सहस्त्रानीक उवाच
सत्यमुक्तं त्वया ब्रह्मन् वैदिकः परमो विधिः ।
विष्णोर्देवातिदेवस्य पूजनं प्रति मेऽधुना ॥१॥
अनेन विधिना ब्रह्मन् पूज्यते मधुसूदनः
वेदज्ञैरेव नान्यैस्तु तस्मात्सर्वहितं वद ॥२॥
श्रीमार्कण्डेय उवाच
अष्टाक्षरेण देवेशं नरसिंहमनामयम् ।
गन्धपुष्पादिभिर्नित्यमर्चयेदच्युतं नरः ॥३॥
राजन्नष्टाक्षरो मन्त्रः सर्वपापहरः परः ।
समस्तयज्ञफलदः सर्वशान्तिकरः शुभः ॥४॥
ॐ नमो नारायणाय ।
गन्धपुष्पादिसकलमनेनैव निवेदयेत् ।
अनेनाभ्यर्चितो देवः प्रीतो भवति तत्क्षणात् ॥५॥
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः ।
ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥६॥
इमं मन्त्रं जपेद्यस्तु शुचिर्भूत्वा समाहितः ।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥७॥
सर्वतीर्थफलं ह्येतत् सर्वतीर्थवरं नृप ।
हरेरर्चनमव्यग्रं सर्वयज्ञफलं नृप ॥८॥
तस्मात्कुरु नृपश्रेष्ठ प्रतिमादिषु चार्चनम् ।
दानानि विप्रमुखेभ्यः प्रयच्छ विधिना नृप ।
एवं कृते नृपश्रेष्ठ नरसिंहप्रसादतः ।
प्राप्नोति वैष्णवं तेजो यत्काङ्क्षन्ति मुमुक्षवः ॥९॥
पुरा पुरंदरो राजन् स्त्रीत्वं प्राप्तोऽपधर्मतः ।
तृणबिन्दुमुनेः शापान्मुक्तो ह्यष्टाक्षराज्जपात् ॥१०॥
सहस्त्रानीक उवाच
एतत्कथय भूदेव देवेन्द्रस्याघमोचनम् ।
कोऽपधर्मः कथं स्त्रीत्वं प्राप्तो मे वद कारणम् ॥११॥
श्रीमार्कण्डेय उवाच
राजेन्द्र महदाख्यानं श्रृणु कौतूहलान्वितम् ।
विष्णुभक्तिप्रजननं श्रृण्वतां पठतामिदम् ॥१२॥
पुरा पुरंदरस्यैव देवराज्यं प्रकुर्वतः ।
वैराग्यस्यापि जननं सम्भूतं बाह्यवस्तुषु ॥१३॥
इन्द्रस्तदाभूद्विषमस्वभावो राज्येषु भोगेष्वपि सोऽप्यचिन्तयत् ।
ध्रुवं विरागीकृतमानसानां स्वर्गस्य राज्यं न च किंचिदेव ॥१४॥
राज्यस्य सारं विषयेषु भोगो भोगस्य चान्ते न च किंचिदस्ति ।
विमृश्य चैतन्मुनयोऽप्यजस्त्र मोक्षाधिकारं परिचिन्तयन्ति ॥१५॥
सदैव भोगाय तपः प्रवृत्तिर्भोगावसाने हि तपो विनष्टम् ।
मैत्र्यादिसंयोगपराङ्मुखानां विमुक्तिभाजां न तपो न भोगः ॥१६॥
विमृश्य चैतत् स सुराधिनाथो विमानमारुह्य सकिङ्किणीकम् ।
नूनं हराराधनकारणेन कैलासमभ्येति विमुक्तिकामः ॥१७॥
स एकदा मानसमागतः सन् संवीक्ष्य तां यक्षपतेश्च कान्ताम् ।
समर्चर्यन्तीं गिरिजांघ्रियुग्मं ध्वजामिवानङ्गमहारथस्य ॥१८॥
प्रधानजाम्बूनदशुद्धवर्णां कर्णान्तसंलग्नमनोज्ञनेत्राम् ।
सुसूक्ष्मवस्त्रान्तरदृश्यगात्रां नीहारमध्यादिव चन्द्रलेखाम् ॥१९॥
तां वीक्ष्य वीक्षणसहस्त्रभरेण कामं कामाङ्गमोहितमतिर्न ययौ तदानीम् ।
