सूत उवाच
इति श्रुत्वा कथाः पुण्याः सर्वपापप्रणाशिनीः ।
नानाविधा मुनिश्रेष्ठाः कृष्णद्वैपायनात् पुनः ॥१॥
शुकः पूर्व महाभागो भरद्वाजो महामते ।
सिद्धैरन्यैश्च सहितो नारायणपरोऽभवत् ॥२॥
एवं ते कथित विप्र मार्कण्डेयादिकाः कथाः ।
मया विचित्राः पापघ्न्यः किं भूयः श्रोतुमिच्छसि ॥३॥
भरद्वाज उवाच
वस्वादीनां तथा प्रोक्ता मम सृष्टिस्त्वया पुरा ।
अश्विनोर्मरुतां चैव नोक्तोत्पत्तिसन्तु तां वद ॥४॥
सूत उवच
मरुतां विस्तरेणोक्ता वैष्णवाख्ये महामते ।
पुराणे शक्तिपुत्रेण पुरोत्पत्तिश्च वायुना ॥५॥
अश्विनोर्देवयोश्चैव सृष्टिरुक्ता सुविस्तरात् ।
संक्षेपात्तव वक्ष्यामि सृष्टिमेतां श्रृणुष्व मे ॥६॥
दक्षकन्यादितिः । अदितेरादित्यः पुत्रः । तस्मै त्वष्टा दुहितरं संज्ञां नाम कन्यां दत्तवान ॥७॥
सोऽपि त्वाष्ट्री रुपवतीं मनोज्ञां प्राप्य तया सेहे रेमे । सा कतिपयात् कालात् स्वभर्तुरादित्यस्य तापमहनी पितुर्गृहं जगाम ॥८॥
तामवलोक्यं सुतां पितोवाच किं पुत्रि तव भर्त्ता सविता स्नेहात् त्वां रक्षत्युत परुष इति ॥९॥
एवं पितुर्वचनं श्रुत्वा संज्ञा तं प्रत्युवाच । दग्धाहं भर्तुः प्रचण्डतापादिती ॥१०॥
एवं श्रृत्वा तामाह पिता गच्छ पुत्रि भर्तुर्हहाम्ति ॥११॥
युवतीस्त्रीणां भर्तुः शुश्रूषणमेव धर्मः श्रेयान् । अहमपि कतिपयदिवसादागत्या दिस्त्यस्योष्णतां जामातुरुद्धरिष्यामि ॥१२॥
इत्युक्ता सा च पुनर्भर्तुर्गुहं प्राप्य कतिपयदिवसान्मनुं यमीं यमं चापत्यत्रयमादित्यात् प्रासूत ।
पुनस्तदुष्णतामसहन्ती छायां भर्तुरुपभोगाय स्वप्रज्ञाबलेनोत्पाद्य तत्र संस्थाप्य गत्वोत्तरकुरुनधिष्ठायाश्वी भूत्वा विचचार ॥१३॥
आदित्योऽपि संज्ञेयमिति मत्वा तस्यां जायां पुनरपत्यत्रयमुत्पादयामास ॥१४॥
मनुं शनैश्चरं तपतीं च । स्वेष्वपत्येषु पक्षपातेन वर्तन्तीं छायां दृष्ट्वा यमः स्वपितरमाह नेयमस्मन्मातेति ॥१५॥
पितापि तच्छुत्वा भार्यां प्राह । सर्वेष्वपत्येषु सममेव वर्ततामिति ॥१६॥
पुनरपि स्वेषपत्येषु स्नेहात् प्रवर्तन्तीं छायां दृष्ट्वा यमो यमी च तां बहुविधमपीत्थमुवाच । आदित्यसंनिधानात् तूष्णीं बभूवतुः ॥१७॥
ततश्छाया तयोः शापं दत्तवती । यम त्वं प्रेतराजो भव यमि त्वं यमुना नाम नदी भवेति ॥१८॥
ततः क्रोधादादित्योऽपि छायापुत्रयोः शापं दत्तवान् हे पुत्र शनैश्चर त्वं ग्रहो भव क्रूरदृष्टिर्मन्दगामी च पापग्रहस्त्वं च ॥१९॥
पुत्रि तपती नाम नदी भवेति । अथादित्यो ध्यानमास्थाय संज्ञा क्व स्थितेति विचारयामास ॥२०॥
स दृष्ट्वानुत्तरकुरुषु ध्यानचक्षुषाश्वीभूय विचरन्तीम् ।
स्वयं चाश्वरुपेण तत्र गत्वा तया सह सम्पर्कं कृतवान् ॥२१॥
तस्यामेवादित्यादश्विनावुत्पन्नौ तयोरतिशयवपुषोः साक्षात् प्रजापतिरागत्य देवत्वं यज्ञभागत्वं मुख्यं च देवानां भिषजत्वं दत्त्वा जगाम । आदित्यश्चाश्वरुपं विहाय स्वभार्यां संज्ञां त्वाष्ट्रीं स्वरुपधारिणीं नीत्वा स्वरुपमास्थाय दिवं जगाम ॥२२॥
विश्वकर्मा चागत्य आदित्यं नामभिः स्तुत्वा तदतिशयोष्णतांशतामपशातयामास ॥२३॥
एवं वः कथिता विप्रा अश्विनोत्पत्तिरुत्तमा ।
पुण्या पवित्रा पापघ्नी भरद्वाज महामते ॥२४॥
आदित्यपुत्रौ भिषजौ सुराणां दिव्येन रुपेण विराजमानौ ।
श्रुत्वा तयोर्जन्म नरः पृथिव्यां भवेत् सुरुपो दिवि मोदते च ॥२५॥
इति श्रीनरसिंहपुराणे अश्विनोरुत्पत्तिर्नाम अष्टादशोऽध्यायः ॥१८॥