हारीत उवाच
अतः परं प्रवक्ष्यामि वानप्रस्थस्य लक्षणम् ।
धर्ममग्न्यं महाभागाः कथ्यमानं निबोधत ॥१॥
गृहस्थः पुत्रपौत्रादीन् दृष्ट्वा पलितमात्मनः ।
स्वभार्यां तनये स्थाप्य स्वशिष्यैः प्रविशेद्वनम् ॥२॥
जटाकलापचीराणि नखगात्ररुहाणि वा ।
धारयञ्जुहुयादग्नौ वैतानविधिना स्थितः ॥३॥
भृतपर्णैर्मृत्सम्भूतैर्नीवाराद्यैरतन्द्रितः ।
कंदमूलफलैर्वापि कुर्यान्नित्यक्रियां बुधः ॥४॥
त्रिकालं स्नानयुक्तस्तु कुर्यात्तीव्रं तपः सदा ।
पक्षे गते वा अश्नीयान्मासान्ते वा पराककृत् ॥५॥
चतुः कालेऽपि चाश्नीयात्कलेऽप्युत तथाष्टमे ।
षष्ठाह्नकाले ह्यथवा अथवा वायुभक्षकः ॥६॥
घर्मे पञ्चाग्निमध्यस्थो धारावर्षासु वै नयेत् ।
हैमन्तिके जले स्थित्वा नयेत्कालं तपश्चरन् ॥७॥
एवं स्वकर्मभोगेन कृत्वा शुद्धिमथात्मनः ।
अग्निं चात्मनि वै कृत्वा व्रजेद्वाथोत्तरां दिशम् ॥८॥
आदेहपाताद्वनगो मौनमास्थाय तापसः ।
स्मरन्नतीन्द्रियं ब्रह्म ब्रह्मलोके महीयते ॥९॥
तपो हि यः सेवति काननस्थो वसेन्महत्सत्त्वसमाधियुक्तः ।
विमुक्तपापो हि मनः प्रशान्तः प्रयाति विष्णोः सदनं द्विजेन्द्रः ॥१०॥
इति श्रीनरसिंहपुराणे वानप्रस्थाधर्मो नाम एकोनषष्टितमोऽध्यायः ॥५९॥