दूराध्वगं स्वगृहमेत्य सुसंचितार्थस्तस्थौ तदा सुरपतिर्विषयाभिलाषी ॥२०॥
पूर्वं वरं स्यात् सुकुलेऽपि जन्म ततो हि सर्वाङ्गशरीररुपम् ।
ततो धनं दुर्लभमेव पश्चाद्धनाधिपत्यं सुकृतेन लभ्यम् ॥२१॥
स्वर्गाधिपत्यं च मया प्रलब्धं तथापि भोगाय न चास्ति भाग्यम् ।
यः स्वं परित्यज्य विमुक्तिकामस्तिष्ठामि मे दुर्मतिरस्ति चित्ते ॥२॥
मोक्षोऽमुना यद्यपि मोहनीयो मोक्षेऽपि किं कारणमस्ति राज्ये ।
क्षेत्रं सुपक्वं परिहत्य द्वारे किं नाम चारण्यकृषिं करोति ॥२३॥
संसारदुःखोपहता नरा ये कर्तुं समर्था न च किंचिदेव ।
अकर्मिणो भाग्यविवर्जिताश्च वाञ्छन्ति ते मोक्षपथं विमूढाः ॥२४॥
एतद्विमृश्य बहुधा मतिमान् प्रवीरो रुपेण मोहितमना धनदाङ्गनायाः ।
सर्वाधिराकुलमतिः परिमुक्तधैर्यः सस्मार मारममराधिपचक्रवर्ती ॥२५॥
समागतोऽसौ परिमन्दमन्दं कामोऽतिकामाकुलचित्तवृत्तिः ।
पुरा महेशेन कृताङ्गनाशो धैर्याल्लयं गच्छति को विशङ्कः ॥२६॥
आदिश्यतां नाथ यदस्ति कार्यं को नाम ते सम्प्रति शत्रुभूतः ।
शीघ्रं समादेशय मा विलम्बं तस्यापदं सम्प्रति भो दिशामि ॥२७॥
श्रुत्वा तदा तस्य वचोऽभिरामं मनोगतं तत्परमं तुतोष ।
निष्पन्नमर्थं सहसैव मत्वा जगाद वाक्यं स विहस्य वीरः ॥२८॥
रुद्रोऽपि येनार्धशरीरमात्रश्चकेऽप्यनङ्गत्वमुपागतेन ।
सोढुं समर्तोऽथ परोऽपि लोके को नाम ते मार शाराभिघातम् ॥२९॥
एकाग्रचित्ता गिरिजार्चनेऽपि या मोहयत्येव ममात्र चित्तम् ।
एतानमङ्गायतलोचनाख्यां मदङ्गसङ्गकरसां विधेहि ॥३०॥
स एवमुक्तः सुरवल्लभेन स्वकार्यभावाधिकगौरवेण ।
संधाय बाणं कुसुमायुधोऽपि सस्मार मारः परिमोहनं सुधीः ॥३१॥
सम्मोहिता पुष्पशरेण बाला कामेन कामं मदविह्वलाङ्गी ।
विहाय पूजां हसते सुरेशं कः कामकोदण्डरवं सहेत ॥३२॥
विलोलनेत्रे अयि कासि बाले सुराधिपो वाक्यमिदं जगाद ।
सम्मोहयन्तीव मनांसि पुंसां कस्येह कान्ता वद पुण्यभाजः ॥३३॥
उक्तापि बाला मदविह्वलाङ्गी रोमाञ्चसंस्वेदसकम्पगात्रा ।
कृताकुला कामशिलीमुखेन सगद्गदं वाक्यमुवाच मन्दम् ॥३४॥
कन्ता धनेशस्य च यक्षकन्या प्राप्ता च गौरीचरणार्चनाय ।
प्रब्रूहि कार्यं च तवास्ति नाथ कस्त्वं वदेस्तिष्ठसि कामरुपः ॥३५॥
इन्द्र उवाच
सा त्वं समागच्छ भजस्व मां चिरान्मदङ्गसङ्गोत्सुकतां व्रजाशु ।
त्वया विना जीवितमप्यनल्पं स्वर्गस्य राज्यं मम निष्फलं स्यात् ॥३६॥
उक्ता च सैवं मधुरं च तेन कंदर्पसंतापितचारुदेहा ।
विमानमारुह्य चलत्पताकिं सुरेशकण्ठग्रहणं चकार ॥३७॥
जगाम शीघ्रं स हि नाकनाथः साकं तया मन्दरकन्दरासु ।
