व्यास उवाच
श्रृणु वत्स महाबुद्धे शिष्याश्चैतां परां कथाम् ।
मयोच्यमानां श्रृण्वन्तु सर्वपापप्रणाशिनीम् ॥१॥
पुरा द्विजवरः कश्चिद्वेदशास्त्रविशारदः ।
मृतभार्यो गतस्तीर्थं चक्रे स्नानं यथाविधि ॥२॥
तपः सुतप्तं विजने निः स्पृहो दारकर्मणि ।
भिक्षाहारः प्रवसितो जपस्नानपरायणः ॥३॥
स्नात्वा स गङ्गां यमुनां सरस्वतीं
पुण्यां वितस्तामथ गोमतीं च ।
गयां समासाद्य पितृन् पितामहान्
संतर्पयन् सन् गतवान् महेन्द्रम् ॥४॥
तत्रापि कुण्डेषु गिरौ महामतिः
स्नात्वा नु दृष्ट्वा भृगुनन्दनोत्तमम् ।
कृत्वा पितृभ्यस्तु तथैव तृप्तिं
व्रजन् वनं पापहरं प्रविष्टः ॥५॥
धारां पतन्तीं महतीं शिलोच्चयात्
संधार्य भक्त्या त्वनु नारसिंहे ।
शिरस्यशेषाघविनाशिनीं तदा
विशुद्धदेहः स बभूव विप्रः ॥६॥
विन्ध्याचले सक्तमनन्तमच्युतं
भक्तैर्मुनीन्द्रैरपि पूजितं सदा ।
आराध्य पुष्पैर्गिरिसम्भवैः शुभै -
स्तत्रैव सिद्धिं त्वभिकांक्ष्य संस्थितः ॥७॥
स नारसिंहो बहुकालपूजया
तुष्टः सुनिद्रागतमाह भक्तम् ।
अनाश्रमित्वं गृहभङ्गकारणं
ह्यतो गृहाणाश्रममुत्तमं द्विज ॥८॥
अनाश्रमीति द्विजवेदपारगानपि
त्वहं नानुगृह्णामि चात्र ।
तथापि निष्ठां तव वीक्ष्य सत्तम
त्वयि प्रसन्नेन मयेत्युदीरितम् ॥९॥
तेनैवमुक्तः परमेश्वरेण द्विजोऽपि बुद्ध्या प्रविचिन्त्य वाक्यम् ।
हरेलङ्घ्यं नरसिंहमूर्तेर्बाधं च कृत्वा स यतिर्बभूव ॥१०॥
त्रिदण्डवृक्षाक्षपवित्रपाणिराप्लुत्य तोये त्वघहारिणि स्थितः ।
जपन् सदा मन्त्रमपास्तदोषं सावित्र्यमीशं हदये स्मरन् हरिम् ॥११॥
यथाकथंचित् प्रतिलभ्य शाकं भैक्ष्याभितुष्टो वनवासवासी ।
अभ्यर्च्य विष्णुं नरसिंहमुर्ति ध्यात्वा च नित्यं हदि शुद्धमाद्यम् ॥१२॥
विविक्तदेशे विपुले कुशासने निवेश्य सर्वं हदयेऽस्य सर्वम् ।
बाह्यं समस्तं गुणमिन्द्रियाणां विलीय भेदं भगवत्यनन्ते ॥१३॥
विज्ञेयमानन्दमजं विशालं सत्यात्मकं क्षेमपदं वरेण्यम् ।
संचिन्त्य तस्मिन् प्रविहाय देहं बभूव मुक्तः परमात्मरुपी ॥१४॥
इमां कथां मुक्तिपरां यथोक्तां पठन्ति ये नारसिंहं स्मरन्तः ।
प्रयागतीर्थप्लवने तु यत्फलं तत् प्राप्य ते यान्ति हरेः पदं महत् ॥१५॥
इत्येतदुक्तं तव पुत्र पृच्छतः पुरातनं पुण्यतमं पवित्रकम् ।
संसारवृक्षस्य विनाशनं परं पुनः कमिच्छस्यभिवाञ्छितं वद ॥१६॥
इति श्रीनरसिंहपुराणे चतुर्दशोऽध्यायः ॥१४॥