मार्कण्डेय उवाच
अतः परं प्रवक्ष्यामि प्रादुर्भावं हरेः शुभम् ।
जामदग्न्यं पुरा येन क्षत्रमुत्सादितं श्रृणु ॥१॥
पुरा देवगणैर्विष्णुः स्तुतः क्षीरोदधौ नृप ।
ऋषिभिश्च महाभागैर्जमदग्नेः सुतोऽभवत् ॥२॥
पर्शुराम इति ख्यातः सर्वलोकेषु स प्रभुः ।
दुष्टानां निग्रहं कर्तुमवतीर्णो महीतले ॥३॥
कृतवीर्यसुतः श्रीमान् कार्तवीर्योऽभवत् पुरा ।
दत्तात्रेयं समाराध्य चक्रवर्त्तित्वमाप्तवान् ॥४॥
स कदाचिन्महाभागो जमदग्न्याश्रमं ययौ ।
जमदग्निस्तु तं दृष्ट्वा चतुरङ्गबलान्वितम् ॥५॥
उवाच मधुरं वाक्यं कार्तवीर्यं नृपोत्तमम् ।
मुच्यतामत्र ते सेना अतिथिस्त्वं समागतः ।
वन्यादिकं मया दत्तं भुक्त्वा गच्छ महामते ॥६॥
प्रमुच्य सेनां मुनिवाक्यगौरवात् स्थितो नृपस्तत्र महानुभावः ।
आमन्त्र्य राजानमलङ्घकीर्त्तिर्मुनिः स धेनुं च दुदोह दोग्ध्रीम् ॥७॥
हस्त्यश्वशाला विविधा नराणां गृहाणि चित्राणि च तोरणानि ।
सामन्तयोग्यानि शुभानि राजन् समिच्छतां यानि सुकाननानि ॥८॥
गृहं वरिष्ठं बहुभूमिकं पुनः समन्वितं साधुगुणैरुपस्करैः ।
दुग्ध्वा प्रकल्पन् मुनिराह पार्थिवं गृहं कृतं ते प्रविशेह राजन् ॥९॥
इमे च मन्त्रिप्रवरा जनास्ते गृहेषु दिव्येषु विशन्तु शीघम् ।
हस्त्यश्वजात्यश्च विशन्तु शालां भृत्याश्च नीचेषु गृहेषु सन्तु ॥१०॥
इत्युक्तमात्रे मुनिना नृपोऽसौ गृहं वरिष्ठं प्रविवेश राजा ।
अन्येषु चान्येषु गृहेषु सत्सु मुनिः पुनः पार्थिवमाबभाषे ॥११॥
स्त्रानप्रदानार्थमिदं मया ते प्रकल्पितं स्त्रीशतमुत्तमं नृप ।
स्त्राहि त्वमद्यात्र यथाप्रकामं यथा सुरेन्द्रो दिवि नृत्यगीतैः ॥१२॥
स स्त्रातवांस्तत्र सुरेन्द्रवन्नृपो गीतादिशब्दैर्मधुरैश्च वाद्यैः ।
स्त्रातस्य तस्याशु शुभे च वस्त्रे ददौ मुनिर्भूप विभूषिते द्वे ॥१३॥
परिधाय वस्त्रं च कृतोत्तरीयः कृताक्रियो विष्णुपूजां चकार ।
मुनिश्च दुग्ध्वान्नमयं महागिरिं नृपाय भृत्याय च दत्तवानसौ ॥१४॥
यावत्स राजा बुभुजे सभृत्यस्तावच्च सूर्यो गतवान् नृपास्तम् ।
रात्रौ च गीतादिविनोदयुक्तः शेते स राजा मुनिनिर्मिते गृहे ॥१५॥
ततः प्रभाते विमले स्वप्नलब्धमिवाभवत् ।
भूमिभागं ततः कंचिद दृष्ट्वासौ चिन्तयन्नृपः ॥१६॥
किमियं तपसः शक्तिर्मुनेरस्य महात्मनः ।
सुरभ्या वा महाभाग ब्रूहि मे त्वं पुरोहित ॥१७॥
इत्युक्तः कार्तवीर्येण तमुवाच पुरोहितः ।
मुनेः सामर्थ्यमप्यस्ति सिद्धिश्चेयं हि गोर्नृप ॥१८॥
तथापि सा न हर्तव्या लोभान्नराधिप ।
यस्त्वेतां हर्तुमिच्छेद वै तस्य नाशो ध्रुवं भवेत् ॥१९॥
अथ मन्त्रिवरः प्राह ब्राह्मणो ब्राह्मणप्रियः ।
राजकार्य न पश्येद वै स्वपक्षस्यैव पोषणात् ॥२०॥