अदृष्टदेवासुरसंचरासु विचित्ररत्नाङ्कुरभासुरासु ॥३८॥
रेमे तया साकमुदारवीर्यश्चित्रं सुरैश्चर्यगतादरोऽपि ।
स्वयं च यस्या लघुपुष्पशय्यां चकार चातुर्यनिधिः सकामः ॥३९॥
जातः कृतार्थोऽमरवृन्दनाथः सकामभोगेषु सदा विदग्धः ।
मोक्षाधिकं स्नेहरसातिमृष्टं पराङ्गनालिङ्गनसङ्गसौख्यम् ॥४०॥
अथागता यक्षपतेः समीपं नार्योऽनुवर्ज्यैव च चित्रसेनाम् ।
ससम्भ्रमाः सम्भ्रमखिन्नगात्राः सगद्गदं प्रोचुरसाहसज्ञाः ॥४१॥
नूनं समाकर्णय यक्षनाथ विमानमारोप्य जगाम कश्चित् ।
संवीक्षमाणः ककुभोऽपि कान्तां विगृह्य वेगादिह सोऽपि तस्करः ॥४२॥
वचो निशम्याथ धनाधिनाथो विषोपमं जातमषीनिभाननः ।
जगाद भूयो न च किंचिदेव बभूव वै वृक्ष इवाग्निदग्धः ॥४३॥
विज्ञापितार्थो वरकन्यकाभिर्यश्चित्रसेनासहचारिणीभिः ।
मोहापनोदाय मतिं दधानः स कण्ठकुब्जोऽपि समाजगाम ॥४४॥
श्रुत्वाऽऽगतं वीक्ष्य स राजराज उन्मीलिताक्षो वचनं जगाद ।
विनिः श्वसन् गाढसकम्पगात्रः स्वस्थं मनोऽप्याशु विधाय दीनः ॥४५॥
तद्यौवनं यद्युवतीविनोदो धनं तु चैतत्स्वजनोपयोगि ।
तज्जीवितं यत्क्रियते सुधर्मस्तदाधिपत्यं यदि नष्टविग्रहम् ॥४६॥
धिङ्मे धनं जीवितमत्यनल्पं राज्यं बृहत्सम्प्र ति गुह्यकानाम् ।
विशामि चाग्रिं न च वेद कश्चित् पराभवोऽस्तीति च को मृतानाम् ॥४७॥
पार्श्वे स्थितस्यापि च जीवतो मे गता तडागं गिरिजार्चनाय ।
हता च केनापि वयं न विद्मो ध्रुवं न तस्यास्ति भयं च मृत्योः ॥४८॥
जगाद वाक्यं स च कण्ठकुब्जो मोहापनोदाय विभोः स मन्त्री ।
आकर्ण्यतां नाथ न चास्ति योग्यः कान्तावियोगे निजदेहघातः ॥४९॥
एका पुरा रामवधूर्हता च निशाचरेणापि मृतो न सोऽपि ।
अनेकशः सन्ति तवात्र नार्यः को नाम चित्ते क्रियते विषादः ॥५०॥
विमुच्य शोकं कुरु विक्रमे मतिं धैर्यं समालम्बय यक्षराज ।
भृशं न जल्पन्ति रुदन्ति साधवः पराभवं बाह्यकृतं सहन्ते ॥५१॥
कृतं हि कार्यं गुरु दर्शयन्ति सहायवान् वित्तप कातरोऽसि किम् ।
सहायकार्यं कुरुते हि सम्प्रति स्वयं हि यस्यावरजो विभीषणः ॥५२॥
धनद उवाच
विभीषणो मे प्रतिपक्षभूतो दायादभावं न विमुञ्चतीति ।
ध्रुवं प्रसन्ना न भवन्ति दुर्जनाः कृतोपकारा हरिवज्रनिष्ठुराः ॥५३॥
न चोपकारैर्न गुणैर्न सौहदैः प्रसादमायाति मनो हि गोत्रिणः ।
उवाच वाक्यं स च कण्ठकुब्जो युक्तं त्वयोक्तं च धनाधिनाथ ॥५४॥
परस्परं घ्नन्ति च ते विरुद्धास्तथापि लोके न पराभवोऽस्ति ।
पराभवं नान्यकृतं सहन्ते नोष्णं जलं ज्वालयते तृणानि ॥५५॥
तस्मात्समागच्छ धनाधिनाथ पार्श्वं च वेगे\न विभीषणस्य ।
स्वबाहुवीर्यजितवित्तभोगिनां स्वबन्धुवर्गेषु हि को विरोधः ॥५६॥
