास्त्रवर्षचतुरं हिरण्यकशिपुं जवात् ।
प्रगृह्य तु बलाद्राजन् नरसिंहो महाबलः ॥२८॥
संध्याकाले गृहद्वारि स्थित्वोरौ स्थाप्य तं रिपुम् ।
वज्रतुल्यमहोरस्कं हिरण्यकशिपुं रुषा ।
नखैः किसलयमिव दारयत्याह सोऽसुरः ॥२९॥
यत्राखण्डलदन्तिदन्तमुसलान्याखण्डितान्याहवेधारा यत्र पिनाकपाणिपरशो राकुण्ठतामागमत् ।
तन्मे तावदुरो नृसिंहकरजैर्व्यादीर्यते साम्प्रतं दैवे दुर्जनतां गये तृणमपि प्रायोऽप्यवज्ञायते ॥३०॥
एवं वदति दैत्येन्द्रे ददार नरकेसरी ।
हदयं दैत्यराजस्य पद्मपत्रमिव द्विपः ॥३१॥
शकले द्वे तिरोभूते नखरन्धे महात्मनः ।
ततः क्व यातो दुष्टोऽसाविति देवोऽतिविस्मितः ॥३२॥
निरीक्ष्य सर्वतो राजन् वृथैतत्कर्म मेऽभवत् ।
इति संचिन्त्य राजेन्द्र नरसिंहो महाबलः ॥३३॥
व्यधूनयतित्करावुच्चैस्ततस्ते शकले नृप ।
नखरन्ध्रान्निपतिते भूमौ रेणुसमे हरेः ॥३४॥
दृष्ट्वा व्यतीतसंरोषो जहास परमेश्वरः ।
पुष्पवर्षं च वर्षन्तो नरसिंहस्य मूर्धनि ॥३५॥
देवाः सब्रह्मकाः सर्वे आगताः प्रीतिसंयुताः ।
आगत्य पूजयामासुर्नरसिंहं परं प्रभुम् ॥३६॥
ब्रह्मा च दैत्यराजानं प्रह्लादमभिषेचयत् ।
धर्मे रतिः समस्तानां जनानामभवत्तदा ॥३७॥
इन्द्रोऽपि सर्वदेवैस्तु हरिणा स्थापितो दिवि ।
नरसिंहोऽपि भगवान् सर्वलोकहिताय वै ॥३८॥
श्रीशैलशिखरं प्राप्य विश्रुतः सुरपूजितः ।
स्थितो भक्तहितार्थाय अभक्तांना क्षयाय च ॥३९॥
इत्येतन्नरसिंहस्य माहात्म्यं यः पठेन्नरः ।
श्रृणोति वा नृपश्रेष्ठ मुच्यते सर्वपातकैः ॥४०॥
नरो वा यदि वा नारी श्रृणोत्याख्यानमुत्तमम् ।
वैधव्याददुःखशोकाच्च दुष्टसङ्गात्प्रमुच्यते ॥४१॥
दुश्शीलोऽपि दुराचारो दुष्प्रजो दोषकर्मकृत् ।
अधर्मिष्ठोऽनभोगी च श्रृण्वन् शुद्धो भवेन्नरः ॥४२॥
हरिः सुरेशो नरलोकपूजितो हिताय लोकस्य चराचरस्य ।
कृत्वा विरुपं च पुराऽऽत्ममायया हिरण्यकं दुःखकरं नखैश्छिनत् ॥४३॥
इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावो नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