श्रीसूत उवाच
अतः परं प्रवक्ष्यामि भूगोलं द्विजसत्तमाः ।
संक्षेपात् पर्वताकीर्णं नदीभिश्च समन्ततः ॥१॥
जम्बुप्लक्षशाल्मलकुशक्रौञ्चशाकपुष्करसंज्ञाः सप्त द्वीपा । लक्षयोजनप्रमाणाज्जम्बुद्धीपादुत्तरोत्तरद्विगुणाः ॥
लवणेक्षुरससुरासर्पिदीधिदुग्धस्वच्छोदकसंज्ञैः परस्परं द्विगुणैः सप्तसमुद्वैलयाकारैस्ते द्वीपाः परिधिष्ठिताः ॥२॥
योऽसौ मनुपुत्रः प्रियव्रतो नाम स सप्तद्वीपाधिपतिर्बभूव । तस्य अग्नीध्रादयो दश पुत्रा बभूवुः ॥३॥
त्रयः प्रव्रजिताः । शिष्टानां सप्तानां सप्तद्वीपाः पित्रा दत्ताः । तत्र जम्बुद्वीपाधिपतेरग्नीध्रस्य नव पुत्रा जाताः ॥४॥
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ।
रम्यो हिरण्मयश्चैव कुरुर्भद्रश्च केतुमान् ॥५॥
नववर्षाः विभज्य पुत्रेभ्यः पित्रा दत्ता वनं प्रविशता । अग्नीध्रीयं हिमाह्नयम् । यस्याधिपतिर्नाभः ऋषभः पुत्रो बभूव ॥६॥
ऋषभाद् भरतो भरतेन चिरकालं धर्मेण पालितत्वादिदं भारतं वर्षसभृत् ।
इलावृतस्य मध्ये मेरुः सुवर्णमयश्चतुरशीतिसहस्त्राणी योजनानि तस्योच्छ्रायः ।
षोडशसहस्त्रमप्यधस्तादवगाढः । तदद्विगुणो मूर्धि विस्तारः ॥७॥
तन्मध्ये ब्रह्मणः पुरी । ऐन्द्र्यामिन्द्रस्य चामरावती । आग्न्येय्यामग्नेस्तेजोवती ।
याम्यां यमस्य संयमनी । नैऋत्यां निऋतेर्भयंकरी । वारुण्यां वरुणस्य विश्वावती ।
वायव्यां वायोर्गन्धवती । उदीच्यां सोमस्य विभावरीति । नववर्षान्वितं जम्बूद्वीपं पुण्यपर्वतैः पुण्यनदीभिरन्वितम् ॥८॥
किम्पुरुषादीन्यष्टवर्षाणि पुण्यवतां भोगस्थानानि साक्षाद भारतवर्षमेकं कर्मभूमिश्चातुर्वर्ण्ययुतम् ॥९॥
तत्रैव कर्मभिः स्वर्गं कृतैः प्राप्स्यन्ति मानवाः ।
मुक्तिश्चात्रैव निष्कामैः प्राप्यते ज्ञानकर्मभिः ।
अधोगतिमितो विप्र यान्ति वै पापकारिणः ॥१०॥
ये पापकारिणस्तान् विद्धि पातालतले नरके कोटिसमन्वितान् ॥११॥
अथ सप्त कुलपर्वताः कथ्यन्ते ।
महेन्द्रो मलयः शुक्तिमान् ऋष्यमूकः सह्यपर्वतो विन्ध्यः पारियात्रः इत्येते भारते कुलपर्वताः ॥१२॥
नर्मदा सुरसा ऋषिकुल्या भीमरथी कृष्णा वेणी चन्द्रभागा ताम्नपर्णी इत्येताः सप्त नद्यः ।
गङ्गा यमुना गोदावरी तुङ्गभद्रा कावेरी सरयूरित्येता महानद्यः पापघ्न्यः ॥१३॥
जम्बुनाम्ना च विख्यातं जम्बुद्वीपमिदं शुभम् ।
लक्षयोजनविस्तीर्णमिदं श्रेष्ठं तु भारतम् ॥१४॥
ऋक्षद्वीपादिपुण्या जनपदाः । निष्कामा ये स्वधर्मेण नरसिंहं यजन्ति ते तत्र निवसन्ति । अधिकारक्षयान्मुक्तिं च प्राप्नुवन्ति ॥१५॥
जम्ब्वाद्याः स्वादूदकान्ताः सप्त पयोधयः । ततः परा हिरण्म्ययी भूमिः । ततो लोकालोकपर्वतः । एष भूर्लोकः ॥१६॥
अस्योपरि अन्तरिक्षलोकः । खेचराणां रम्यस्तदूर्ध्वं स्वर्गलोकः ॥१७॥
स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोधन ।
भारते कृतपुण्यानां देवानामपि चालयम् ॥१८॥
मध्ये पृथिव्यामद्रीन्द्रो भास्वान् मेरुर्हिण्मयः ।
योजनानां सहस्त्राणि चतुराशीतिमुच्छ्रितः ॥१९॥
प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः ।
तावत्प्रमाणा पृथिवी पर्वतस्य समन्ततः ॥२०॥
तस्य श्रृङ्गत्रयं मूर्ध्नि स्वर्गो यत्र प्रतिष्ठितः ।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥२१॥
मध्यमं पश्चिमं पूर्वं मेरोः श्रृङ्गणि त्रीणि वै ।
मध्यमं स्फटिकं श्रृङ्गं वैदूर्यमणिकामयम् ॥२२॥
इन्द्रनीलमयं पूर्वं माणिक्यं पश्चिमं स्मृतम् ।
योजनानां सहस्त्राणि नियुतानि चतुर्दश ॥२३॥
उच्छ्रितं मध्यमं श्रृङ्गं स्वर्गो यत्र त्रिविष्टपः ।