इत्युक्तः स तदा तेन कण्ठकुब्जेन मन्त्रिणा ।
विभीषणस्य सामीप्य जगामाशु विचारयन् ॥५७॥
ततो लङ्काधिपः श्रुत्वा बान्धवं पूर्वजं तदा ।
प्राप्तं प्रत्याजगामाशु विनयेन समन्वितः ॥५८॥
ततो विभीषणो दृष्ट्वा तदा दीनं च बान्धवम् ।
संतप्तमानसो भूप जगादेदं वचो महत् ॥५९॥
विभीषण उवाच
कथं दीनोऽसि यक्षेश किं कष्टं तव चेतसि ।
निवेदयाधुनास्माकं निश्चयान्मार्जयामि तत् ॥६०॥
तदैकान्तं समासाद्य कथयामास वेदनाम् ।
धनद उवाच
गृहीता किं स्वयं याता निहता केनचिदद्विषा ॥६१॥
भ्रातः कान्तां न पश्यामि चित्रसेनां मनोरमाम् ।
एतद्वन्धो महत्कष्टं मम नारीसमुद्भवम् ॥६२॥
प्राणान् वै घातयिष्यामि अनासाद्य च वल्लभाम् ।
विभीषण उवाच
आनयिष्यामि ते कान्तां यत्र तत्र स्थितां विभो ॥६३॥
कः समर्थोऽधुनास्माकं हर्तुं नाथ तृणस्य च ।
ततो विभीषणस्तत्र नाडीजङ्घां निशाचरीम् ॥६४॥
भृशं संजल्पयामास नानामायागरीयसीम् ।
धनदस्य च या कान्ता चित्रसेनाभिधानतः ॥६५॥
सा च केन हता लोके मानसे सरसि स्थिता ।
तां च जानीहि संवीक्ष्य देवराजादिवेश्मसु ॥६६॥
ततो निशाचरी भूप कृत्वा मायामयं वपुः ।
जगाम त्रिदिवं शीघ्रं देवराजादिवेश्मसु ॥६७॥
यया दृष्ट्या क्षणं दृष्टो मोहं यास्यति चोपलः ।
यस्याः समं ध्रुवं रुपं विद्यते न चराचरे ॥६८॥
एतस्मिन्नेव काले च देवराजोऽपि भूपते ।
सम्प्राप्तो मन्दराच्छीघ्रं प्रेरिताश्चित्रसेनया ॥६९॥
ग्रहीतुं दिव्यपुष्पाणि नन्द नप्रभवाणी च ।
तत्र पश्यन् स तां तन्वीं निजस्थाने समागताम् ॥७०॥
अतीवरुपस्मन्नां गीतगानपरायणाम् ।
तां वीक्ष्य देवराजोऽपि स कामवशगोऽभवत् ॥७१॥
ततः सम्प्रेरयामास देववैद्यौ सुराधिपः ।
तस्याः पार्श्वे समानेतुं ध्रुवं चान्तः पुरे तदा ॥७२॥
देववैद्यौ तदाऽऽगत्य जल्पतश्चाग्रतः स्थितौ ।
आगच्छ भव तन्वङ्गि देवराजसमीपगा ॥७३॥
इत्युक्त्वा सा तदा ताभ्यां जगाद मधुराक्षरम् ।
नाडीजङ्घोवाच
देवराजः स्वयं यन्मे पार्श्वं चात्रागमिष्यति ॥७४॥
तस्य वाच्यं च कर्तव्यं नान्यथा सर्वथा मया ।
तौ तदा वासवं गत्वा ऊचतुर्वचनं शुभम् ॥७५॥
वासव उवाच
समादेशय तन्वङ्गि किं कर्तव्यं मयाधुना ।
सर्वदा दासभूतस्ते याचसे तद्ददाम्यहम् ॥७६॥
तन्वङ्ग्युवाच
याचितं यदि मे नाथ दास्यसीति न संशयः ।
ततोऽहं वशगा देव भविष्यामि न संशयः ॥७७॥
अद्य त्वं दर्शयास्माकं सर्वः कान्तापरिग्रहः ।
मम रुपसमा रामा कान्ता ते चास्ति वा न वा ॥७८॥
तया चोक्ते च वचने स भूयो वासवोऽवदत् ।
दर्शयिष्यामि सर्वं ते देवि कान्तापरिग्रहम् ॥७९॥
स सर्वं दर्शयामास वासवोऽन्तः पुरं तदा ।
