मार्कण्डेय उवाच
श्रृणु राजन् समासेन वामनस्य पराक्रमम् ।
बलियागे हता येन पुरा दैत्याः सहस्त्रशः ॥१॥
विरोचनसुतः पूर्वं महाबलपराक्रमः ।
त्रैलोक्यं बुभुजे जित्वा देवानिद्रपुरोगमान् ॥२॥
ततः कृशतरा देवा बभूवुस्तेन खण्डिताः ।
इन्द्रं कृशतरं दृष्ट्वा नष्टराज्यं नृपोत्तम ॥३॥
अदितिर्देवमाता या सातप्यत्परमं तपः ।
तुष्टाव वाग्भिरिष्टाभिः प्रणिपत्य जनार्दनम् ॥४॥
ततः स्तुत्याभिसंतुष्टो देवदेवो जनार्दनः ।
स्थित्वा तत्पुरतो वाचमुवाच मधुसूदनः ॥५॥
तव पुत्रो भविष्यामि सुभगे बलिबन्धनः ।
इत्युक्त्वा तां गतो विष्णुः स्वगृहं सा समाययौ ॥६॥
ततः कालेन सा गर्भमवाप नृप कश्यपात् ।
अजायत स विश्वेशो भगवान् वामनाकृतिः ॥७॥
तस्मिञ्जाते समागत्य ब्रह्मा लोकपितामहः ।
जातकर्मादिकाः सर्वाः क्रियास्तत्र चकार वै ॥८॥
कृतोपनयनो देवो ब्रह्मचारी सनातनः ।
अदितिं चाप्यनुज्ञाप्य यज्ञशालां बलेर्ययौ ॥९॥
गच्छतः पादविक्षेपाच्चचाल सकला मही ।
यज्ञभागान्न गृह्णन्ति दानवाश्च बलेर्मखात् ॥१०॥
प्रशान्ताश्चाग्नयस्तत्र ऋत्विजो मन्त्रश्च्युताः ।
विपरीतमिदं दृष्ट्वा शुक्रमाह महाबलः ॥११॥
न गृह्णति मुने कस्माद्धविर्भागं महासुरः ।
कस्माच्च वह्यः शान्ताः कस्माद्भूश्चलति द्विज ॥१२॥
कस्माच्च मन्त्रतो भ्रष्टा ऋत्विजः सकला अमी ।
इत्युक्तो बलिना शुक्रो दानवेन्द्रं वचोऽब्रवीत् ॥१३॥
शुक्र उवाच
हे बले श्रृणु मे वाक्यं त्वया देवा निराकृताः ।
तेषां राज्यप्रदानाय अदित्यामच्युतोऽसुर ॥१४॥
देवदेवो जगद्योनिः संजातो वामनाकृतिः ।
स त्वागच्छति ते यज्ञं तत्पादन्यासकम्पिता ॥१५॥
चलतीयं मही सर्वा तेनाद्यासुरभूपते ।
तत्संनिधानादसुरा न गृह्णन्ति हविर्मखे ॥१६॥
तवाग्नयोऽपि वै शान्ता वामनागमनाद्धि भोः ।
ऋत्विजश्च न भासन्ते होममन्त्रो बलेऽधुना ॥१७॥
असुराणां श्रियो हन्ति सुराणां भूतिरुत्तमा ।
इत्युक्तः स बलिः प्राह शुक्रं नीतिमतां वरम् ॥१८॥
श्रृणु ब्रह्मन् वचो मे त्वमागते वामने मखे ।
यन्मया चाद्य कर्तव्यं वामनस्यास्य धीमतः ॥१९॥
तन्मे वद महाभाग त्वं हि नः परमो गुरुः ।
मार्कण्डेय उवाच
इति संचोदितः शुक्रः स राज्ञा बलिना नृप ॥२०॥
तमुवाच बलिं वाक्यं ममापि श्रृणु साम्प्रतम् ।
देवानामुपकाराय भवतां संक्षयाय च ॥२१॥
स नूनमायाति बले तव यज्ञे न संशयः ।
आगते वामने देवे त्वया तस्य महात्मनः ॥२२॥
प्रतिज्ञा नैव कर्तव्या ददाम्येतत्तवेति वै ।
इति श्रुत्वा वचस्तस्य बलिर्बलवतां वरः ॥२३॥