अप्रभान्तरितं श्रृङ्गं मूर्ध्नि छत्राकृति स्थितम् ॥२४॥
पूर्वमुत्तरश्रृङ्गणामन्तरं मध्यमस्य च ।
त्रिविष्टपे नाकपृष्ठे ह्यप्सराः सन्ति निर्वृताः ॥२५॥
आनन्दोऽथ प्रमोदश्च स्वर्गश्रृङ्गे तु मध्यमे ।
श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ ॥२६॥
आह्लादः स्वर्गराजा वै स्वर्गश्रृङ्गे तु पश्चिमे ।
निर्ममो निरहंकारः सौभाग्यश्चातिनिर्मलः ॥२७॥
स्वर्गाश्चैव द्विजश्रेष्ठ पूर्वश्रृङ्गे समास्थिताः ।
एकविंशतिः स्वर्गा वै निविष्टा मेरुमूर्धनि ॥२८॥
अहिंसादानकर्तारो यज्ञानां तपसां तथा ।
तत्तेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः ॥२९॥
जलप्रवेशे चानन्दं प्रमोदं वह्निसाहसे ।
भृगुप्रपाते सौख्यं च रणं चैवास्य निर्मलम् ॥३०॥
अनाशके तु संन्यासे मृतो गच्छेत्त्रिविष्टपम् ।
क्रतुयाजी नाकपृष्ठमग्निहोत्री च निर्वृतिम् ॥३१॥
तडागकूपकर्ता च लभते पौष्टिकं द्विज ।
सुवर्णदायी सौभाग्यं लभन् स्वर्गं तपः फलम् ॥३२॥
शीतकाले महावह्निं प्रज्वालयति यो नरः ।
सर्वसत्त्वहितार्थाय स्वर्गं सोऽप्सरसं लभेत् ॥३३॥
हिरण्यगोप्रदाने हि निरहंकारमाप्नुयात् ।
भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ॥३४॥
रौप्यदानेन स्वर्गं तु निर्मलं लभते नरः ।
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥३५॥
द्विजेभ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः ।
श्वेतं तु लभते स्वर्गं तत्र गत्वा न शोचते ॥३६॥
कपिलागोप्रदानेन परमार्थे महीयते ।
गोवृषस्य प्रदानेन स्वर्गं मन्मथमाप्नुयात् ॥३७॥
माघमासे सरित्स्त्रायी तिलधेनुप्रदस्तथा ।
छत्रोपानहदाता च स्वर्गं यात्युपशोभनम् ॥३८॥
देवतायतनं कृत्वा द्विजशुश्रूषकस्तथा ।
तीर्थयात्रापरश्चैव स्वर्गराजे महीयते ॥३९॥
एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः ।
उपवासी त्रिरात्राद्यैः शान्तः स्वर्गं शुभं लभेत् ॥४०॥
सरित्स्त्रायी जितक्रोधो ब्रह्मचारी दृढव्रतः ।
निर्मलं स्वर्गमाप्नोति यथा भूतहिते रतः ।
विद्यादानेन मेधावी निरहंकारमाप्नुयात् ॥४१॥
येन येन हि भावेन यद्यद्दानं प्रयच्छति ।
तत्तत्स्वर्गमवाप्नोति यद्यदिच्छति मानवः ॥४२॥
चत्वारि अतिदानानि कन्या गौर्भूः सरस्वती ।
नरकारदुद्धरन्त्येते जयवाहनदोहनात् ॥४३॥
यस्तु सर्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति ।
सम्प्राय न निवर्तेत स्वर्गं शान्तमनामयम् ॥४४॥
श्रृङ्गे तु पश्चिमे यत्र ब्रह्मा तत्र स्थितः स्वयम् ।
पूर्वश्रृङ्गे स्वयं विष्णुः मध्ये चैव शिवः स्थितः ॥४५॥
अतः परं तु विप्रेन्द्र स्वर्गाध्वानमिमं श्रृणु ।
विमलं विपुलं शुद्धमुपर्युपरि संस्थितम् ॥४६॥
प्रथमे तु कुमारस्तु द्वितीये मातरः स्थिताः ।
तृतीये सिद्धगन्धर्वास्तुर्ये विद्याक्षरा द्विज ॥४७॥
पञ्चमे नागराजश्च षष्ठे तु विनतासुतः ।
सप्तमे दिव्यपितरो धर्मराजस्तथाष्टमे ।
नवमे तु तथा दक्ष आदित्यो दशमे पथि ॥४८॥
भूर्लोकाच्छतसाहस्त्रादूर्ध्वं चरति भास्करः ।
योजनानां सहस्त्रे द्वे विष्टम्भनं समन्ततः ॥४९॥
त्रिगुणं परिणाहेन सूर्यबिम्बं प्रमाणतः ।
सोमपुर्यां विभावर्यां मध्याह्ने चार्मया यदा ।
महेन्द्रस्यामरावत्यां तदा तिष्ठति भास्करः ॥५०॥
मध्याह्ने त्वमरावत्यां यदा भवति भास्करः ।
तदा संयमने याम्ये तत्रोद्यंस्तु प्रदृश्यते ॥५१॥
मेरुं प्रदक्षिणं कुर्वन् भात्येव सविता सदा ।
धुवाधारस्तथोत्तिष्ठन् बालखिल्यादिभिः स्तुतः ॥५२॥
इति श्रीनरसिंहपुराणे भूगोलकथने त्रिंशोऽध्यायः ॥३०॥