ततो जगाद भूयः सा किंचिदगूढं मम स्थितम् ॥८०॥
विमुच्यैकां च युवतीं सर्वं ते दर्शितं मया ।
इन्द्र उवाच
सा रामा मन्दरे चास्ति अविज्ञाता सुरासुरैः ॥८१॥
तां च ते दर्शयिष्यामि नाख्येयं कस्यचित्त्वया ।
ततः स देवराजोऽपि तया सार्धं च भूपते ॥८२॥
गच्छन्नेवाम्बरे भूप मन्दरं प्रति भूधरम् ।
तस्य वै गच्छमानस्य विमानेनार्कवर्चसा ॥८३॥
दर्शनं नारदस्यापि तस्य जातं तदाम्बरे ।
तं वीक्ष्य नारदं वीरो लज्जमानोऽपि वासवः ॥८४॥
नमस्कृत्य जगादोच्चैः क्व यास्यसि महामुने ।
ततः कृताशीः स मुनिरबदत्त्त्रिदिवेश्वरम् ॥८५॥
गच्छामि मानसे स्त्रातुं देवराज सुखी भव ।
नाडीजङ्घेऽस्ति कुशलं राक्षसानां महात्मनाम् ॥८६॥
विभीषणोऽपि ते भ्राता सुखी तिष्ठति सर्वदा ।
एवमुक्ता च मुनिना सा कृष्णवदनाभवत् ॥८७॥
विस्मितो देवराजोऽपि छलितो दुष्टयानया ।
नारदोऽपि गतः स्त्रातुं कैलासे मानसं सरः ॥८८॥
इन्द्रस्तां हन्तुकामोऽपि आगच्छन्मन्दराचलम् ।
यत्राश्रमोऽस्ति वै नूनं तृणबिन्दोर्महात्मनः ॥८९॥
क्षणं विश्रम्य तत्रैव धृत्वा केशेषु राक्षसीम् ।
हन्तुमिच्छति देवेशो नाडीजङ्घां निशाचरीम् ॥९०॥
तावत्तत्र समायातस्तृणबिन्दुर्निजाश्रमात् ।
धृता क्रन्दति सा राजन्निन्द्रेणापि निशाचरी ॥९१॥
मा मां रक्षति पुण्यात्मा हन्यमानां च साम्प्रतम् ।
तदाऽऽगत्य मुनिश्रेष्ठस्तृणबिन्दुर्महातपाः ॥९२॥
जगाद पुरतः स्थित्वा मुञ्चेमां महिलां वने ।
जल्पत्येवं मुनौ तस्मिन् महेन्द्रेण निशाचरी ॥९३॥
वज्रेण निहता भूयः कोपयुक्तेन चेतसा ।
स चुकोप मुनिश्रेष्ठः प्रेक्षमाणो मुहुर्मुहुः ॥९४॥
यदेषा युवती दुष्ट निहता मे तपोवने ।
ततस्त्वं मम शापेन निश्चयात् स्त्री भविष्यसि ॥९५॥
इन्द्र उवाच
एषा नाथ महादुष्टा राक्षसी निहता मया ।
अहं स्वामी सुराणां च शापं मा देहि मेऽधुना ॥९६॥
मुनिरुवाच
नूनं तपोवनेऽस्माकं दुष्टास्तिष्ठन्ति साधवः ।
ममात्र तपसो भावान्न निघ्नन्ति परस्परम् ॥९७॥
इत्युक्तो हि तदा चेन्द्रः प्राप्तः स्त्रीत्वं न संशयः ।
जगाम त्रिदिवं भूप हतशक्तिपराक्रमः ॥९८॥
नासीनो हि भवत्येव सर्वदा देवसंसदि ।
देवा दुःखं समापन्ना दृष्ट्वा स्त्रीत्वं गतं हरिम् ॥९९॥
ततो देवगणाः सर्वे वासवेन समन्विताः ।
जग्मुश्च ब्रह्मसदनं तथा दीना शची तदा ॥१००॥
ब्रह्मा भग्नसमाधिश्च तावत् तत्रैव संस्थिताः ।
देवा ऊचुश्च ते सर्वे वासवेन समन्विताः ॥१०१॥
तृणबिन्दोर्मृनेः शापाद्यातः स्त्रीत्वं सुराधिपः ।
स मुनिः कोपवान् ब्रह्मन्नैव गच्छत्यनुग्रहम् ॥१०२॥
पितामह उवाच
न मुनेरपराधः स्यात्तृणबिन्दोर्महात्मनः ।
