ब्रह्मा आदिकी आयु और कालका स्वरुप
सूत उवाच
ब्रह्मा भूत्वा जगत्सृष्टौ नरसिंहः प्रवर्तते ।
यथा ते कथयिष्यामि भरद्वाज निबोध मे ॥१॥
नारायणाख्यो भगवान् ब्रह्मलोकपितामहः ।
उत्पन्नः प्रोच्यते विद्वन् नित्योऽसावुपचारतः ॥२॥
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ।
तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥३॥
कालस्वरुपं विष्णोश्च यन्मयोक्तं तवानघ ।
तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥४॥
अन्येषां चैव भूतानां चराणामचराश्च ये ।
भूभूभृत्सागरादीनामशेषाणां च सत्तम ॥५॥
संख्याज्ञानं च ते वच्मि मनुष्याणां निबोध मे ।
अष्टादश निमेषास्तु काष्ठैका परिकीर्तिता ॥६॥
काष्ठास्त्रिंशत्कला ज्ञेया कलास्त्रिंशन्मुहूर्तकम् ।
त्रिंशत्संख्यैरहोरात्रं मूहूर्तैर्मानुषं स्मृतम् ॥७॥
अहोरात्राणि तावन्ति मासपक्षद्वयात्मकः ।
तैः षडभिरयनं मासैर्द्वेऽयने दक्षिणोत्तरे ॥८॥
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ।
अयनद्वितयं वर्षं मर्त्यानामिह कीर्तितम् ॥९॥
नृणां मासः पितृणां तु अहोरात्रमुदाहतम् ।
वस्वादीनामहोरात्रं मानुषो वत्सरः स्मृतः ॥१०॥
दिव्यैर्वर्षसहस्त्रैस्तु युगं त्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥११॥
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
दिव्याब्दानां सहस्त्राणि युगेष्वाहुः पुराविदः ॥१२॥
तत्प्रमाणैः शतैः संध्या पूर्वा तत्र विधीयते ।
संध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि सः ॥१३॥
संध्यासंध्यांशयोर्मध्ये यः कालो वर्तते द्विज ।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥१४॥
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।
प्रोच्यते तत्सहस्त्रं तु ब्रह्मणो दिवसं द्विज ॥१५॥
ब्रह्मणो दिवसे ब्रह्मन् मनवस्तु चतुर्दश ।
भवन्ति परिमाणं च तेषां कालकृतं श्रृणु ॥१६॥
सप्तर्षयस्तु शक्रोऽथ मनुस्तत्सूनवोऽपि ये ।
एककालं हि सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥१७॥
चतुर्युगानां संख्या च साधिका ह्येकसप्ततिः ।
मन्वन्तरं मनोः कालः शक्रादीनामपि द्विज ॥१८॥
अष्टौ शतसहस्त्राणि दिव्यया संख्यया स्मृतः ।
द्विपञ्चाशत्तथान्यानि सहस्त्राण्यधिकानि तु ॥१९॥
त्रिंशत्कोट्यस्तु सम्पूर्णाः संख्याताः संख्यया द्विज ।
सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥२०॥
विशंतिश्च सहस्त्राणि कालोऽयमधिकं विना ।
मन्वन्तरस्य संख्येयं मानुवैर्वत्सरैर्द्विज ॥२१॥
चतुर्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम् ।
विश्वस्यादौ सुमनसा सृष्ट्वा देवांस्तथा पितृन् ॥२२॥
गन्धर्वान् राक्षसान् यक्षान् पिशाचान् गुह्यकांस्तथा ।
ऋषीन् विद्याधरांश्चैव मनुष्यांश्च पशूंस्तथा ॥२३॥
पक्षिणः स्थावरांश्चैव पिपीलिकभुजंगमान् ।
चातुर्वर्ण्यं तथा सृष्ट्वा नियुज्याध्वरकर्मणि ॥२४॥
पुनर्दिनान्ते त्रैलोक्यमुपसंहत्य स प्रभुः ।
शेते चानन्तशयने तावन्तीं रात्रिमव्ययः ॥२५॥
तस्यान्तेऽभूतन्महान्कल्पो ब्राह्य इत्यभिविश्रुतः ।
यस्मिन् मत्स्यावतारोऽभून्मथनं च महोदधेः ॥२६॥
तद्वद्वराहकल्पश्च तृतीयः परिकल्पितः ।
यत्र विष्णुः स्वयं प्रीत्या वाराहं वपुराश्रितः ।
उद्धर्तुं वसुधां देवीं स्तूयमानो महर्षिभिः ॥२७॥
सृष्ट्वा जगदव्योमचराप्रमेयः
प्रजाश्च सृष्ट्वा सकलास्तथेशः ।
नैमित्तिकाख्ये प्रलये समस्तं
संहत्य शेते हरिरादिदेवः ॥२८॥
इति श्रीनरसिंहपुराणे सर्गरचनायां द्वितीयोऽध्यायः ॥२॥