हे राजस्त्वयि तिष्ठन्ति गृहाणि विविधानि च ।
तथा सुवर्णपात्राणि शयनादीनि च स्त्रियः ॥२१॥
तां धेनुं प्राप्य राजेन्द्र लीयमानानि तत्क्षणात् ।
अस्मभिस्तत्र दृष्टानि नीयतां धेनुरुत्तमा ॥२२॥
तवेयं योग्या राजेन्द्र यदीच्छसि महामते ।
गत्वाहमानयिष्यामि आज्ञां मे देहि भूभुज ॥२३॥
इत्युक्तो मन्त्रिणा राजा तथेत्याह नृपोत्तम ।
सचिवस्तत्र गत्वाथ सुरभि हर्तुमारभत ॥२४॥
वारयामास सचिवं जमदग्निः समन्ततः ।
राजयोग्यामिमां ब्रह्मन् देहि राज्ञे महामते ॥२५॥
त्वं तु शाकफलाहारी किं धेन्वा ते प्रयोजनम् ।
इत्युक्त्वा तां बलाद्धत्वा नेतुं मन्त्री प्रचक्रमे ॥२६॥
पुनः सभार्यः स मुनिर्वारयामास तं नृपम् ।
ततो मन्त्री सुदुष्टात्मा मुनिं हत्वा तु तं नृप ॥२७॥
ब्रह्माहा नेतुमारेभे वायुमार्गेण सा गता ।
राजा च क्षुब्धहदयो ययौ माहिष्मतीं पुरीम् ॥२८॥
मुनिपत्नी सुदुःखार्ता रोदयन्ती भृशं तदा ।
त्रिस्सप्तकृत्वः स्वां कुक्षि ताडयामास पार्थिव ॥२९॥
तच्छृण्वन्नागतो रामो गृहीतपरशुस्तदा ।
पुष्पादीनि गृहीत्वा तु वनान्मातरमब्रवीत् ॥३०॥
अलमम्ब प्रहारेण निमित्ताद विदितं मया ।
हनिष्यामि दुराचारमर्जुनं दुष्टमन्त्रिणम् ॥३१॥
त्वयैकविंशवारेण यस्मात्कुक्षिश्च ताडिता ।
त्रिस्सप्तकृत्वस्तस्मात्तु हनिष्ये भुवि पार्थिवान् ॥३२॥
इति कृत्वा प्रतिज्ञां स गृहीत्वा परशुं ययौ ।
माहिष्मर्ती पुरीं प्राप्य कार्तवीर्यमथाहयत् ॥३३॥
युद्धार्थमागतः सोऽथ अनेकाक्षौहिणीयुतः ।
तयोर्युद्धमभूत्तत्र भैरवं लोमहर्षणम् ॥३४॥
पिशिताशिजानानन्दं शस्त्रास्त्रशतसंकुलम् ।
ततः परशुरामोऽभून्महाबलपराक्रमः ॥३५॥
परं ज्योतिरचिन्त्यात्मा विष्णुः कारणमूर्तिमान् ।
कार्तवीर्यबलं सर्वमनेकैः क्षत्रियैः सह ॥३६॥
हत्वा निपात्य भूमौ तु परमाद्भुतविक्रमः ।
कार्तवीर्यस्य बाहूनां वनं चिच्छेद रोषवान् ।
छिन्ने बाहुवने तस्य शिरश्चिच्छेद भार्गवः ॥३७॥
विष्णुहस्ताद्वधं प्राप्य चक्रवर्ती स पार्थिवः ।
दिव्यरुपधरः श्रीमान् दिव्यगन्धानुलेपनः ॥३८॥
दिव्यं विमानमारुह्य विष्णुलोकमवाप्तवान् ।
क्रोधात्परशुरामोऽपि महाबलपराक्रमः ॥३९॥
त्रिस्सप्तकृत्वो भूम्यां वै पार्थिवान्निजघान सः ।
क्षत्रियाणां वधात्तेन भुमेर्भारोऽवतारितः ॥४०॥
भूमिश्च सकला दत्ता कश्यपाय महात्मने ।
इत्येष जामदग्न्याख्यः प्रादुर्भावो मयोदितः ॥४१॥
यश्च तच्छृणुयाद्भक्त्या सर्वपापैः प्रमुच्यते ॥४२॥
अवतीर्य भूमौ हरिरेष साक्षात् त्रिस्सप्तकृत्वः क्षितिपान्निहत्य सः ।
क्षात्रं च तेजो प्रविभज्य राजन् रामः स्थितोऽद्यापि गिरौ महेन्द्रे ॥४३॥
इति श्रीनरसिंहपुराणे परशुरामप्रादुर्भावो नाम षटचत्वारिंशोऽध्यायः ॥४६॥