स्वकर्मणॊपयातोऽसौ स्त्रीत्वं स्त्रीवधकारणात् ॥१०३॥
चकार दुर्नयं देवा देवराजोऽपि दुर्मदः ।
जहार चित्रसेनां च सुगुप्तां धनदाङ्गनाम् ॥१०४॥
तथा जघान युवतीं तृणबिन्दोस्तपोवने ।
तेन कर्मविपाकेन स्त्रीभावं वासवो गतः ॥१०५॥
देवा ऊचुः
यदसौ कृतवाञ्शम्भोर्दुर्नयं नाथ दुर्मतिः ।
तत्सर्वं साधयिष्यामो वयं शच्या समन्विताः ॥१०६॥
कान्ता धनाधिनाथस्य गूढा तिष्ठति या विभो ।
तां च तस्मै प्रदास्यामः सर्वे कृत्वा परां मतिम् ॥१०७॥
त्रयोदश्यां चतुर्दश्यां देवराजः शचीयुतः ।
नन्दने चार्चनं कर्ता सर्वदा यक्षरक्षसाम् ॥१०८॥
ततः शची तदा गूढं चित्रसेनां विगृह्य च ।
मुमोच यक्षभवनं प्रियकष्टानुवर्तिनीम् ॥१०९॥
एतस्मिन्नन्तरे दूतोऽकाले लङ्कां समागतः ।
धनेशं कथयामास चित्रसेनासमागमम् ॥११०॥
शच्या साकं समायाता तव कान्ता धनाधिप ।
सखीं स्वामतुलां प्राप्य चरितार्था बभूव सा ॥१११॥
धनेशोऽपि कृतार्थोऽभूज्जगाम निजवेश्मनि ।
देवा ऊचुः
सर्वमेतत्कृतं ब्रह्मन् प्रसादात्ते न संशयः ॥११२॥
पतिहीना यथा नारी नाथहीनं यथा बलम् ।
गोकुलं कृष्णहीनं तु तथेन्द्रेणामरावती ॥११३॥
जपः क्रिया तपो दानं ज्ञानं तीर्थं च वै प्रभो ।
वासवस्य समाख्याहि यतः स्त्रीत्वाद्विमुच्यते ॥११४॥
ब्रह्मोवाच
निहन्तुं न मुनेः शापं समर्थोऽहं न शङ्करः ।
तीर्थं चान्यन्न पश्यामि मुक्त्वैकं विष्णुपूजनम् ॥११५॥
अष्टाक्षरेण मन्त्रेण पूजनं च तथा जपम् ।
करोतु विधिवच्छक्रः स्त्रीत्वाद्येन च मुच्यते ॥११६॥
एकाग्रमनसा शक्र स्त्रात्वा श्रद्धासमन्वितः ।
ॐ नमो नारायणायेति जप त्वमात्मशुद्धये ॥११७॥
लक्षद्वये कृते जाप्ये स्त्रीभावान्मुच्यसे हरे ।
इति श्रुत्वा तथाकार्षीद्र्वह्योक्तं वचनं हरिः ।
स्त्रीभावाच्च विनिर्मुक्तस्तदा विष्णोः प्रसादतः ॥११८॥
मार्कण्डेय उवाच
इति ते कथितं सर्वं विष्णुमाहात्म्यमुत्तमम् ।
मया भृगुनियुक्तेन कुरु सर्वमतन्द्रितः ॥११९॥
श्रृण्वन्ति ये विष्णुकथामकल्मषा वीर्यं हि विष्णोऽखिलकारणस्य ।
ते मुक्तपापाः परदारगामिनो विशन्ति विष्णोः परमं पदं ध्रुवम् ॥१२०॥
सूत उवाच
इति सम्बोधितस्तेन मार्कण्डेयेन पार्थिवः ।
नरसिंहं समाराध्य प्राप्तवान् वैष्णवं पदम् ॥१२१॥
एतत्ते कथितं सर्वं भरद्वाज मुने मया ।
सहस्त्रानीकचरितं किमन्यत् कथयामि ते ॥१२२॥
कथामिमां यस्तु श्रृणोति मानवः पुरात नीं सर्वविमुक्तिदां च ।
सम्प्राप्य स ज्ञानमतीव निर्मलं तेनैव विष्णुं प्रतिपद्यते जनः ॥१२३॥
इति श्रीनरसिंहपुराणे सहस्त्रानीकचरितेऽष्टाक्षरमन्त्रकथनं नाम त्रिषष्टितमोऽध्यायः ॥६३॥