भरद्वाज उवाच
स्यन्दनारोहणे पूर्वमशक्तिः शांतनोः कथम् ।
पश्चाच्छक्तिः कथं चासीत् तस्य वै तद्वदस्व नः ॥१॥
सूत उवाच
भरद्वाज श्रृणुष्वैतत् पुरावृत्तं वदामि ते ।
सर्वपापहरं तद्धि चरितं शांतनोर्नृणाम् ॥२॥
बभूव शांतनुर्भक्तो नरसिंहतनौ पुरा ।
नारदोक्तविधानेन पूजयामास माधवम् ॥३॥
नरसिंहस्य देवस्य निर्माल्यं तेन लङ्घितम् ।
राज्ञा शांतनुना विप्र तस्मात् स्यन्दनमुत्तमम् ॥४॥
देवदत्तं तदारोढुमशक्तस्तत्क्षणादभूत् ।
किमियं मे गतिर्भग्रा सहसा वै रथात्ततः ॥५॥
दुःखं चिन्तयतस्तस्य सम्प्राप्तो नारदः किल ।
किं विषण्णः स्थितो राजन्निति पृष्टः स शांतनुः ॥६॥
नारदैतत्र जानामि गतिभङ्गस्य कारणम् ।
इत्युक्तो नारदो ध्यात्वा ज्ञात्वा तत्कारणं ततः ॥७॥
शांतनुं प्राह राजानं विनयेन यतः स्थितः ।
यत्र क्वापि त्वया राजन् नरसिंहस्य वै धुवम् ॥८॥
निर्माल्यो लङ्घितस्तस्मद्रथारोहणकर्मणि ।
गतिर्भग्ना महाराज श्रूयतामत्र कारणम् ॥९॥
अन्तर्वेद्यां पुरा राजन्नासीत् कश्चिन्महामतिः ।
मालाकारो रविर्नाम्ना तेन वृन्दावनं कृतम् ॥१०॥
विविधानि च पुष्पार्थं वनानि सुकृतानि वै ।
मल्लिकामालतीजातिबकुलादीनि सर्वशः ॥११॥
प्राकारमुच्छ्रितं तस्य स्वभूमौ चापि विस्तृतम् ।
अलङ्घ्यमप्रवेश्यं च कृत्वा चक्रे स्वकं गृहम् ॥१२॥
गृहं प्रविश्य तदद्वारं भवेन्नान्यत्र सत्तम ।
एवं कृत्वा नु वसतो मालाकारस्य धीमतः ॥१३॥
पुष्पितं तद्वनं त्वासीद् गन्धमोदितदिङ्मुखम् ।
भार्यया सह पुष्पाणि समाहत्य दिने दिने ॥१४॥
कृत्वा मालां यथान्यायं नरसिंहस्य नित्यशः ।
ददौ काश्चिद द्विजेभ्यश्च काश्चिद्विक्रीय पोषणम् ॥१५॥
चक्रे समात् प्रजीवी च भार्यादेरात्मनस्तथा ।
अथ स्वर्गादुपागम्य इन्द्रपुत्रो रथेन वै ॥१६॥
अप्सरोगणसंयुक्तो निशि पुष्पाणि संहरेत् ।
तद्गन्धलिप्सुः सर्वाणि विचित्याहत्य गच्छति ॥१७॥
दिने दिने हते पुष्पे मालाकारोऽप्यचिन्तयत् ।
नान्यद् द्वारं वनस्यास्यालङ्घ्यप्राकारमुन्नतम् ॥१८॥
समस्तपुष्पजातस्य हरणे निशि वै नृणाम् ।
अहं शक्तिं न पश्यामि किमिदं नु परीक्षये ॥१९॥
इति संचिन्त्य मेधावी जाग्रद्रात्रौ वने स्थितः ।
तथैवागत्य पुष्पाणि संगृहीत्वा गतः पुमान् ॥२०॥
तं दृष्ट्वा दुःखितोऽतीव माल्यजीवी वनेऽभवत् ।
ततो निद्रां गतः स्वप्ने दृष्टवांस्तं नृकेसरिम् ॥२१॥
तद्वाक्यं श्रुतवांश्चैवं निर्माल्यं मम पुत्रक ।