उवाच तां शुभां वाणीं शुक्रमात्मपुरोहितम् ।
आगते वामने शुक्र यज्ञे मे मधुसूदने ॥२४॥
न शक्यते प्रतिख्यातुं दानं प्रति मया गुरो ।
अन्येषामपि जन्तूनामित्युक्तं ते मयाधुना ॥२५॥
किं पुनर्वासुदेवस्य आगतस्य तु शार्ङ्गिणः ।
त्वया विघ्नो न कर्तव्यो वामनेऽत्रागते द्विज ॥२६॥
यद्यद्रव्यं प्रार्थयते तत्त दद्रव्यं ददाम्यहम् ।
कृतार्थोऽहं मुनिश्रेष्ठ यद्यागच्छति वामनः ॥२७॥
इत्येवं वदतस्तस्य यज्ञशालां स वामनः ।
आगत्य प्रविवेशाथ प्रशशंस बलेर्मखम् ॥२८॥
तं दृष्टा सहसा राजन् राजा दैत्याधिपो बलिः ।
उपचारेण सम्पूज्य वाक्यमेतदुवाच ह ॥२९॥
यद्यत्प्रार्थयसे मां त्वं देवदेव धनादिकम् ।
तत्सर्वं तव दास्यामि मां याचस्वाद्य वामन ॥३०॥
इत्युक्तो वामनस्तत्र नृपेन्द्र बलिना तदा ।
याचयामास देवेशो भूमेर्देहि पदत्रयम् ॥३१॥
ममाग्निशरणार्थाय न मेऽर्थेऽस्ति प्रयोजनम् ।
इत्युक्तो वामनेनाथ बलिः प्राह च वामनम् ॥३२॥
पदत्रयेण चेत्तृप्तिर्मया दत्तं पदत्रयम् ।
एवमुक्ते तु बलिना वामनो बलिमब्रवीत् ॥३३॥
दीयतां मे करे तोयं यदि दत्तं पदत्रयम् ।
इत्युक्तो देवदेवेन तदा तत्र स्वयं बलिः ॥३४॥
सजलं हेमकलशं गृहीत्वोत्थाय भक्तितः ।
यावत्स वामनकरे तोयं दातुमुपस्थितः ॥३५॥
तावच्छुकः कलशगो जलधारां रुरोध ह ।
ततश्च वामनः क्रुद्धः पवित्राग्रेण सत्तम ॥३६॥
उदके कलशद्वारि तच्छुक्राक्षिमवेधयत् ।
ततो व्यपगतः शुक्रो विद्धैकाक्षो नरोत्तम ॥३७॥
तोयधारा निपतिता वामनस्य करे पुनः ।
करे निपतिते तोये वामनो ववृधे क्षणात् ॥३८॥
पादेनैकेन विक्रान्ता तेनैव सकला मही ।
अन्तरिक्षं द्वितीयेन द्यौस्तृतीयेन सत्तम ॥३९॥
अनेकान् दानवान् हत्वा हत्वा त्रिभुवनं बलेः ।
पुरंदराय त्रैलोक्यं दत्त्वा बलिमुवाच ह ॥४०॥
यस्मात्ते भक्तितो दत्तं तोयमद्य करे मम ॥
तस्मात्ते साम्प्रतं दत्तं पातालतलमुत्तमम् ॥४१॥
तत्र गत्वा महाभाग भुङ्क्ष्व त्वं मत्प्रसादतः ।
वैवस्वतेऽन्तरेऽतीते पुनरिन्द्रो भविष्यसि ॥४२॥
प्रणम्य च ततो गत्वा तलं भोगमवाप्तवान् ॥४३॥
शुक्रोऽपि स्वर्गमारुह्य प्रसादाद्वामनस्य वै ।
समागतस्त्रिभुवनं राजन् देवसमन्वितः ॥४४॥
यः स्मरेत्प्रातरुत्थाय वामनस्य कथामिमाम् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥४५॥
इत्थं पुरा वामनरुपमास्थितो हरिर्बलेर्हत्य जगत्त्रयं नृप ।
कृत्वा प्रसादं च दिवौकसाम्पतेर्दत्वा त्रिलोकं स ययौ महोदधिम् ॥४६॥
इति श्रीनरसिंहपुराणे वामनप्रादुर्भावे पञ्चचत्वारिशोऽध्यायः ॥४५॥