श्रीमार्कण्डेय उवाच
वर्णानामाश्रमाणां च कथितं लक्षणं तव ।
भूयः कथय राजेन्द्र शुश्रूषा तव का नृप ॥१॥
सहस्त्रानीक उवाच
स्नात्वा वेश्मनि देवेशमर्चयेदच्युतं त्विति ।
त्वयोक्तं मम विपेन्द्र तत्कथं पूजनं भवेत् ॥२॥
यैर्मन्त्रैरर्च्यते विष्णुर्येषु स्थानेषु वै मुने ।
तानि स्थानानि तान्मन्त्रांस्त्वमाचक्ष्व महामुने ॥३॥
श्रीमार्कण्डेय उवाच
अर्चनं सम्प्रवक्ष्यामि विष्णोरमिततेजसः ।
यत्कृत्वा मुनयः सर्वे परं निर्वाणमाप्नुयुः ॥४॥
अग्नौ क्रियावतां देवो हदि देवो मनीषिणाम् ।
प्रतिमास्वल्पबुद्धीनां योगिनां हदये हरिः ॥५॥
अतोऽग्नौ हदये सूर्ये स्थण्डिले प्रतिमासु च ।
एतेषु च हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥६॥
तस्य सर्वमयत्वाच्च स्थण्डिले प्रतिमासु च ।
आनुष्टुभस्य सूक्तस्य विष्णुस्तस्य च देवता ॥७॥
पुरुषो यो जगद्वीजं ऋषिर्नारायणः स्मृतः ।
दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव च ॥८॥
अर्चितं स्याज्जगत्सर्वं तेन वै सचराचरम् ।
आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम् ॥९॥
द्वितीययाऽऽसनं दद्यात्पाद्यं दद्यातृत्तीयया ।
चतुर्थ्यार्घ्यः प्रदातव्यः पञ्चम्याऽऽचमनीयकम् ॥१०॥
षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ।
यज्ञोपवीतमष्टम्या नवम्या गन्धमेव च ॥११॥
दशम्या पुष्पदानं स्यादेकादश्या च धूपकम् ।
द्वादश्या च तथा दीपं त्रयोदश्यार्चनं तथा ॥१२॥
चतुर्दश्या स्तुतिं कृत्वा पञ्चदश्या प्रदक्षिणम् ।
षोडश्योद्वासनं कुर्याच्छेषकर्माणि पूर्ववत् ॥१३॥
स्नानं वस्त्रं च नैवेद्यं दद्यादाचमनीयकम् ।
षण्मासात्सिद्धिमाप्नोति देवदेवं समर्चयन् ॥१४॥
संवत्सरेण तेनैव सायुज्यमधिगच्छति ।
हविषाग्नौ जले पुष्पैर्ध्यानेन हदये हरिम् ॥१५॥
अर्चन्ति सूरयो नित्यं जपेन रविमण्डले ।
आदित्यमण्डले दिव्यं देवदेवमनामयम् ।
शङ्खचक्रगदापाणिं ध्यात्वा विष्णुमुपासते ॥१६॥
ध्येयः सदा सावितृमण्डलमध्यवती नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्यमयपुर्धृतशङ्खचक्रः ॥१७॥
एतत्पठन् केवलमेव सूक्तं दिने दिने भावितविष्णुबुद्धिः ।
स सर्वपापं प्रविहाय वैष्णवं पदं प्रयात्यच्युततुष्टिकृन्नरः ॥१८॥
पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ।
भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः ॥१९॥
इत्येवमुक्तः पुरुषस्य विष्णोरर्चाविधिस्तेऽद्य मया नृपेन्द्र ।
अनेन नित्यं कुरु विष्णुपूजां प्राप्तुं तदिष्टं यदि वैष्णवं पदम् ॥२०॥
इति श्रीनरसिंहपुराणे विष्णोरचाविधिर्नाम द्विषष्टितमोऽध्यायः ॥६२॥