आनीय क्षिप्यतां क्षिप्रं पुष्पारामसमीपतः ॥२२॥
इन्द्रपुत्रस्य दुष्टस्य नान्यदस्ति निवारणम् ।
इति श्रुत्वा हरेर्वाक्यं नरसिंहस्य धीमतः ॥२३॥
बुद्धवाऽऽनीय तु निर्माल्यं तथा चक्रे यथोदितम् ।
सोऽप्यागत्य यथापूर्वं रथेनालक्षितेन तु ॥२४॥
रथादुत्तीर्य पुष्पाणि विचिन्वंस्तद्भुवि स्थितम् ।
निर्माल्यं लङ्घयामास इन्द्रसूनुरनिष्टकृत् ॥२५॥
ततस्तस्य न शक्तिः स्याद्रथारोहणकर्मणि ।
उक्तः सारथिना चैव रथस्यारोहणे तव ॥२६॥
नरसिंहस्य निर्माल्यलङ्घने नास्ति योग्यता ।
गच्छामि दिवमेवाहं त्वं भूम्यां वस माऽऽरुह ॥२७॥
तेनैवमुक्तो मतिमांस्तमाह हरिनन्दनः ।
पापस्य नोदनं त्वत्र कर्मणा येन मे भवेत् ॥२८॥
तदुक्त्वा गच्छ नाकं त्वं कर्मास्मान् सारथे द्रुतम् ।
सारथिरुवाच
रामसत्रे कुरुक्षेत्रे द्वादशाब्दे तु नित्यशः ॥२९॥
द्विजोच्छिष्टापनयनं कृत्वा त्वं शुद्धिमेष्यसि ।
इत्युक्त्वासौ गतः स्वर्ग सारथिर्देवसेवितम् ॥३०॥
इन्द्रसूनुः कुरुक्षेत्रं प्राप्तः सारस्वतं तटम् ।
रामसत्रे तथा कुर्यादद्विजोच्छिष्टस्य मार्जनम् ॥३१॥
पूर्णे द्वादशमे वर्षे तमूचुः शङ्किता द्विजाः ।
कस्त्वं ब्रूहि महाभाग नित्यमुच्छिष्टमार्जकः ॥३२॥
न भुञ्जसे च नः सत्रे शङ्का नो महती भवेत् ।
इत्युक्तः कथयित्वा तु यथावृत्तमनुक्रमात् ॥३३॥
जगाम त्रिदिवं क्षिप्रं रथेन तनयो हरेः ।
तस्मात् त्वमपि भूपाल ब्राह्मणोच्छिष्टमादरात् ॥३४॥
मार्जनं कुरु रामस्य सत्रे द्वादशवार्षिके ।
ब्राह्मणेभ्यः परं नास्ति सर्वपापहरं परम् ॥३५॥
एवं कृते देवदत्तस्यन्दनारोहणे गतिः ।
भविष्यति महीपाल प्रायश्चित्ते कृते तव ॥३६॥
अत ऊर्ध्वं च निर्माल्यं मा लङ्घय महामते ।
नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥३७॥
इत्युक्तः शांतनुस्तेन ब्राह्मणोच्छिष्टमार्जनम् ।
कृतवान् द्वादशाब्दं तु आरुरोह रथं च तम् ॥३८॥
एवं पूर्वमशक्तिः स्याद् रथारोहे महीक्षितः ।
पश्चात् तस्यैव विप्रेन्द्र शक्तिरेवमजायत ॥३९॥
एवं ते कथितो विप्र दोषो निर्माल्यलङ्घने ।
पुण्यं तथा द्विजानां तु प्रोक्तमुच्छिष्टमार्जने ॥४०॥
भक्त्या द्विजोच्छिष्टमिहापमार्जयेच्छुचिर्नरो यः सुसमाहितात्मा ।
स पापबन्धं प्रविहाय भुङ्के गवां प्रदानस्य फलं दिवि स्थितः ॥४१॥
इति श्रीनरसिंहपुराणे शांतनुचरितं नामष्टविंशोऽध्यायः ॥२८॥